पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/२६२

पुटमेतत् सुपुष्टितम्
१०७०
[दर्शश्राद्धप्रयोगः]
भट्टगोपीनाथदीक्षितविरचिता--

पूजोत्तरं वा कार्यं न तूर्ध्वपुण्ड्रत्रिपुण्ड्रवर्तुलार्धचन्द्राकारं लेपनम् । कस्तूरीदाने विकल्पः । 'ओषधयः प्रतिमोदध्वमेनं० मासदत्' पुरूरवसं० । आर्द्रवसं० । इदं वः पुष्पमिति प्रतिविप्रमेकैकं पुष्पं दद्यात् । सुपुष्पमस्त्विति प्रतिवचनम् । बहूनि वा पुष्पाणि देयानि । अस्मिन्कल्प इमानि पुष्पाणीति प्रयोगः । सुपुष्पाणि सन्त्विति प्रतिवचनम् । 'धूरसि धूर्व धूर्वन्तं धूर्वतं योऽस्मा० धूर्वामः' पुरूरवसं० । आर्द्रवसं० । अयं वो धूप इति धूपं दद्यात् । सुधूपोऽस्त्विति प्रतिवचनम् । धूपो व्यजनवातेन देयः । न हस्तवस्त्रपर्णादिवातेन । 'उद्दीप्यस्व जातवेदो० दिशो दिशः' पुरूरवसं० । आर्द्रवसं० । अयं वो दीप इति दीपं दद्यात् । सुदीपोऽस्त्विति प्रतिवचनम् । घृतदीपो देयः । 'युवं वस्त्राणि पीवसा वसाथे युवो० सचेथे' युवा सुवासा इति वा, पुरूरवसं० । आर्द्रवसं० । इदं वो वस्त्रमिति प्रतिविप्रमेकैकं वस्त्रं दद्यात् । सुवस्त्रमस्त्विति प्रतिवचनम् । इदं व आच्छादनमित्येवं वा प्रयोगः । अस्मिन्कल्पे स्वाच्छादनमस्त्विति प्रतिवचनम् । मन्त्रस्तु स एव । शक्तौ सत्यां वस्त्रद्वयं देयम् । अस्मिन्पक्षे--इमे वो वस्त्रे इमे व आच्छादने इति वा, सकृन्मन्त्रमुक्त्वा सहैव दद्यात् । सुवस्त्रे स्तः स्वाच्छादने स्त इति वा प्रश्नानुसारेण प्रतिवचने । वस्त्राभाव एकं यज्ञोपवीतं दद्यात्तच्छब्देनैव । वस्त्रद्वित्वपक्षे द्वयम् । वस्त्राभावे समर्थेन निष्क्रयो देयः । असमर्थेनोपवीतम् । स्वतन्त्रतया यज्ञोपवीतदाने यज्ञोपवीतं परममिति दद्यात् । सति संभवेऽलंकारादर्शादिदानमप्यत्र कर्तव्यम् । दक्षिणाकाल एव वाऽऽदर्शालंकारादिदानम् । दाने--इमेऽलंकाराः । अयमादर्श इति वाक्यानि । स्वलंकाराः स्वादर्श इत्यादीनि प्रतिवचनानि ज्ञेयानि । दक्षिणाकाले दानेऽलंकारादर्शादिसहिता दक्षिणाः पान्त्वित्येवं वाक्यप्रयोगो ज्ञेयः । प्रतिवचनमप्येतदनुसारेणैव । भो देवा गन्धाद्याच्छादनान्ता उपचाराः परिपूर्णा भवन्त्विति विप्रौ वदेत् । तौ च भवन्तु परिपूर्णा इति प्रतिवदेताम् ।

"आदित्या रुद्रा वसवः सुनीथा द्यावा क्षामा पृथिवी अन्तरिक्षम् ।
सजोषसो यज्ञमवन्तु देवा ऊर्ध्वं कृण्वन्त्यध्वरस्य केतुम्" ॥

 इति देवविप्राववलोकयन्पठेत् । इति देवार्चनम् ।

 ततः प्राचीनावीती दक्षिणामुखः पित्र्यविप्रदक्षिणकरेषु कूर्चेन तिलोदकं दत्त्वा पि[१]त्र्यब्राह्मणानुत्थाप्य पित्राद्यर्थेषु पूर्वमेव संस्थापितेष्वासनेषु पित्रर्थविप्रवामदेशमनुलक्ष्य तत्र सतिलान्भुग्नान्दर्भान्दक्षिणाग्रान्निधाय भूर्भुवः सुवः, अस्मत्पितुरमुकशर्मणोऽमुकगोत्रस्य वसुरूपस्य सपत्नीकस्येदमासनमिति प्रथ


  1. च. पित्रा ।