मवगमयति । यदि पुनरसतः सज्जायते असन्निरुपाख्थं
कारणं सुखादिरूपशब्दद्यात्मकं कथं स्पात सदसतो-
स्तादात्म्यानुपपत्तेः ? अथैकस्य सतो विवर्तः शब्दादि-
प्रपञ्चः तथाऽपि सतः सज्जायत इति न स्यात् । न चा-
स्याद्वयस्य प्रपञ्चात्त्मकत्वम् , अपि त्वप्रपञ्चस्य प्रपञ्चत्त्म
कतया प्रतीतिर्भ्रम एव । येषमपि कणभक्षाक्षचरण-
दीनां सत एव कारणादसतो’जन्म तेषमपि सदसतो.
रकत्वानुपपतेर्ने कार्यात्मकं कारणमिति न तन्मते प्र-
धानसिद्धिः ।
अतः प्रधानसिद्ध्यर्थं प्रथमं तावत्सत्कार्यं प्रतिजानीते।
असदकरणादुपानग्रहणात् सर्वसम्भवाभावात् ।
शक्तस्य शक्यकरणात् कारणभवाच्च सत् कार्यंम्॥९॥
‘असदकरणात्’ इति । "सत् कार्यम्”-कारण-
व्यापारात् प्रागपीति शेषः । तथा च न सिद्धसाधनं नै-
य्ययिकतनयैरुद्भावनीयम् । यद्यपि बीजमृत्पिण्डादिप्र-
घ्वंसानन्तरमङ्कुरघटाद्युत्पत्तिरुपलभ्यते, तथाऽपि न
सुखादिरूपस्वे सति प्रकृतित्वं प्रधानस्वम् । कणभक्षःकणादमु-
निदर्शाध्यायी-वैशेषिकशास्त्रप्रणेता । अक्षचरणस्तु गौतममुनिः
पञ्चाध्यायी-न्यायशास्त्रप्रणेता, ते एव नैय्यायिकोः । बहुवचनं
पूजार्थस् । सिद्धसाधनं धुनीते । कारणव्यापारादिति । प्राग-
पीति । उत्पादनाशसामग्युत्तरमपेि । नैय्यायिकतनयैः-तदनुया-
यिभिः । तन्यताभिमानमूचनाय तनयग्रहणं, तेन तदुपपादनसमर्था
इति सूचितम् ।‘‘अनुपमृद्य प्रादुर्भावदर्शनादसतः सदुत्पत्तिः" इति
बौदमतमाशङ्क्य निराचष्टे । यद्यपीति। तर्हि कस्योपादा-