यत्तूक्तं विष्णुना--
"आथर्वणिकं पौराणिकं धर्मशास्त्रकुशलं पुरोहितं वृत्वा ततो ज्योतिर्विदं वृणुयात्" इति ।
तत्तु ज्योतिर्विद्वरणाऽऽवश्यकत्वप्रतिपादनपरम् ।
वरणस्य पूर्वापरभावप्रतिपादनं क्त्वाप्रत्ययस्य समानकर्तृकत्वमात्र एव विहितत्वेन न पूर्वकालनिबन्धनत्वात् समानकर्तृकत्वमात्रनियतत्वं मुखं व्यादाय स्वपितीत्यादौ दृष्टम् । एतच्च समानकर्तृकयोः पूर्वकाल इत्यत्र हरिणा प्रपञ्चितम् । अतश्च ज्योतिर्वित्कर्तव्यताप्रतिपादनपरमिति युक्तमुत्पश्यामः । ततश्च राजलासकोक्तं-- "वृतोपदिष्टमुहूर्तेऽभिषेकं कुर्यात्" इति समञ्जसं स्यात् । अत एव राजकार्यविचारे--
तैस्सार्धं चिन्तयेद्राज्यं विप्रेणाथ स्वयं ततः ।
इति याज्ञल्क्यवचने विप्रपदं ज्योतिर्वित्परम् ।
मन्त्रिपुरोहितादिवरणम्.
राजकार्यकुशलमन्त्रिविचारानन्तरं दैवज्ञविचार एव युज्यते । न तु पुरोहित विचारः । विज्ञानयोगिना तु विप्रपदं पुरोहितपरमित्युक्तम् । यदि पुरोहित एव ज्योतिर्वित्तत्परमित्यनुसंधेयम् । तथाच मन्त्रिणोऽपि कार्या इत्याह विष्णुः-- "मौल्यानर्थविदो मन्त्रिणः कुर्वीत स्वराष्ट्रस्य गुप्तये" इति मौल्यान् स्ववंशपरम्परायातान्, अर्थविदः धनार्जनोपायविदश्च एतेषामभावे राज्यस्य गुप्ति र्न विद्यत इत्यवश्यं संपाद्या इत्यर्थः ।