कृत्वा संप्रति कैतवेन कलहं मौर्येन्दुना राक्षसं |
( प्रविश्य )
कञ्चुकी--—क[२]ष्टं खलु सेवा ।
(परित्र्तम्यावलो [६]क्य च ।) इदमार्यचाणक्यगृहम् । यावत्प्रविशामि।
तेनोपायेन प्रतीपमस्मासु प्रतिकूलचारिणं राक्षसं द्विषः सपत्नान्मलयकेतोः सकाशात् भेत्स्यामि तयोर्विरोधं संपादयिष्यामीत्यर्थः । यद्वा प्रतीपमिति विधेयं विशेषणं द्विष इति षष्ठी । राक्षसं द्विषः प्रतीपं सन्तं भेत्स्यामि प्रतिकूलत्वेनापाद्य विघटयिष्यामीत्यर्थः । एष राक्षसः स्वमतेन स्वसंमत्या भेदकुशलोस्तु, चन्द्रगुप्तच्चाणक्यं भेत्स्यामीति स्वस्मिन्कुशलंसन्योस्तु, न त्वस्य ममेव सामग्रीपौष्कल्यं बुद्धिबलं चास्तीति भावः । इयं नियताप्तिः । “अपायाभावतः कार्यनिश्चयो नियताप्तिका’ इति लक्षणात् ॥ १३ ॥
कष्टमिति । सामान्ये नपुंसकम् ।
भेतव्यमिति । दैन्याद्धेतोः उन्मुखदर्शनानि च अपलपनानि च राजरहस्यगोपनानि च तैः पिण्डार्थमुदरभरणार्थमायस्यतः क्लिश्यमानस्य सेवकजनस्य सेवामित्यन्वयः । श्वविषये अपलपनं ताडनभयेन गात्रसंकोचनम् । सिषाधयिषितकार्यानुरोधपदिदमाहितं चाणक्यमौर्ययोः कपटवैमत्यं तथ्यत्वेनैव गृह्यतः कञ्चुकिनोऽयं निर्वेदः ॥ १४ ॥
- ↑ कुशलो ह्येष B. N. E.°लं ह्येष G; प्रतीप M, R; देवप्रतीपं H.
- ↑ कष्टा. B. G. N. H.; B. E. G. N. H. add नाम। कुतः at the end of this sentence
- ↑ भेत्तव्यम् A.
- ↑ भवन्ति B. E. N. G ; for येस्य M. E. read यस्य
- ↑ दर्शनेन नटनैः N. (r) दर्शनापनयनैः G.; दर्शनोपनयनैः E; H. has °दर्शनोपलपनैः; P has सेवार्थम् for पिण्ढार्थम् ; आयास्यतः B. E. N. (r); आपश्यतः E.; आदास्यतः G.
- ↑ E. om. अच-च, R. and M. om. च; °माचार्य° for °मार्य° P. G; B, K N. G. add स्य before गृहम्.