पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/९२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्थः त्रैगशिकव्यवहारः । त्रिलोकबन्धवे तस्मै केवलज्ञानभानवे । नमः श्रीवर्धमानाय निर्धूताग्विलकर्मणे ॥ १ ॥ इतः पर तैराशिकं चतुर्थव्यवहारमुदाहरिष्यामः । तत्र करणसूत्रं यथा - त्रैराशिकेऽत्र सारं फलमिच्छासङ्गणं प्रमाणाप्तम् । इच्छाप्रमयोस्सा विपरीत क्रिया व्यस्ते ॥ २ ॥ पूर्वार्धोद्देशकः । दिवसैस्त्रिभिस्तपादैर्योजनषङ्कं चतुर्थभागोनम । गच्छति यः पुरुषोऽसौ दिन श्रुतवर्षेण किं कथय ॥ ३ ॥ व्यर्धाष्टाभिरहोभिः क्रोशाष्टांशं 'स्वपञ्चमं याति । पङ्गुस्सपञ्चभागैर्वर्षैस्त्रिभिरत्र किं ब्रूहि ॥ ४ ॥ अङ्गलचतुर्थभागं प्रयाति कीटो दिनाष्टभागेन । ु मेरोर्मूलाच्छिखरं कतिभिरहोभिस्समाप्नोति ।। ५ ।। • कार्षापणं सपादं निर्विशनि त्रिभिरहोभिरर्धयुतैः । यो ना पुराणशतकं सपणं कालेन केनासौ ॥ ६ ॥ 'कृष्णाग रुसत्खण्डं द्वादशहस्तायतं त्रिविस्तारम् । क्षयमेत्यङ्गलमह्नः क्षयकालः कोऽस्य वृत्तस्य || ७ || स्वर्णैर्देशभिस्सार्वैर्द्रोणाढककुडब मिश्रितः क्रीतः । वरराजमाषवाहः किं हेमशतेन सार्धेन ॥ ८ ॥ P, K and M read स for स्व.

  • B rouds सत्कृष्णा गरु खण्डं.