"जुहुयाद्व्यञ्जनक्षारवर्जमन्नं हुताशने" |
इति तु केवलव्यञ्जनपरमिति केचित् । तन्न । व्यञ्जनशब्दस्य क्षारपदसाहचर्यादहविष्यव्यञ्जनपरतासंभवेन केवलव्यञ्जनपरत्वोपवर्णनस्य स्मृत्यसिद्धस्यानुचितत्वात् । अथवा मुख्यान्नसत्त्वे केवलव्यञ्जनहोमनिषेधपरमिदं वचनं द्रष्टव्यम् ।
हविष्याणि स्मृतौ--
"हैमन्तिकं सितास्विन्नं धान्यं मुद्गा यवास्तिलाः । |
'हैमन्तिकमित्यनेन वार्षिकव्यावृत्तिः । सितमित्यनेन श्यामव्यावृत्तिः । अस्विन्नमित्यनेन स्विन्नव्यावृत्तिः,' इत्याचाररत्ने । 'सितास्विन्नं गौडेषु प्रसिद्धो धान्यविशेषः । स च हेमन्तोत्पन्न एव हविष्यः' इति स्मृतिकौस्तुभे । 'हैमन्तिकं धान्यं कलमास्तदपि सितं श्वेतमस्विन्नं हविष्यम्' इति व्रतार्के । 'अहविष्यमपि सितास्विन्नं सद्धविष्यं भवति' इति भोजनकुतूहले । धान्यं व्रीहयः । कलायाः
सतीनापरपर्यायाः, मठर, इति प्रसिद्धाः । कुलित्था इति केचित् । कङ्गुः 'काङ्ग' इति भाषया प्रसिद्धः । नीवारा देवधान्यम् । वास्तूकम्, 'चाकवत' इति प्रसिद्धः पत्रशाकः । हिलमोचिका गौडेषु 'हिलासा' इति प्रसिद्ध: पत्रशाकः । षष्टिकाः षष्टिदिनैर्यदुत्पद्यते धान्यं तत् । [१]कालशाकः ([२]पर्वतदेशे प्रसिद्धः शाकः ।) केमुकं गौडेषु 'केम्बु' इति प्रसिद्धम् । मूलकं [प्रसिद्धम्] । कन्दः सूरणः । नागरं शुण्ठी । नागरङ्गं च तिन्तिणीत्ययमपि पाठः । अस्मिन्पाठे नागरङ्गशब्देन नारिङ्गं ज्ञेयम् । तिन्तिणी चिञ्चा । लवली 'राय आवळी' इति महाराष्ट्रे प्रसिद्धा । 'हरफारेवडी' इति मध्यदेशे प्रसिद्धा । अतैलपक्वमित्युक्तानां हविष्याणां विशेषणम् । हविष्यमपि तैलपक्वं चेदहविष्यं भवतीत्यर्थः ।)