नारदोऽपि--
"साक्षिविप्रतिपत्तौ तु प्रमाणं बहवो यतः ।
तत्साम्ये शुचयो ग्राह्याः समे तु शुचिमत्तराः" ॥
तत्साम्यात् साक्षिसाम्ये च विवादो यत्र दृश्यते ।
सूक्ष्मत्वात् साध्यधर्मस्य साध्यं व्यावर्तयेत्ततः" ॥
इति ।
साक्षिभिरन्यूनाधिकमेव वक्तव्यम्.
पृष्टादूनाधिकं न कर्तव्यमिति कात्यायन आह--
"निर्दिष्टेष्वर्थजातेषु साक्षी चेत् साक्ष्य आगते ।
न ब्रूयादक्षरसमं न तन्निगदितं भवेत्" ॥
साक्ष्ये-- साक्ष्यवादे । आगते प्राप्ते । अक्षरसमं अक्षरानुरूपं पृष्टार्थमिति यावत् । पृष्टार्थासमर्थकमपार्थमित्यर्थः । एवं पृष्टादूनाधिकं च न वक्तव्यम् ।
"ऊनमभ्यधिकं वाऽर्थं विब्रूयुर्यत्र साक्षिणः ।
तदप्ययुक्तं विज्ञेयं एष साक्षिविनिश्चयः" ॥
कूटसाक्षिचिह्नानि.
विष्णुः-
स्वभावाद्विकृतौ मुखवर्णविनाशे च असंबद्धप्रलापे च कूटसाक्षिणं विन्द्यात्, इति । स्वभावविकृतिमाह याज्ञवल्क्यः--
"देशाद्देशान्तरं याति सृक्किणी परिलेढि च ।
ललाटं स्विद्यते यस्य मुखं वैवर्ण्यमेति च" ॥
अभियोगेऽथ साक्ष्ये वा दुष्टस्स परिकीर्तितः ॥
इति ॥