एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पदव्यवस्था] परिनिष्ठाकाण्डः । २८९ - प्रत्यु० – (‘प्रलम्भने' किम् ? ) श्वानं गर्धयति — अभिकाङ्क्ष मुत्पादयतीत्यर्थः । अहिं वञ्चयति । वर्जयतीत्यर्थः । ९५७ । लियः सम्माननशालीनीकरणयोश्च । (१-३-७०) जटाभिराल|पयते—पूजां लभत इत्यर्थः । श्येनो वर्तिकामुल्लापयते – न्यग्भावय- तीत्यर्थः । कस्त्वामुल्लापयते – त्रञ्चयतीत्यर्थः । ९५८ । मिथ्योपपदात् कृञोऽभ्यासे। (१-३ ७१) पदं मिथ्या कारयते--स्वरादिदुष्टमसकृदुच्चारयतीत्यर्थः । ‘स्वरितञितः कर्त्रभिप्राये क्रियाफले' (१-३-७२) व्याख्यातम् ।। ९५९ / अपाद्वदः । (१-३-७३) कर्त्रभिप्राये क्रियाफले आत्मनेपदम् । यथा - धनकामो न्यायमपत्रदते – न्यायापवादेन धनमर्जयामीति मन्यत इत्यर्थः । ९६० । णिचश्च । (१-३-७४) कर्त्रभिप्राये क्रियाफले आत्मनेपदम् । यथा - - (स्वयं) भोक्तुमोदनं पाचयते । ब्राह्मणान् भोजयितुं पाचयति । ९६१ । समुदाभ्यो यमोऽग्रन्थे । (१-३-७५) व्रीहीन् संयच्छते । भारमुद्यच्छते । ग्रन्थे तु उद्यच्छति वेदं — अधिगन्तुमुद्यमं करोतीत्यर्थः । ९६२ । अनुपसर्गाज् ज्ञः । (१-३-७६) गां जानीते । अश्वं जानीते, उपसृष्टात्तु 'स्वर्ग लोकं न प्रजानाति मूढः' कर्त्रभिप्राये इत्येव । देवदत्तख गां जानाति ॥ ९६३ । विभाषोपपदेन प्रतीयमाने । (१-३-७७) 'स्वरितञितः' इत्यादिपञ्चसूत्र्या विहितमात्मनेपदं समीपप्रयु- क्तेन पदेन क्रियाफलस्य कर्तृगामित्वे द्योतिते वा स्यात् । यथा- - स्वं यज्ञं यजति, यजते वा । स्वं कटं करोति, कुरुते वा । स्वं स्वं पुत्रपति अपवदते वा इत्यादि ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/३०८&oldid=347781" इत्यस्माद् प्रतिप्राप्तम्