ब्रह्मचर्यं मैथुनवर्जनमधःशय्या स्थण्डिलशायित्वं क्षारलवणादिवर्जनं च भवति । उपयोक्तुरेव व्रतम् । अन्ये तु पत्न्या अपीच्छन्ति, उपयोगः प्रथमप्रयोगस्तत्र च पत्न्या अपि सहाधिकार इति वदन्तः । उत्तमस्योत्तमेन वैहायसमिति वक्ष्यमाणस्य ये भूताः प्रचरन्तीत्यस्यैकरात्रमुपवासः कर्तव्य इति व्याख्यातमुज्ज्वलाकृता । नियमपूर्वकं ग्रहणं गुरोः सकाशाद्विद्याग्रहणं तदर्थमित्यर्थः ।
तथा च बौधायनः--
- "तेषां ग्रहणे द्वादशरात्रं ब्रह्मचर्यमधःशय्या क्षारलवणमधुमांसवर्जनं त्रयोदशेऽहन्युत्तमस्यैकाहमुपवासः" इति ।
उज्ज्वलाकृन्मते त्वध्ययनाङ्गता । अन्येषां मते कर्माङ्गतेति मतद्वयं ज्ञेयम् । नियमं विनाऽधीतवैश्वदेवमन्त्रस्य वैश्वदेवानुष्ठानकाले वैश्वदेवमन्त्राध्ययनाङ्गभूतव्रतानाचरणनिमित्तप्रायश्चित्तानुष्ठानपूर्वकं वैश्वदेवा[१]रम्भः ।
प्रायश्चित्तं तु--
"प्रत्येकं कृच्छ्रमेकैकं चरित्वाऽऽज्याहुतीः शतम् । |
इति स्मृत्युक्तं वेदव्रतलोपप्रायश्चित्तमेवात्र स[२]मानन्यायात् । स्नानपदं तु तत्तन्मन्त्रसाध्यकर्मोपलक्षणमिति । एवं चाग्नये स्वाहेत्यादिमन्त्राध्ययनार्थं व्रतमेकं ये भूता इतिमन्त्राध्ययनार्थमपरमिति व्रतद्वयलोपनिमित्तं प्राजापत्यद्वयं गायत्र्याऽऽज्येन शतद्वयहोमश्चेति प्रायश्चित्तं चरित्वा दायविभागे जाते सति प्रशस्तेऽहनि वैश्वदेवं समारभेत्[त]।
व्रतस्य कर्माङ्गत्वपक्षेऽधीतमन्त्रोऽपि वैश्वदेवारम्भकाले व्रतद्वयं कुर्यादेवेति ।
धर्मसूत्रे--"सिद्धेऽन्ने तिष्ठन्भूतमिति स्वामिने प्रब्रूयात्तत्सुभूतमिति प्रतिवचनः" इति ।
सिद्धे पक्वेऽन्ने तिष्ठन्पाचको भूतमिति प्रब्रूयात् । कस्मै यस्य तदन्नं तस्मै स्वामिने । भूतमिति निष्पन्नमित्यर्थः । तत्सुभूतमित्यादि[:] प्रतिवचनो मन्त्रः । तदन्नं सुभूतं सुष्ठु निष्पन्नमिति व्याख्यातमुज्ज्वलाकृता । तत्सुभूतमित्यादिपदोपादानात्तत्सुभूतं विराडन्नमित्येतस्य मन्त्रस्य प्रतीकग्रहणमेतदिति केचित् । स्वयंकर्तृके पाके प्रश्नप्रतिवचनयोर्लोपः ।
([३]पत्न्याः पाककरणोत्तरं भूतप्रतिवचनात्पूर्वं रजोदोषे विशेषश्छन्दोगपरिशिष्टे--
"भूतप्रवाचने पत्नी सद्यः संनिहिता भवेत् । |