श्राद्धं नाऽऽवर्तत इत्येतत्परतया व्यवस्थाप्यते । अत एवाऽऽपस्तम्बसूत्रानुसारियाज्ञिकानां विच्छिन्नाग्न्याधाने नान्दीश्राद्धाचारश्चिन्त्य इति नवीना आहुः । आधान इत्यादि श्लोकद्वयं पूर्वोक्तकर्मणामेव विवरणार्थं न पृथग्वाक्यम् । अतो ज्योतिष्टोमादिषु प्रतिप्रयोगं भवत्येव वृद्धिश्राद्धमित्यन्ये नवीनाः । केषांचित्प्रथमप्रयोगेऽपि नैतत्कार्यमित्यप्याह कात्यायनः--
"नाष्टकासु भवेच्छ्राद्धं न श्राद्धे श्राद्धमिष्यते । |
अत्र द्वितीयः पादो हेतुवन्निगमतया प्रथमशेषः । सोप्यन्त्या आसन्नप्रसवायाः सोष्यन्तीमभ्युक्ष्येति कात्यायनोक्तं कर्म । प्रोषितागतकर्म तु प्रवासादेत्याऽऽगतं पुत्रमभिमृशतीति विहितं कर्म । जातकर्माङ्गत्वेन निषेधस्तु च्छन्दोगमात्रविषयः । तत्परिशिष्टगतत्वात्, इति समयोद्योते । तदाऽपि वृद्धिनिमित्तकं पुरुषार्थं ततः पूर्वं भवत्येवेति नवीनाः । इति वृद्धिश्राद्धनिर्णयः ।
अथ प्रायश्चित्तार्थभूतं वैष्णवं श्राद्धम् ।
तदाह शातातपः--
"विधाय वैष्णवं श्राद्धं सांकल्पं निजकाम्यया । |
अत्र विष्णुदेवतया पित्रादिदेवताबाधः । सांकल्पिकत्वाच्चार्घ्यावाहनाग्नौकरणादिविकिरपिण्डदानस्वधावाचनानां बाधः ।
अथ श्राद्धे निषिद्धकालः ।
"रात्रौ श्राद्धं न कुर्वीत राक्षसी कीर्तिता हि सा । |
बौधायनः--
"चतुर्थे प्रहरे प्राप्ते यः श्राद्धं कुरुते नरः । |
एतच्च सूत्रोक्तमासिकश्राद्धे न प्रवर्तते ।
"पिण्डान्वाहार्यकं श्राद्धं कुर्यान्मासानुमासिकम्" ॥ |
इति दर्शानन्तरं मनुना तस्य विहितत्वात् । पिण्डान्वाहार्यकशब्दस्य दर्शश्राद्धपरत्वं तु दर्शोपोद्घातनिरूपणे प्रदर्शितम् । ग्रहणश्राद्धेऽपि नायं निषेधस्तस्यापि विहितत्वात् । एवं पुत्रजन्मनिमित्तकनान्दीश्राद्धेऽपि ।