एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला । महाकुचभराकृष्टसंक्षिप्तान्तर्भुजान्तरैः । लिपद्भिः केकरान्स्वसिन्नियन्तुमसहैरिव ॥ ११ ॥ सिञ्चद्भिरिव लावण्यरसवृश्या दिगन्तरम् । कैदारिकगतेदारैश्चकितं विनिचायितम् ॥ १२॥ (त्रिभिर्विशेषकम्) छोत्कारेति ॥ छोत्कारस्येव छातं तनुकृतं जठरमुदरं येषां तैः, सूणस्य कौतुकेन कं- कणानियेषां तैः । बन्धूकानां तिलके न्यासो येषां तैः, नीलोत्पलस्य वतंसः कर्णपूरो येषां तैः, महतोः कुचयोर्भरण पूर्वमाकृष्टं पश्चात्संक्षिप्तमन्त जान्तरं येषां तैः, केकरान् कटा- क्षान् स्वस्मिन् नियन्तुं निरोद्धमसहैरशक्तैरिति क्षिपद्भिः, लावण्यरसस्य शरीरकान्तिविशे. पनिर्यासस्य पृष्टया वर्षणेन दिगन्तरं सिञ्चद्भिरिव, केदारसमूहगतैः दारैः कलत्रैः विनियायि- तमवलोकितम् चकितं यथा स्यासथा ॥ रावणप्रतापशरत्कालयोः स्वभावकथनम् ॥ बिशक्षीरचितां चञ्चुं व्याददद्भिः कथंचन । सरःसु पक्षतिक्षेपैरटितं वाटराटकैः ॥ १३ ॥ विशेति ॥ विशस्य पद्मिनीकन्दस्य क्षीरेण दुग्धेन चितां व्याप्तां च व्याददद्भिर- द्धाटयद्भिः वाटराटकैः हंससमूहै: कर्टभिः पक्षतिक्षेपैः पक्षमूलविधूननैः करणैः सरःसु तडा- गेषु कथंचन महता कष्टेन अटितं गतम् ॥ शरत्पक्षे रटितं शब्दितम् ॥ वर्षासु हि इंसा मानसे गच्छन्ति शरदि च प्रत्यागच्छन्ति ॥ कंजकिंजल्कगन्धान्धैः केकारवविषादिभिः । नष्टं प्रापनिकैः कापि दुष्कलत्रकुलैरिव ॥ १४ ॥ कंजेति । कंजकिंजल्कस्य पनमकरन्दस्य गन्धेन परिमलेन अन्धैः, केकारवे विषादो येषां तैः।न कर्मधारयादिति तुप्रायिकम् । प्रापनिकैर्मयूरैः दुष्ट कलतं येषु तैः कुलैरिव कापि नष्टम् चक्षुर्गोचरतातो भ्रष्टम् ॥ रावणभयेन दृष्टिपथे नायातम् ॥ शरत्पक्षे वर्षासु हि के- कायन्ते न प्रान्ते इति केकामावादलक्षिततां गतम् ॥ दन्तान्तरसमासक्तपुष्करा दिक्षु दन्तिनः। घनवन्धननिर्मुक्ता जगणुर्दुर्जना इव ॥ १५ ॥ दन्तेति ॥ दन्तयोरन्तरे मध्ये समासक्तं पुष्करं शुण्डानं यैस्ते धनवन्धनेन निविडब- न्धनेन निर्मुक्ता दन्तिनो गजा दुर्जना इव दिक्षु जगजू रावणभयेन ॥ शरत्पक्षे-पुष्कर- मम्भोरुहम् । धनो मेघः ॥ निशम्याक्रान्तजगतः पाटवं तस्य दुःसहम् । आसीदाखनितस्यापि क्षोभोऽरण्ये तपस्यताम् ॥ १६ ॥ निशम्येति ॥ आक्रान्तं जगद्येन तस्य रावणस्य शरदश्च दुःखेन सोदुमर्ह पाटवं नि. _Diguced to; Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/७८&oldid=234537" इत्यस्माद् प्रतिप्राप्तम्