एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लघुपाणिनीये [तुदादिगण: प्रकृते शप्रत्ययस्य ङित्त्वात् 'ग्रहि......' इति संप्रसारणम् । ‘न संप्रसारणे संप्रसारणम्' (२९६) इति नियमात् परस्य रेफस्यैव तत्, न तु वकारस्य । रेफस्य च ऋकारः संप्रसारणम् || वृश्चति वृश्चतः वृश्चन्ति । अवृश्चत् । वृश्चतु । वृश्चेत् इत्यादि । ३. मुचल मोक्षणे । स्वरितेत् । मुचादीनां नुमागमविधानात् नुम्प्रकरणमारभ्यते— ५१८ । इदितो नुम् धातोः । (७-१-५८) इदितो धातोः प्रत्ययमात्रे नुमागम: स्यात् । यथा— टु दि समृद्धौ (शप् ) – नन्दति, नन्दत इत्यादि । लुटि स्तेये ( शप् ) –लुण्टांत, लुण्टत ५१९ | शे मुचादीनाम् । (७-१-५९) मुचादीनां शप्रत्यये परे नुमागमः । यथा- लिप - लिम्पति मुच् – मुञ्चति सिच् -- सिञ्चति " - - कृत कृन्तति विद्ऌ – विन्दांत खिद — खिन्दते - प्रत्यु० – ('शे' किप ?) मुक्त, सिक्त, विन, लिप्त, कृत्त, खिन्न । मुचसिचलिपलुम्पतयः खिदावद, कृतपिंशती मुचादिः स्यात् । - ५२० । मस्जिनशोर्झलि । (७-१-६०) ह श्चुत्वादिभिरिष्टरूपसिद्धिर्भविष्यतीति कृत्वा मस्जभ्रस्जब्रस्च इत्यादिवत् धातवः सोपधा: पठ्यन्ते; संयोगादिलोपसंपादनार्थश्चायं क्लेश: । मज्ज, नश इत्यनयोः झलादौ प्रत्यये नुम् । यथा— तुमुन् प्रत्यये – मङ्क्तुम्, नंष्टुम् । ५२१ । रभेरशब्लिटोः । (अचि) (७-१-६३) रभधातोरजादौ प्रत्यये नुम्, न तु शपि लिटि च । यथा— (घनि) आरंभः; (अनीयरि) आरंभणीयम्; (ल्युटि) आरंभणम् । प्रत्यु० - (शपि) आरभते; (लिटि) आरेभे । DF 0-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/१९५&oldid=347562" इत्यस्माद् प्रतिप्राप्तम्