आगमभुक्त्योः परस्परसापेक्षत्वम्.
एवं च दीर्घकालभुक्तिरागमानुगृहीता प्रमाणम् । आगमस्तु दीर्घकालभुक्त्यनुगृहीत इति । अत एव पितामहः--
"नागमेन विना भुक्तिः नागमो भुक्तिवर्जितः।
तयोरन्योन्यसंबन्धात्प्रमाणत्वं व्यवस्थितम्" ॥
इति । अनेनैवाभिप्रायेण बृहस्पतिरपि--
"भुक्त्या केवलया नैव भूमिस्सिद्धिभवाऽऽप्नुयात् ।
आगमेनापि शुद्धेन द्वाभ्यां सिध्यति नान्यथा" ॥
केवलया-- आगमरहितयेत्यर्थः । अत एव हारीतः--
"न मूलेन विना शाखा अन्तरिक्षे प्ररोहति ।
आगमस्तु भवेन्मूलं भुक्तिश्शाखा प्रकीर्तिता" ॥
स्तोकभुक्त्यभावे आगमदौर्बल्यं.
आगमस्य भोगनिरपेक्षत्वेन प्रामाण्यं नास्तीत्याह याज्ञवल्क्यः--
"आगमेऽपि बलं नैव भुक्तिस्स्तोकाऽपि यत्र नो" ॥
इति । यस्मिन्नागमे स्वल्पाऽपि भुक्तिर्नास्ति तस्मिन्नागमे बलसंपूर्णता नैवास्ति । अयमभिसन्धिः-- स्वस्वत्वनिवृत्तिः परस्वत्वापादनं च परो यदि दानं स्वीकरोति तदा संपद्यते । तथा स्वीकारश्च त्रिविधः मानसो वाचिकः कायिकश्चेति । तत्र मानसो ममेदमिति सङ्कल्परूपः । वाचिकस्तु ममेदमिति अभिव्याहारोल्लेखी सविकल्पकप्रत्ययः । कायिकःपुनरुपादानाभिमर्शनादिरूपोऽनेकविधः । तत्र च निमयस्स्मर्यते--