अथ वैश्वदेवपाकनिर्णयः ।
तत्र नित्यश्राद्धस्य वैश्वदेवस्य चैक एव पाकः । नित्यश्राद्धे नियमविशेषाभावात् । नवश्राद्धे[१]ष्वेकपाकशङ्कैव नास्ति, आशौचमध्ये वैश्वदेव[२]निषेधात्[३] । ऐकादशाहादिकश्राद्धे तु पृथक्पाकः श्राद्धशिष्टान्नस्य ब्राह्मणेभ्यो देयत्वात् ।
तथा च देवलः-- एकोदिष्टे तु शेषं तु ब्राह्मणेभ्यः समुत्सृजेत्" इति ।
दर्शादौ तु लौगाक्षिः--"वैश्वदेवं न पित्रर्थं न दा[४]र्शं वैश्वदेविकम्" इति । इतरदितरार्थं न भवतीति पृथवपाकः कर्तव्य इत्यर्थः । ([५] एतेन दार्शवैश्वदेविकयोरेकः पाक इति कर्कहरिहरयोर्मतमपास्तम् ।) न दार्शमित्यत्र[६] दार्शशब्देन तद्विकृतिभूतानि नित्यनैमित्तिककाम्यश्राद्धानि लक्ष्यन्ते । वैश्वदेविकमित्यत्र वैश्वदेवशब्देन भूतयज्ञादयः । अयं च पृथक्पाको वैश्वदेवस्य श्राद्धात्पूर्वं मध्ये वा वैश्वदेवानुष्ठाने न तूत्तरत्रानुष्ठाने ।
तथा च पैठीनसिः--
" पितृपाकात्समुद्धृत्य वैश्वदेवं करोति यः । |
नन्वेतद्वचनमुत्तरकालेऽपि निषेधकं तदाऽपि तस्य पितृपाकत्वात् । मैवम् । उत्तरकाले पितृसंबन्धस्य निवृत्तत्वात् । यदुद्देशेन परिकल्पितं यद्धविस्तस्य तदुद्देशेन त्यागे कृते तदुपभोगसमनन्तरमेव तत्संबन्धनिवृत्तेर्न्याय्यत्वात् । एवमेव शिष्टाचारोऽपि दृश्यते । अनेनाभिप्राये[७]ण पैठीनसिरेवाऽऽह--
"श्राद्धं निर्वर्त्य विधिवद्वैश्वदेवादिकं ततः । |
अत्र प्रथमस्ततःशब्दो हेतुपरः । द्वितीयस्तु श्राद्धावशिष्टान्नपरः । एवं चायमर्थः संपद्यते--
"पितृपाकात्समुद्धृत्य वैश्वदेवं करोति यः । |
इति यतः श्राद्धात्पूर्वं मध्ये वा निषेधस्ततस्तस्माद्धेतोः श्राद्धं निर्वर्त्य ततस्तच्छिष्टान्नाद्वैश्वदेवादिकं कर्तव्यमिति ।
चतुर्विंशतिमते स्पष्टमेवोक्तम्--
"श्राद्धान्ते श्राद्धशेषेण वैश्वदेवं समाचरेत्" इति ॥ |