पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/११८

पुटमेतत् सुपुष्टितम्
९२६
[वैश्वदेवकालनिर्णयः]
भट्टगोपीनाथदीक्षितविरचिता--

 एतच्च होम एव, बलिहरणे सूत्रकृता देशविशेषाभिधानात् । एतच्च पचनाग्नौ होम एव नौपासनाग्नौ होमे, तस्य नियतस्थानत्वात् ।

अथ कालः ।

तत्राऽऽश्वलायनः--"अथ सायं प्रातः सिद्धस्य हविष्यस्य जुहुयात्" इति ।

 सूत्रकृताऽपि नक्तमेवोत्तमेन वैहायस इत्यनेन सूत्रेण सा[१]यं प्रातः कर्तव्यतोक्ता भवति ।

 स्मृतिमञ्जर्यां नृसिंहपुराणे--

"दिवा यामद्वयेऽतीते स्त्रानं माध्याह्निकं चरेत् ।
पौरुषेण च सूक्तेन ततो विष्णुं समर्चयेत् ॥
वैश्वदेवं ततः कुर्याद्बलिकर्म तथैव च ।
भोजयेदतिथिं पश्चाद्भोजनं स्वयमाचरेत्" इति ॥

 ([२] अत्र तत इतिपञ्चमीश्रुत्या वैश्वदेवस्यैव देवपूजानन्तर्यं प्रतिपाद्यते । आतिथ्यस्य वैश्वदेवानन्तर्यं तु स्पष्टमेवोक्तम् । देवपूजानन्तरमातिथ्यं ततो वैश्वदेव इति पराशरोक्तक्रमस्तु दुर्बलः पाठक्रमापेक्षयाऽर्थक्रमस्य बलीयस्त्वात् । एतच्च श्रुतिलिङ्गसूत्रव्यवस्थापितम् । तस्माद्वैश्वदेव एव प्रथमं कर्तव्यः पश्चादातिथ्यम् । आतिथ्यशब्देन मनुष्ययज्ञ उच्यते । अनया रीत्या वेदपाठोऽप्यनुगृहीतो भवति--देवयज्ञः पितृयज्ञो भूतयज्ञो मनुष्ययज्ञो ब्रह्मयज्ञ इति । स्मार्ताच्च पाठो बलीयानिति विरोधाधिकरणन्यायेनावगम्यते । तस्मादपि मनुष्ययज्ञाद्वैश्वदेवस्य प्राथम्यम् । देवपूजोत्तरं वैश्वदेव[३] इति सर्वनिबन्धा अपि ।

" [४]विष्णोर्निवेदितान्नेन यष्टव्यं देवतान्तरम् ।
पितृभ्यश्चापि तद्देयं तदानन्त्याय कल्पते" इति पद्मपुराणवचनात्
"पितृशेषं तु यो दद्याद्भूतशेषं तु विष्णवे ।
रेतोदाः पितरस्तस्य भवन्ति क्लेशभागिनः" ॥

 इति पञ्चरात्राच्च पूर्वं नैवेद्यसमर्पणं ततो वैश्वदेव इति केचित् ।

 अन्ये तु--"वैश्वदेवविधिं कृत्वा विष्णोर्नैवेद्यमर्पयेत्" इति व्यासोक्तेः,


  1. ङ. च. सायंप्रातःकालौ सूचितौ । स्मृ ।
  2. धनुश्चिह्नान्तर्गतग्रन्थस्थाने ङ. पुस्तकेऽन्यथा ग्रन्थः स यथा--"तेन देवपूजोत्तरं वैश्वदेव इति सर्वनिबन्धाः । तमेवं(नं) वैश्वदेवशेषेण कुर्यान्नास्य शेषेण वैश्वदेवं कुर्यादिति बह्वृचपरिशिष्टोक्तेराश्वलायनानामेवाऽऽदौ वैश्वदेवस्ततो देवपूजेत्येवं वा क्रमः" इति ।
  3. ख. वस्य प्र अपि तमेव वै ।
  4. एतत्प्रभृतीदमपि साधकमित्यन्तो ग्रन्थश्च. पुस्तकेऽत्र नास्ति । किं त्वेतस्मात्पूर्ववर्तिस्वयमाचरेदिति ग्रन्थात्परतो वर्तते ।