एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लघुपाणिनीये ११७३ । आशंसायां भूतवच्च । (३-३-१३२) अप्राप्तस्य प्रियार्थस्य प्राप्तुमिच्छा आशंसा | तस्याश्च भविष्य- त्कालो विषयः । तत्र भविष्यति काले आशंसायां द्योत्यायां भूतकाले इव प्रत्यया वा । चकाराद्वर्तमानवच्च । यथा— यदि परीक्षायामुदतारिष्म नूनमधिकारमलमहि । लप्स्यामहे । लभामहे । " उत्तरिष्यामः उत्तराम उत्तीर्णा: लब्धवन्तः । १९७४ । क्षिप्रवचने लृट् । (३-३-१३३) क्षिप्रवाचिन्युपपदे आशंसायां लडेव । यथा— यदि परीक्षायां क्षिप्रमुत्तरिष्यामः क्षिप्रमधिकारं लप्स्यामहे । ११७५ । आशंसावचने लिङ् । (३-३-१३४) यथा-परीक्षायां चेदुत्तरेम, आशंसऽधिकारं लभेय । लिनिमित्ते ऌङ क्रियातिपत्तौ (भविष्यति) । (३-३-१३९) व्याख्यातं – (४३६) किं तु नोदाहृतम् । क्रियातिपत्तिर्नाम क्रियाया अनिष्पत्तिः । कुतश्चित् कारणात् क्रिया न निर्वृत्तेति प्रतीयते चेत् हेतुहेतुमद्भावादी लिङर्थे लङ् | हेतु: कारणम्, हेतुमत् फलम् । यथा—नास्तिकोऽयं गिरां देवीमवन्दिष्यत चेत् परीक्षायामुदतरिष्यत् – नास्तिकत्वान्न वन्दिष्यते अतश्च नोत्तरिष्यतीति गम्यते । [लकारार्थप्रकरणम् 73 "> ११७६ । भूते च । (३-३-१४०) उक्तेऽर्थे भूतेऽपि ऌङ् । योगविभाग उत्तरार्थः । यथा— सुत्रृष्टिश्चेदभविष्यत् धान्यमवस्याम-वृष्टिर्नाभूद्धान्यं च नोप्तमिति गम्यते । ११७७ । वोताप्योः । (३-३-१४१) इत ऊर्ध्वम् ' उताप्यो: समर्थयोर्लिङ' (३-३-१५२) इति सूत्रे यावद्यानि यानि लकारनिमित्तानि कथ्यन्ते तेषु तेषु भूते लिनिमित्ते क्रियातिपत्तौ वा स्यादित्यधिकारोऽयम् ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/३४९&oldid=347944" इत्यस्माद् प्रतिप्राप्तम्