एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७४ लघुपाणिनीये [भावकर्मप्रक्रिया ‘भावकर्मणोः' इति आत्मनेपदविधानात् तयोः सर्वेऽपि धातव आत्मने- पदिन एव । अकर्मकेभ्य एव भावे प्रयोगः ॥ भू–सत्तायां- यग्विकरणं, तस्य कित्त्वात् गुणप्रतिषेधः, भूयते । पुरुषवचनयोरभावात् लकारेष्वेकमेव रूपम् | अभूयत - भूयतां - भूये- त । संस्करणानां सीयुटश्च णित्त्वविकल्पो वक्ष्यते । तेन वा वृद्धिरिग- न्तानां - भाविता, भविता । भाविष्यते, भविष्यते । अभाविष्यत, अभविष्यत । लुङि तप्रत्यये चिण् संस्करणं प्रत्ययलोपश्चानुपदमुच्येते, अभावि, भाविषीष्ट, भविषीष्ट । - अनुभूयते, अनुभूयेते, अनुभूयन्ते । अनुभूयसे, अनुभूयेथे, अनुभूयध्वे । अनुभूये, अनुभूयावहे, अनुभूयामहे । अन्वभूयत अन्वभूयेताम् इत्याद्यन्येषामपि लकाराणाम् । त्वया युवाभ्यां युष्माभि-र्वा, मया आवाभ्याम् अस्माभि-र्वा, तेन ताभ्यां तै-र्वा भूयते । कर्मणि तु सोऽनुभूयते, त्वमनुभूयसे, अहमनुभूये, तावनुभूयेते युवामनुभूयेथे, आवामनुभूयावहे, तेऽनुभूयन्ते । यूयमनुभूयध्वे । वयमनुभूयामहे । , इति कर्मानुरोधेन पुरुषवचने । कर्तुस्तु न निर्बन्धः पुरुषवचनयो- लेकारवाच्यकारकानुरोधित्वात् अत्र च कर्मणो लकारवाच्यत्वात् । लकारवाच्यमेव हि कारकं समानाधिकरणं भवति । युष्मदादीनां सा- मानाधिकरण्य एव हि पुरुषवचने च प्रवर्तेते ॥ अथ प्रक्रिया – लुङि किल चिणसंस्करणमुक्तम् । तत् पुनः कर्तरि- प्रयोगेऽपि पञ्चषेभ्यो धातुभ्यो भवति । पाणिनिश्च कर्तरि चिण्विधिं प्रथममुक्त्वैव भावकर्मणोस्तद्विधिमारभत इति सूत्राण्यानुपूर्व्या व्या- ख्यायन्ते— ८८४ । चिण् ते पदः । (३-१-६०) 'णिश्रिद्रुस्रुभ्यः कर्तरि चङ्" इति च्लेरादेशविधिप्रकरणस्थमिदं अविचित्रकार पि

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/२९३&oldid=347665" इत्यस्माद् प्रतिप्राप्तम्