पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/१८९

एतत् पृष्ठम् परिष्कृतम् अस्ति
१५७
अनुमाननिरूपणम् ।



सर्वं चैतदस्माभिर्न्यायवार्तिकतात्पर्यटीकायां (अ० १
आ• १ सू• ५) व्युत्पादितमिति नेहोक्तं विस्तरसयात् ।
 प्रयोजकवृद्धशब्दश्रवणसमनन्तरं प्रयोज्यवृद्धप्रवृति-

व्यापितरभेदसाधनप्रकारस्यान्यत्र प्रसिद्धेः । न पटस्तन्तुभ्यो भिद्यते तन्तुधर्मत्वादित्यादौ साध्यस्य प्रसिद्धत्वेपि तत्र हेत्यभावे- नान्वयव्याप्त्यसम्भवात् । अनुमित्थव्यवहितसमानाधिकरणनिर्ण- यविषयतावच्छेदकव्यतिरेकितावच्छेदकधर्मावचिछन्नसाध्यकानुमा- नत्वं अन्वयव्यतिरेक्यनुमानत्वम् लक्ष्यं चास्य वह्निमानधूमादित्य- दि । तथा चानुमानस्य त्रैविध्यसम्भवे द्वैविध्यकथनमसङ्गतम् । अथ तत्पूर्वकं त्रिविधमनुमानं पूर्ववच्छेषवत्सामान्यतोदृष्टं चेति न्याय–(अ० १ आ० १ स्० ५) सूत्रविरोधश्च । किं च पूर्ववदित्यादेः पूर्वं कारणमस्याऽस्तीत्याद्यर्थः प्रती- पते न तु पूर्वोक्तार्थ इत्याशङ्क्याह । सर्वं चैतदिति । सा- धारणादिसङ्ग्राहकव्यभिचारित्वादिवत् अन्वयव्याप्तिमत्वरूप-वी- तत्वस्य केवळान्वय्यन्वयव्यतिरेकिसङ्ग्राहकस्य सम्भवे त्रैविध्यकल- नाऽन्याय्येति मनसि निधाय-पूर्वेण तुल्यं वर्त्तते इति पूर्ववत् क्रि-. यातुल्यतायां च वतिः, सामान्यतो दृष्टमित्यतो दृष्टपदं सम्बध्यते । एवं च पूर्वम्-अन्यतरदर्षनेन सह यत्रान्यतरदर्शनं दृष्टान्तधर्मिणि, ततः पक्षेऽन्यतरदर्शनेन-साधनदर्शनेनाऽन्यतरस्य-साध्यधर्मस्य दर्शनमनुपानमनुमित्यात्मकं ज्ञानमिति भवति क्रियातुल्यतेत्या- दिरीत्या तत्र व्युत्पादनादिति भावः ।

 अनुमानानन्तरं शब्दनिरूपणे उपजीवकस्वरूप-सङ्गतिं दर्श यति । शब्दश्रवणसमनन्तरेति । प्रयोजकवृद्धोञ्चरितेत्यादि।- तया च घटमानयेति प्रयोजकवृद्धोच्चरितशब्द श्रवणानन्तरं घंटानयनप्रवृत्तस्य प्रयोज्यवृदस्य दानयनरूपां चे