एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्त्रीप्रत्ययप्रकरणम् ] परिनिष्टाकाण्डः । व्यवस्थाश्च सन्त्येव । सर्वथापि तु प्राणिजातिवाचकशब्देषु पुरुषवाचकः पुल्लिङ्गः, स्त्रीवाचकः स्त्रीलिङ्ग इति कचिदंशे देश्यभाषासाम्यमप्यस्ति ॥ ६३ । - लिङ्गकृतो भेदः पुल्लिङ्गशब्दानां स्त्रीलिङ्गरूपनिष्पादन एवास्ति;. तत्रापि बाहुल्येन अदन्ता: (ह्रस्व अकारान्ता:) एव शब्दा लिङ्गभेदेन विक्रियन्ते । अदन्तपुल्लिङ्गाः स्त्रियामादन्ता ईदन्ता वा संपद्यन्ते । एवं च अदन्तस्त्रीलिङ्गशब्दो नास्त्येव । नित्यस्त्रीलिङ्गा अपि शब्दाः प्रक्रिया- थे स्त्रीप्रत्ययान्ता इति कल्प्यन्ते । तत्र आ-प्रत्यय - ई-प्रत्यययोर्विषय- विवेक एव स्त्रीप्रत्ययाधिकारे प्रतिपाद्यते । अनुबन्धयोगेन आ-प्रत्ययं टापू, डापू, चाप् इति त्रिविधम्, ई-प्रत्ययं च ङीप्, ङीष्, ङीन् इति त्रिविधं करोत्याचार्यः । तत्र आप् इति साधारणो भागः टापू- चाप्-डापां, ङी इति साधारणो भागः ङीप्–ङीष्—ङीनां च संग्रहणाय प्रयुज्यते । इद्भेदेन स्वर एव भेदः; ततश्च लौकिकभाषायामेकविधा- भ्यामेव प्रत्ययाभ्यां प्रयोजनम् । स्त्रियामदन्तशब्दा न सन्तीत्युक्तम् ; ऋदन्तेषु, नान्तेषु, सान्तेषु, तान्तेषु च भूयांसः स्त्रियां भिन्नरूपा:;, अन्यवर्णान्तानामुत्सर्गतो न कोऽप्यस्ति लिङ्गकृतो भेदः ॥ अथ स्त्रीप्रत्यया विधीयन्ते - १३५ । प्रत्ययः । (३-१-१) १३६ | परश्च । (३-१-२) १३७ । ङयाप्प्रातिपदिकात् । (४-१-१) इत्यधिकारेषु पूर्वमेव वर्तमानेषु १३८ । स्त्रियाम् । (४-१-३) १३९ । अजाद्यतष्टाप् । (४-१-४)SGDF इत्यधिकृत्य

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/८२&oldid=347448" इत्यस्माद् प्रतिप्राप्तम्