देवयज्ञो भूतयज्ञः पितृयज्ञो मनुष्ययज्ञ इ[१]त्युज्ज्वलाकृदाह । वस्तुतस्तु--अकृतप्रातराश उदकान्तं गत्वा प्रयतः शुचौ देशे स्वाध्यायमधीयीतेति ब्रह्मयज्ञसूत्रस्वरसादिदमेव सिध्यति । सूर्योदयप्रभृति भोजनात्प्राग्यावान्कालस्तन्मध्ये ब्रह्मयज्ञः कर्तव्यो न तु प्रातरेवेति नियमः । तथा च मातरेव ब्रह्मयज्ञानुष्ठानेऽयं क्रमो नोपयुज्यत इति ज्ञेयम् ।
अग्रं च देयमित्येतत्सूत्रस्थं देवपितृभूतमनुष्येभ्यः । चकारादेते मन्त्राः । देवेभ्यः स्वाहा पितृभ्यः स्वधाऽस्तु भूतेभ्यो नमो मनुष्येभ्यो हन्तेति मनुष्ययज्ञव्यतिरिक्तं व्याख्यानं विरुद्धं केनचित्प्रक्षिप्तमित्युपेक्षणीयम् । मतान्तराभिप्रायेण वा नेयम् । आस्तां वा मतान्तराभिप्रायेण । अग्रं च देयमित्यत्रत्यचकारेण संग्रहो देवेभ्यः स्वाहेत्यादियज्ञत्रयस्य । अवाप्यग्निः स एव द्रव्यं च तदेव प्रकरणाद्बौधायनोक्तेश्चेति द्रष्टव्यम् । देवेभ्यः स्वाहेत्येतस्या एवाऽऽहुतेः पृथक्त्वनिराकरणं पितृभ्यः स्वधाऽस्तु भूतेभ्यो नम इत्युभयोरुपलक्षणम् । एवं संकल्पप्रदर्शनमपि पितृयज्ञेन यक्ष्ये भूतयज्ञेन यक्ष्य इत्यनयोः संकल्पयोः[२] ।
([३] अथ पितृयज्ञो भवेच्छ्राद्धं पित्र्यो बलिरथापि वेति कात्यायनेन नित्यश्राद्धेनापि पक्षे पितृय[४]ज्ञसिद्धेर्दर्शितत्वात्तदर्थं नित्यश्राद्धविधिरभिधीयते ।
तत्र मार्कण्डेयपुराणम्--
"कुर्यादहरहः श्राद्धमन्नाद्येनोदकेन वा । |
अत्र विशेषमाह प्रचेताः--
"नाऽऽमन्त्रणं न होमश्च(मं च) नाऽऽवाहनविसर्जने । |
न सुरान्विश्वे(श्व)देवान् । किंचिद्दत्त्वेति दक्षिणार्थम् ।