पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/२००

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

2 गणितसारसङ्ग्रहः गणितशास्त्र प्रशंसा | लौकिके वैदिके वापि तथा सामायिकेऽपि यः । व्यापारात सर्वत्र सङ्ख्यानमुपयुज्यते ॥ ९ ॥ कामतन्त्रेऽर्थशास्त्रे च गान्धर्वे नाटकेऽपि वा । सूपशास्त्रे तथा वैद्ये वास्तुविद्यादिवस्तुषु || १० || छन्दोऽलङ्कारकाव्येषु तर्कव्याकरणादिषु । कलागुणेषु सर्वेषु प्रस्तुतं गणितं परम् ॥ ११ ॥ सूर्यादिग्रहचारेषु ग्रहणे ग्रहसंयुतौ । त्रिचन्द्रवत्तौ च सर्वाङ्गीकृतं हि तत् ॥ १२ ॥ द्वीपसागरशैलानां सङ्ख्याव्यास परिक्षिपः । भवनव्यन्तरज्योतिर्लोककल्पाधिवासिनाम् ॥ १३ ॥ नारकाणां च सर्वेषां श्रेणीबन्धेन्द्रकोत्कराः । प्रकीर्णक प्रमाणाद्या बुध्यन्ते गणितेन ते ॥ १४ ॥ प्राणिनां तत्र संस्थानमायुरष्टगुणादयः । यात्राद्यास्संहिताद्याश्च सर्वे ते गणिताश्रयाः ॥ १५ ॥ बहुभिर्विप्रलापैः किं त्रैलोकचे सचराचरे । यत्किञ्चिवस्तु' तत्सर्वं गणितेन विना न हि ॥ १६ ॥ तीर्थकृद्र्चः कृतार्थेभ्यः पूज्येभ्यो जगदीश्वरैः । तेषां शिष्यप्राश येभ्यः प्रसिद्धाद्गुरुपर्वतः ॥ १७ ॥ जलधेरिव रत्नानि पाषाणादिव काञ्चनम् । शुक्तेर्मुक्ताफलानीव सङ्ख्याज्ञान महोदधे ॥ १८ ॥ 13M स्यात् ; B चापि. 4 M and B दण्डा. 7 K, M and B बद्धे B च 3 JI and B पुरा. 8 M वसु. 3 K and M महा. 6 Kand M "क्षिपा:. 9 Kand P नव for ज्ञान.