एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आख्यातकानि] परिनिष्ठाकाण्ड: । ३१३ प्रसङ्गादव्ययत्वविधायकानि सूत्राणि व्याख्यायन्ते –'स्वरादि- निपातमव्ययम्' इत्यस्यानन्तरं सूत्रम्- १०६० । तद्धितश्चासर्वविभक्तिः । (१-१-३८) यस्मात् सर्वा विभक्तयो नोत्पद्यन्ते स तद्धितान्तोऽव्ययसंज्ञः । ते च प्रत्यया एवं परिगणिता:- तसिल्-त्रल्-दा-स्तसि-शसा-वस्तातिः कृत्वसु-ज्वतिः । धा-थालौ डाच्-च्चि-साति-त्रा इत्येतेऽव्ययतद्धिताः ॥ तसिल् त्रल दा तसि - - - - - - सर्वतः सर्वत्र सर्वदा स्वभावतः शतशः परस्तात् शतकृत्वः - वतिः धां थाल् डाच् च्वि साति त्रा - - - शस् अस्ताति कृत्वसुच् एषामपवादा अप्यव्ययानि- इह - त्रलोऽपवादो ह-प्रत्ययः । दक्षिणेन – अस्तातेरपवाद एनप् । - हरिवत् शतधा सर्वथा - पटपटाकृत्य शुक्लीकृत्य भस्मसात्कृत्य ब्राह्मणत्रा कृत्य १०६१ । कृन्मेजन्तः । (१-१-३९) मकारान्त एजन्तश्च कृत्प्रत्ययोऽव्ययसंज्ञः । यथा - कर्तुम्—तुमुन् मान्तः । कारंकारम् –णमुल् मान्तः । एजन्ता प्रत्ययाश्च्छन्दस्येव। १०६२ । क्त्वातोसुन्कसुनः । (१-१-४०) एतेऽप्यव्ययसंज्ञाः । कृत्वा । तोसुनकसुनौ छान्दसौ ॥ १०६३ । अव्ययीभावश्च । (१-१-४१) अयमप्यव्ययसंज्ञः । उपहरि, यथासुखम्, मध्येमार्गम् । अथ प्रक्रिया:- १०६४ । न क्त्वा सेट् (कित्) । (१-२-१८)

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/३३२&oldid=347906" इत्यस्माद् प्रतिप्राप्तम्