पृष्ठम्:Harinamamrita vyakaranam.pdf/१३७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०६ श्रीहरिनामामृतव्याकरणम् [ २यः २४० प्रियास्तिस्रो यस्मिन् गोकुले तत् ‘प्रियत्रि’। महाहरत्वेऽपि तिसृभावः काशिकादौ दृश्यते प्रियतिसृ । यद्येवं तह विष्णुभक्ता वित्यस्य प्रत्युदाहरणन्तु त्रित्वमिति तद्धितादावेव ज्ञेयम् । प्रियति सृणी, प्रियतिसृणि ; प्रियतित्रा प्रियतिसृणा ; ङसिङसोः-प्रिय- तिस्रः, र-विधानस्य नित्यत्वात् । एवं प्रियचतसृ । विस्तरकारस्तु विकल्पयति ; तेन प्रियत्रि, प्रियचतुः इत्यपि । ‘सान्-आदिशब्दानां स्वत एव द्विलिङ्गता सानुने, सानवे; “स्नुः प्रस्थः सानुरस्त्रियौ इत्यमरः (२।३।५) । ‘मधु-शब्दानन्तरम् एवम् अम्बुसान्वादयः इति प्रक्रिया (पा ७१।७५) तु चिन्त्या ॥ २४० ॥

  • इति सर्वेश्वरान्ता ब्रह्मलिङ्गाः

त्वेऽपि तिसृभावो दृश्यते । अत्र त्रिशब्दस्य लक्ष्मीस्थत्वं विद्यत एवेति लक्ष्मीस्थयोस्त्रिचतुरोस्तिसु चतसृ विष्णुभक्तावित्यनेन तिसृभावः । यथैव मिति यदि महाहरत्वेऽपि तिसृभावः स्यादित्यर्थः । तिसृणां भावस्त्रित्वम् । अत्रेति शब्द आद्यर्थः । अन्यथा तद्धितादावित्यनेन सहासङ्गतिः स्यात् । इति हेतु प्रकरणप्रकाशादिसमाप्तिष्विति नानार्थवर्गः। पुरुषोत्तमवत्वात् प्रियतित्रेति । ङसिङसोः प्रियतित्र इति, पुरुषोत्तमवत्त्वपक्षे इति शेषः । पक्षे प्रियतिसृण इत्यपि भवतीति ज्ञेयम् । ननु प्रियतिस्र इत्यत्र ऋरामतो ङसि-ङसोरस्य उच् इत्यनेन उच् कथं न स्यादिति चेत्तत्राह र-विधानस्य नित्यत्वादिति । उचि कृते न कृतेऽपि रः प्राप्नोतीति रविधानस्य नित्यत्व मतो बलवत्त्वञ्च । अतः प्रथमं रराम एव भवति । ननु र-विधान सूत्रे गोविन्दत्रिविक्रमो रामाणामपवाद इत्युक्तम् । अत उच् न प्राप्नोत्येव तहि रविधानस्य नित्यत्वादिति कथमत्रोच्यते इति चेत्तत्रोच्यते सिद्धान्त समुच्चयोऽयम् । प्रियचतमिति प्रियाश्चतस्रो यस्मिन् तत् । सान्वादीति स्वत एव स्वस्मिन्नेव स्वभावत एवेत्यर्थः । मध्विति । मधुशब्दस्य ब्रह्मत्वमेव सान्वादीनान्तु द्विलिङ्गता । अतः प्रक्रिया न सङ्गच्छते । इति सर्वेश्वरान्ता ब्रह्मलिङ्गाः * ।