अर्जुनः ( आकर्ण्य ) कथं निकटावत्तरणानि व्योमतो विमानानि ! ।
( सखेदम् ) अहो मे संसोढबाह्यरिपुपराभवस्प दुःसहशारीररिपोः कुसृमायुधस्य सर्वङ्कपो दुष्प्रतीकारः पराभवः समुपस्थितोऽयम् । एताह्यप्सरसः कुसुमायुधस्य महायुधम् ।
( सवितर्कम् )
पृपत्कव्यापारः प्रभवति पुरन्ध्रीपु कतमः |
तदेवं तावत् । ( प्रकाशम् ) सखे सिद्धादेश ! शशाङ्कशेखरप्रसादफलतप:- परायणस्प न युज्यते सुरसुन्दरीदर्शनम् । तदिहोपरिप्टादिपुपटलमपं वितानं वितनोमि ( इति तथा करोति )
सिद्धा०-(समन्तादवलोक्य साश्चर्यम् ) महाभाग सव्यसाचिन् ! बहुशोऽनुभूतानि मया धनदसदने महानिधानानि । अननुभूतमिदं ब॒टुनिघानुंं धूमुर्निधानं मया | नह्येकधनुपा द्विभुजेन परिमितशरेण धन्विना कर्मैतद्विघीयत ।
( नेपथ्ये )
किं पातालमगाद्विहङ्गमपतिस्तत्र्नासवित्रासिताः |
( पुनर्नेपथ्ये )
आः कोऽयं कुतर्कः ! । ननु व्यक्तमेव लोलन्ति नाराचमालाः, व्यावर्त्तन्त वि॒मानानि॒ । मा कदा॒चन मापामपमहासुरसन्निपातोऽपं भविष्पति । तदिदृदानीमपथ्यमेव मुनिजनोपसर्पणमप्सरसाम् । पुरन्दरानुसरणमेव शरणम् । स एवैतदद्भुतानुरूपं यत्किञ्चित्करिप्यते ।
सिद्धा०-( विभाव्य ) पर्थ ! निवर्त्तितान्येव विमानानि पाकशासनसचियैः ।