एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२२ लघुपाणिनीये १११७ । प्रियवशे वदः खच् । (३-२-३८) खित्त्वान्मुमागमः—प्रियंवदः, वशंवदः । [कर्त्रर्थककृत्प्र ० १११८ । सर्वकूलाभ्रकरीषेषु कषः । (३-२-४२) खशित्येव – सर्वेकष इत्यादि । १११९ । त्यदादिषु दृशोऽनालोचने कञ् च । (३-२-६०) त्यदादिषूपपदेषु अदर्शनार्थाद् दृशः कञ्, किन् च । यथा - तादृक्, तादृशः । त्वादृक्, त्वादृशः । ईदृक्, ईदृशः । समानान्ययोश्च दृशेः क्विन्-कञाविति कात्यायनः । अत्र प्रक्रिया —' समान' इत्यस्य सादेशविधिप्रस्तावे- ११२० । दृग्दृशवतुषु । (६-३-८९) एषु परेषु समानशब्दस्य 'स' इत्यादेशः । सदृक् सदृशः । ११२१ । इदंकिमोरीश्की । (६-३-९०) दृग्दृशवतुष्वित्येव —ईदृक् ईदृशः । ११२२ । आ सर्वनाम्नः । (६-३-९१) सर्वनाम्न आकारोऽन्तादेशो दृग्दृशवतुषु । यथा— तादृशः, मादृशः । तावत्, यावत् इति वतुप्रत्यये । स च तद्धिते वक्ष्यते ॥ ११२३ । किप् च । (३-२-७६) सोपपदान्निरुपपदाद्वा धातो: किप् खात् । पित्त्वात् 'ह्रस्वस्य पिति कृति तुक्' (१०३३) । यथा - कृ—कृत् । विद्, विश्वपाः । विश्वजित् । पर्णध्वत् । ११२४ । सुप्यजातौ णिनिस्ताच्छील्ये । (३-२-७८) अजातिवाचिनि सुबन्ते उपपदे ताच्छील्ये द्योत्ये धातोर्णिनि: स्यात् । यथा - उष्णं भोक्तुं शीलमस्येति उष्णभोजी, जिनी, - जे । शीतपायी उपजीवी, विसारी । विलासी । - - प्रत्यु० – ('अजातौ' किम् ? ) ब्राह्मणवन्दी इति न ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/३४१&oldid=347935" इत्यस्माद् प्रतिप्राप्तम्