मन्नममृतरूपं परिविष्टं परिवेक्ष्यमाणं चास्य ब्राह्मणस्याऽऽतृप्तेः स्वधा कव्यं न ममेति विप्रवामभागे तिलोदकं विसृजेत् । एवं पितामहाय प्रपितामहाय मातामहादिभ्यश्चोहेन । एकश्चेद्विप्रस्तदा पितृपितामहप्रपितामहा अमुकशर्माणोऽमुकगोत्रा वसुरुद्रादित्यस्वरूपाः सपत्नीकाः, मातामहमातुःपितामहमातुःप्रपितामहा अमुकशर्माणोऽमुकगोत्रा वसुरुद्रादित्यस्वरूपाः सपत्नीका देवता इदमिदमन्नं कव्यमयं० वटच्छायेयम् । अस्मत्पितृपितामहप्रपितामहेभ्यः, अमुकामुकशर्मभ्यः, अमुकगोत्रेभ्यो वसुरुद्रादित्यस्वरूपेभ्यः सपत्नीकेभ्यः, अस्मन्मातामहमातुःपितामहमातुःप्रपितामहेभ्यः, अमुकामुकशर्मभ्यः, अमुकगोत्रेभ्यो वसुरुद्रादित्यस्वरूपेभ्यः सपत्नीकेभ्य इदमन्नममृतरूपं० स्वधा कव्यं न ममेत्येवं प्रयोगः । ततः 'ये चेह पितरो ये० स्वधा नमः' इति पितॄनुपतिष्ठते ।
ततः--
"देवताभ्यः पितृभ्यश्च० नमो नमः । |
इति पठित्वा तिलोदकं यवोदकं चाऽऽदाय 'ब्रह्मार्पणं ब्रह्म हविर्ब्रह्माग्नौ० समाधिना । हरिर्दाता हरिर्भोक्ता० भोजयते हरिः । चतुर्भिश्च चतुर्भिश्च० प्रसीदतु[२] । एको विष्णुर्महद्भूतं० विश्वभुगव्ययः' इति पठित्वा येषामुद्दिष्टं तेषामक्षय्या तृप्तिरस्तु । पितृस्वरूपी परमेश्वरः प्रीयतां न ममेति भूमौ जलं प्राचीनावीत्येव विसृज्य[३] पितृभ्यो नम इति पितॄन्नमस्कुर्यात् ।
ततः--
"ईशानविष्णुकमलासनकार्तिकेयवह्नित्रयार्करजनीशगणेश्वराणाम् । |
इत्युक्त्वा यज्ञोपवीती परिविष्टान्नेषु सर्पिरासिच्य प्रणवं समस्तव्याहृतीर्मधु वाता इति तिस्र ऋचश्चोक्त्वा[४], एतच्छ्राद्धमच्छिद्रं जायतामिति विप्रान्पृष्ट्वा