भिषिक्तादिजातीनामुपलक्षणार्थः । यद्यप्यसवर्णसापत्नमातृभ्रात्रादयोऽप्यसवर्णास्तथाऽपि तर्पणं कार्यमेव ।
"पितृपत्न्यः सर्वा मातरस्तद्भ्रातरो मातुलास्तद्भगिन्यो मातृष्वसारस्तद्दु- |
यत्र च समत्वापादनं तत्र मुख्यापेक्षया किंचिन्न्यूनता भवतीति नात्र तत्प्राधान्यम् । अपि तु स्वसंनिहितसवर्णतर्पणानन्तरमेव तत्तर्पणमिति विवेकः । ननु सुमन्तुवचनेऽपि सवर्णानामेव मात्रादिसाम्यं भवतु मा नाम भूदसवर्णानामिति चेन्न । तथा सति पितृपत्न्यः सर्वा मातर इति न ब्रूयात् । उपात्तश्च सर्वशब्दो न तु पितृपत्न्य एव । अतः सर्वशब्दासंकोचाय पूर्वोक्त एक युक्तः पक्षः । एतेन भीष्मतर्पणमपि ब्राह्मणस्य निषिद्धमित्युक्तं भवतीत्याह । ([१] एतस्मादेव मदनपारिजातग्रन्थात्सपत्नभ्रातृमातुलमातृष्वसॄणामपि तर्पणोद्देश्यतायामवगतायामुपलक्षणतया सपत्नपितृव्यादीनामप्युद्देश्यता द्रष्टव्येति केचित् । सापत्नपितामह्यादीनां पितामहीत्वादिना न तर्पणम् । बन्धुत्वेन तर्पणे न दोष इति गागाभट्टाः ।) नामग्रहणे विशेषमाह बौधायनः--
"शर्मान्तं ब्राह्मणस्योक्तं वर्मान्तं क्षत्त्रियस्य तु । |
गोत्रे विशेषमाह स एव--
"चतुर्णामपि वर्णानां पितॄणां पितृगोत्रतः । |
जीवत्पितृकस्य नित्यतर्पणनिषेधमाह कार्ष्णाजिनिः--
"न जीवत्पितृकः कुर्यान्मात्रादीनां तु तर्पणम् । |
जीवत्पितृककर्तृकतर्पणे विशेषमाह योगयाज्ञवल्क्यः--
"कव्यवाडनलः सोमो यमश्चैवार्यमा तथा । |