पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/१५६

पुटमेतत् सुपुष्टितम्
९६४
[वैश्वदेवेऽतिथिपूजनम्]
भट्टगोपीनाथदीक्षितविरचिता--

 तत्क्षत्त्रियत्वं न विचारयेत्, क्षत्त्रियत्वशङ्कां न कुर्यात् । सोऽप्यतिथिवदेव पूजनीय इत्यर्थः ।

 अतिथिसत्काराकरणे प्रत्यवाय[१]माह पराशरः--

"अतिथिर्यस्य भग्नाशो गृहात्प्रतिनिवर्तते ।
पितरस्तस्य नाश्नन्ति दश वर्षाणि पञ्च च ॥
काष्ठभारसहस्रेण घृतकुम्भशतेन च ।
अतिथिर्यस्य भग्नाशस्तस्य होमो निरर्थकः" इति[२]

आश्वमेधिके--

"साङ्गोपाङ्गांस्तथा वेदान्पठतीह दिने दिने ।
न चाऽऽतिथ्यं(चातिथिं) पूजयति वृथा स पठति द्विजः ॥
पाकयज्ञैर्महायज्ञैः सोमसंस्थाभिरेव च ।
ये यजन्ति न चार्चन्ति गृहेष्वतिथिमागतम् ॥
तेषां य[३]शोभिकामानां दत्तमिष्टं च यद्भवेत् ।
वृथा भवति तत्सर्वमाशया हतया हतः" इति ॥

 अतिथिसत्कारं प्रशंसति स एव--

"सुक्षेत्रं वापयेद्बीजं सुपात्रे निक्षिपेद्धनम् ।
सुक्षेत्रे च सुपात्रे च प्रदत्तं न विनश्यति" इति ॥

 शातातपः--

"स्वाध्यायेनाग्निहोत्रेण यत्नेन तपसा तथा ।
र चाऽऽप्नोति तथा लोकान्यथा त्वतिथिपूजनात्" इति ॥

 तथा--

"न पृच्छेद्गोत्रचरणे न स्वाध्यायं व्रतं कुलम् ।
चित्ते विभावयेत्तं वै व्यासं स्वयमुपागतम्" इति ॥

 अतिथिलक्षणादिकमेतत्सर्वं धर्मसूत्रेऽप्युक्तमस्ति, तस्य बहुतरव्याख्यानसापेक्षत्वात्तेन सहैव प्रदर्शनेऽतिविस्तरः स्यादतो न प्रदर्श्यते ।

 भिक्षुकयोर्यतिब्रह्मचारिणोः सदा पूज्यत्वमाह पराशरः--

"अपूर्वं सुव्रती विप्रो ह्यपूर्वश्चातिथिस्तथा ।
वेदाभ्यासरतो नित्यं त्रयोऽपूर्वा दिने दिने" इति ॥

 सुष्ठु व्रतं सुव्रतं मोक्षहेतुर्यतिधर्मः सोऽस्यास्तीति सुव्रती । वेदाभ्यासरतो ब्रह्मचारी । यथाऽतिथिः पूज्यस्तथैतावप्यतिथिवत्प्रत्यहं पूज्यावित्यर्थः ।

याज्ञवल्क्यः--

"सत्कृत्य भिक्षवे भिक्षां यः प्रयच्छति मानवः ।
गोप्रदानसमं पुण्यं तस्याऽऽह भगवान्यमः" इति ॥


  1. ख. ङ. यमप्याह स एव--अ ।
  2. ङ. ति । अति ।
  3. क. यज्ञोऽभि ।