एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यङचङ्लुकौ] परिनिष्ठाकाण्ड: । बोभवीति, 'भूसुवोस्तिङि' इति गुगनिषेधो यङ्लुकि भाषायां नेष्यते ‘बोभूतुतेतिक्ते...' इति च्छन्दसि गुणाभावनिपातनात् । बोभोति । बोभूतः बो- भुवति । बोभवीषि, बोभोषि इत्यादि । लङि– अबोभवीत् अबोभोत् अबो- भूताम् अबोभवुः । (अत्र जुसि चेति गुण:) लुङि–‘गातिस्था...' इति सिचो लुकि नित्यत्वाद्द्बुकि च । अबोभूवीत्, अबोभोत् अबोभूनाम् अबोभूवुः । बोभविता, बोभविष्यति, बोभूयात् । इत्यादि । - पच- जप – जञ्जपीति, जञ्जप्ति । दह – दन्दहीति, दन्दग्धि इत्यादि । – पापच्यते । पापचीति । पापति । [दीर्घोऽकित: ] (६२४) वञ्च–वनीवच्यते । वनीवञ्चीति | वनीवति । [नीग्वञ्चु] (६२५) अत्र नलोपस्य विधिं मिश्रप्रकरण वक्ष्यामः । २५७ - गम – जङ्गम्यते । जङ्गमीति । जङ्गन्ति । ['नुगतो...' (६२६) ] वृत—वरीवृत्यते । वरीवर्ति । वरिवर्ति, वर्वर्ति, वरीवृतीति, वरिवृतीति, वर्तृ- तीति । [‘रुग्रिकौ च लुकि' (६३२) इति रुग्रिग्रीकाम् ईटश्च विकल्पनात् रूपषट्कम् ।] कृ– चेक्रीयते, चर्कर्ति, चरिकर्ति, चरीकर्ति, चर्करीति, चरिकरीति, चरीकरीति । चेक्रीयते इत्यत्र प्रक्रिया अनुपदं वक्ष्यते— ८२८ | अकृत्सार्वधातुकयोदींर्घः (यि किङति) । (७-४-२५) अकृद्यकारे असार्वधातुकयकारे च किङति परे अजन्ताङ्गस्य दीर्घः । स्तु — तोष्टृयते । आशीर्लिङि तू' त् । कर्मणि याक स्तूयंत । जि–जजीयते । जीयात् । जीयते । " " एवं विष्णूयति-ते इत्यादि क्यच्क्यङोः | प्रत्यु० – ('अकृत्' किम् ? ) ल्यपि - प्रकृत्य । - (‘असार्वधातुके' किम् ?) चिनुयात् । वृणुयात् । [८२९ । च्वौ च । (७-४-२६) चिवप्रत्यये परे अजन्ताङ्गस्य दीर्घः । च्चिप्रत्ययः सर्वलोपी तद्धितः । शुचिं करोति = शुचीकरोति ।] ८ ८३० । रीडृतः । (७-४-२७) ऋकारान्तस्याङ्गस्य अकृद्यकारेऽसार्वधातुकयकारे च्वौ च परे रीङादेश: । क्ङितीति नानुवर्तते । यथा - ———— यङि–कृ—चेक्रीयते । क्यच्क्यङोः पित्रीयति–ते । च्वौ — मात्रीकरोति धात्रीम् ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/२७६&oldid=347647" इत्यस्माद् प्रतिप्राप्तम्