पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/११६

पुटमेतत् सुपुष्टितम्
९२४
[वैश्वदेवप्रकरणम्]
भट्टगोपीनाथदीक्षितविरचिता--

 इति कात्यायनवचनेनाशनाभावेऽपि कर्तव्यतोक्ता ।

"महायज्ञैश्च यज्ञैश्च ब्राह्मीयं क्रियते तनुः ।

 इति मनुनाऽप्यात्मसंस्कारार्थत्वमेव प्रतिपादितम् ।)

 गोभिलोऽपि--

"यद्येकस्मिन्काले व्रीहियवौ पच्येयातामन्यतरस्य जुहुयात्कृतं मन्येताथ यद्येकस्मिन्काले पुनः पुनरन्नं पच्यते सकृदेव बलिं कुर्वीत यद्येकस्मिन्काले बहुधान्यं(ऽन्नं) पच्येत गृहपतिर्म(म)हानसादेव बलिं कुर्वीत" इति ।

 अयमर्थः--नानाद्रव्यपाके पुनःपाके बहूनामविभक्तभ्रात्रादीनां पृथक्पाकेऽपि चैकस्मादेव द्रव्यात्सकृदेव गृहपतिपाकादेव होतव्यमिति । गृहपतिर्मुख्योऽधिकारी ।

 मनुरपि--

"वैश्वदेवे निवृत्ते तु यद्यन्योऽतिथिराव्रजेत् ।
तस्मा अन्नं यथाशक्ति प्रदद्यान्न बलिं हरेत्" इति ॥

 निवृत्ते भोजनानन्तरमित्यर्थः । माधवोऽप्येवम् । पुरुषार्थत्वे वैश्वदेवाख्यं कर्म न प्रतिपाकमावर्तनीयं भवतीति विज्ञानेश्वरोऽपि ।

 उज्ज्वलाकृताऽपि-- आकाष्ठादिति विशेषवचनादशनीयाभावेन भोजनलोपेऽपि यथाकथंचिद्वैश्वदेवं कर्म कर्तव्यमेव पुरुषसंस्कारत्वादिति केचिदाहुः, अपरे त्वशनीयसंस्कार इति वदन्तो भोजनलोपे वैश्वदेवं कर्म न कर्तव्यमिति स्थिता इति मतद्वयं प्रदर्श्य द्वितीयमते चिन्त्यत्वोक्त्या स्वस्याभिमतमात्मसंस्कारार्थत्वमेवेति दर्शितम् ।

 एवं चोदाहृतस्मृतीनां निबन्धानां चाऽऽत्मसंस्कारार्थत्वमेव मुख्यमन्नसंस्कारार्थत्वं त्वानुषङ्गिकमित्यत्र तात्पर्यं न त्वन्नसंस्कारार्थता नास्त्येवेत्यत्र तात्पर्यम् । यथा फलेच्छयाऽऽरोपितादात्मवृक्षाच्छायागन्धावानुषङ्गिकौ तद्वदत्रेति द्रष्टव्यम् । पञ्चसूनादोषपरिहारोऽपि देवयज्ञाद्यनुष्ठानेन भवति ।

 तथा च कूर्मपुराणम्--

"वैश्वदेवः प्रकर्तव्यः पञ्चसूनापनुत्तये" इति ॥

 यमोऽपि--

"पञ्च सूता गृहस्थस्य वर्तन्तेऽहरहः सदा ।
कण्डनी पेषणी चुल्ली जलकुम्भ उपस्करः ॥
एतानि वाहयन्विप्रो बाध्यते वै मुहुर्मुहुः ।
एतासां पावनार्थाय[१] पञ्च यज्ञाः प्रकीर्तिताः" इति ॥


  1. च.य महाय ।