तकोष्ठेषु षष्ठसप्तमद्वितीयाङ्कान्क्रमेण विलिखेत् । अद इदं यन्त्रं प्रसूतिसमये सूतिकागृहे लेखनीयम् । एतद्दर्शनेन सुखेन शीघ्रं नार्यः प्रसवन्तीति ।
इति सुखप्रसवोपायः ।
अथ यमलयोः संस्कारक्रमार्थं ज्येष्ठत्वकनिष्ठत्वनिर्णयः ।
तत्र मनुः--
"जन्मज्येष्ठेन चाऽऽह्वानं सुब्रह्मण्यास्वपि स्मृतम् । |
अस्यार्थः--सुब्रह्मण्याख्यो मन्त्रो ज्योतिष्टोमादाविन्द्राह्वानार्थं प्रयुज्यते । तत्र वपायागोत्तरकालीनेषु सुब्रह्मण्याह्वावानेषु सनामग्रहत्वविधानात्प्रथमपुत्रेण पितरमुद्दिश्याऽऽह्वानं क्रियतेऽमुकस्य पिता यजत इति । एवमृषिभिः स्मृतम् । यथा दायविभागे मातृतो ज्यैष्ठ्यं न किं तु जन्मत एव ज्यैष्ठ्यं तथैव सुब्रह्मण्याह्वान इत्यपिशब्दार्थः । तथा यमलजातयोर्गर्भ एककालं निषिक्तयोरपि जन्मक्रमेण ज्येष्ठता स्मृतेति ।
स्मृतितत्त्वे देवलोऽपि--
"यस्य जातस्य यमयोः पश्यन्ति प्रथमं मुखम् । |
अस्यार्थः--यमयोर्मध्ये यस्य जातस्य प्रथमं मुखदर्शनं स ज्येष्ठस्तस्मिन्संतानः पितरश्च प्रतिष्ठिताः । तत्र ज्यैष्ठ्यं च प्रतिष्ठितं भवतीति ।
श्रीभागवते तु--
"प्रजापतिर्नाम तयोरकार्षीद्यः प्राक्स्वदेहाद्यमयोरजायत । |
इत्यनेन पश्चादुत्पन्नस्य ज्येैष्ठ्यमुक्तम् । व्याख्यातमेतच्छ्रीधरेण--यमयोर्मध्ये यः स्वदेहात्प्रथममजायत तं यथा हिरण्यकशिपुं प्रजा विदुः, सा दितिः प्रथमं यमसूत तं हिरण्याक्षं यथा विदुस्तथा नाम कृतवानित्यर्थः । यदा हि