एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लघुपाणिनीये ४७२ । थासः से । (३-४-८०) टितो लकारस्य यः थास् तस्य से इत्यादेशः । तथैव दर्शितं चेदमुपरि || १६२ [भूवादिगण: ४७३ | लिटस्तझयोरेशिरेच् । (३-४-८१) स्पष्टं सूत्रम् | शित्त्वादनेकाल्त्वाच्च सर्वादेशौ । तथा च आत्मने- पदलिट: ए, आते, इरे इति प्रथमपुरुष:; मध्यमोत्तमौ तु टित्सामा- न्यस्यैव । ४७४ । परस्मैपदानां गलतुसुस्-थ लथुस,-णल्वमाः । (३-४-८२) लिटः परस्मैपदानाम् - णल्, अतुस्, उस् । थलू, अथुस्, अ । णलू, व, म इत्यादेशाः । एषु णकारो लकारश्च इतौ ॥ ४७५ । विदो लटो वा । (३-४-८३) 'विद ज्ञाने' इति धातोर्लटोऽपि णलादय आदेशा वा स्युः । परस्मैपदानामित्येव ॥ ४७६ । ब्रुवः पञ्चानामादित आहो ब्रुवः । (३-४-८४) ‘ब्रू व्यक्तायां वाचि' इति धातोर्लट: परस्मैपदानामादितः पञ्चानां वचनानामपि णलादय आदेशा वा स्युः; तत्संनियोगेन ब्रूधातोः 'आह' इत्यादेशश्च ॥ ४७७ | लोटो लङ्कृत् । (३-४-८५) लोटो लङ इव कार्याणि भवन्ति । तामाद्यादेशा: सलोपश्च लङ- कार्यं वक्ष्यते; तहूयं लोटोऽपि स्यादित्यर्थः । विशेषमप्याह- ४७८ । एरुः । (३-४-८६) लोट इकारस्य उकार आदेश: स्यात् । यथा – तिप् =

झि = झु -

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/१८१&oldid=347548" इत्यस्माद् प्रतिप्राप्तम्