पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/३७४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१३३
द्वादशः सर्गः ।


आसौत् वणं क्षोभपरो (१)[१]नु कस्य
मनो न हि क्षुभ्यति धामधानि ॥२२॥
विकखराम्भोजवनश्रिया तं
दृशां सहस्त्रेण (२)[२]निरीक्षमाणः ।
(३)[३]रोमालिभिः खर्गपतिर्बभासे
पुष्पोत्कराकीर्ण (४) [४]इवावशाखो ॥२३॥

 वर्थितं शैलस्य सुता कन्य पार्वती सम्बन्धिनम् तस्याः । अधिनाथम् अधिपतिं हरं निरीक्ष्य दृष्ट क्षणं महर्तकालं न तु चिरमिति भावः । क्षोभपरः विस्मितचित्तः आसीत् बभूव । अर्थान्तरन्यासेन क्षोभकारण विवृणोति-हीति । तथाहि । धान्न तेजसां धानि आधारे कस्य जनस्य मनः चित्तं न बुध्यति क्षोभम् आम्नोति । अपि तु सर्वस्यैवेत्यर्थः। महादेवस्यासामान्यतेजस्वित्वादिति भावः ॥ २२ ॥

 विकखरेति । स्वर्गस्य सम्बन्धी पतिः देवेन्द्रः । कर्ता । विकस्खराणि प्रफुल्लानि यानि अम्भोजानि पद्मजानि तेषां वनस्य श्रीः शोभव श्रीः शोभा यस्य तथोक्तो न दृशां नयनानां तं निरीक्षमाणः सहस्त्रेण सहस्रसंख्य कनयनेरित्यर्थः । हरं अवलोकमानअतएव रोमृणाम् आलिभिः श्रेणीभिः रोमाच्चैः इत्यथैः। युक्तः सन् । पुष्याणां कुसुमनां यः डकरसमूहः तेन आकीर्णव्याप्तः आवशाखौ चतस्र क्षः इव बभासे दिदीपे । अत्र महेन्द्रस्य हरदर्शनजनितरोमाञ्चव्याप्तशरीरत्वात् कुसुमव्याप्तरसालवृक्षसाम्यमिति भावः ॥ २३ ॥


  1. अथ कस्, अत्र कस्य, अन्तकस्य ।
  2. निरीक्ष्यमाणः ।
  3. सर्वाङ्गनेशो युपतिः, सर्वाङ्गजेन यु पतिः।
  4. इवाग्रशाखी ।