एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शिक्षाकाण्डः । ६० । ऋत्यकः (प्रकृत्या वा पदान्ते) । (६-१-१२८) हस्वे ऋकारे परे पदान्तस्थ: अक् प्रकृत्या वा स्यात् । यथा- देव + ऋषिः = देवऋषिः, देवर्षिः । दधि + ऋते = दधिऋते, दध्यते । = विधिस्तावत्रिविधः नित्यो वैकल्पिको बहुलश्चेति । अवश्यं कर्त- व्यो नित्यः ; इच्छया कर्तुमकर्तुं वा शक्यो वैकल्पिक: ; प्रकरणम् ] AW 'क्वचित् प्रवृत्तिः क्वचिदप्रवृत्तिः क्वचिद्विभाषा क्वचिदन्यदेव' इत्यव्यवस्थितो बहुल: । वा, विभाषा, अन्यतरस्याम् इत्यव्यय त्रयं विकल्पं द्योतयति । ऋषीणां नामग्रहणेऽपि विकल्पः पर्यवस्यति । तेषां हि तुल्यं प्रामाण्यम्; तत्रैकस्य मतेऽस्ति, अन्येषां मते नास्तीति च स्थितिर्विकल्प एव किल । विषयैकदेशे प्रवृत्तिरेकदेशेऽप्रवृत्तिरिति स्थितिश्च विकल्पस्यैव कोऽपि भेदः । सेयं व्यवस्थितविभाषेत्युच्यते || IN हल्संधिः । हल्संधिस्तावदसिद्धकाण्डे वर्तते । असिद्धकाण्डो नामाष्टाध्या- य्याश्चरमा त्रिपादी (अष्टमस्याध्यायस्य द्वितीयतृतीयचतुर्था: पादाः) । सपादैः सप्तभिरध्यायैरुक्तेषु विधिषु कर्तव्येषु उत्तरा त्रिपादी असिद्धा (अविद्यमानप्राया)। त्रिपाद्यामपि पूर्वपूर्व विधिमपेक्ष्य पर:परो विधि- रसिद्धः । सपादसप्ताध्याय्या कृत्स्नापि रूपनिष्पत्तिप्रक्रिया प्रतिपादिता; त्रिपाद्यां तु यदुच्यते तत्केवलं निष्पन्नस्य पदस्य उच्चारणसंस्करणम् । अतस्त्रिपादीचोदितो विधिरन्त एव प्रवर्तते । कृतेऽस्मिन् पुनः सपाद- सप्ताध्यायीविहितस्य विधेर्न प्रवृत्त्यवकाशः । सपादसप्ताध्यायी सिद्धा (= सर्वसंप्रतिपन्ना), त्रिपादी तु असिंद्धा (= असंप्रतिपन्ना सपादसप्ता- ध्याय्या) । प्रथमः सिद्धकाण्ड: ; उत्तरोऽसिद्धकाण्डः

असिद्धकाण्ड-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/४८&oldid=347414" इत्यस्माद् प्रतिप्राप्तम्