सिद्धान्तशिरोमणौ गोलाध्याये वा० भा०- समायां भूमौ त्रिज्यामिता गुलेन ककंटेन वृत्तं दिगतिं च कृत्वा तत्र प्राक् पश्चादग्रा गोलवशादुत्तरा दक्षिणा वा ज्याघंवद्दया । अग्राग्रयोबंद्धं सूत्रमुदयास्तसूत्रमुच्यते । अथ तस्यैव वृतस्य मध्ये युज्यामितेन कर्कटेनान्यद्वृत्तं कृत्वा नाडीषष्टघाडू नीयम् । ततस्त्रि- ज्यामिताङ्गुलाया ऋजुयष्टेमूंलं केन्द्रे लग्नं कृत्वाग्रमर्काभिमुखं तथा धार्यं यथा यष्टिनंष्टच्छा- या स्यात् । ततः प्रशच्यां दिशि त्रिज्यावृत्ते यदग्राग्रचिह्नं तस्य यष्टयग्रस्य च मध्यमृजुशलाकया मित्वा सा शलाका धुज्यावृते जीवावद्धार्था । न ज्याधंवत् । ततः शलाकाग्रयोमंध्ये धनुषि यावत्यो घटिकास्तावत्यस्तदा दिनगता ज्ञेयाः । एवं पश्चिमाग्राग्नयष्टयग्रयोर्मध्ये शलाकया विनशेषा ज्ञेयाः । दिनशेषोनं दिनमानं दिनगतनाड्यो भवन्ति । यतस्तवैक्यं दिनमानम् । ४६६ अत्रोपपत्तिर्गोलयुक्तचैव । यष्टिस्त्रिज्या | पद्भुवि वृत्तं लिखितं तत् क्षितिजम् । तत्र पूर्वतः पश्चिमतश्चाग्रा | अग्राग्रयो रुपरंगता रेखोदयास्तसूत्रम् | अग्राग्र उदितो रवियंथा यथाहोरात्रवृत्तगत्योपरि गच्छति तथा तथा केन्द्रे निवेशितमूलाया यष्टेरने भ्राम्यमाणे यष्टिनंष्टद्युतिः स्यात् । यतो यष्ट्यने रविः । अग्राग्रादकं यावदहोरात्रवृत्ते यावत्यो घटिकास्तावत्यो दिनगता भवन्ति । तत्राकाशे धुज्धावृत्तं लेखितुं नायाति । अतोऽग्राग्रयष्ट्यप्रयोरन्तरं शलाकया मित्वा गृहीतम् । ततो भुवि लिखिते धुज्यावृत्ते तया शलाकया ज्यारूपया धनुषि घटिकाज्ञानं युक्तियुक्तम् ॥ २८-३० । यष्टियन्त्रमाह त्रिज्याविष्कम्भाद्धं वृत्तं कृत्वेत्या- वा० वा० – अथ दिभिः ॥ २८-३० । १. अत्र शिष्यधीवृद्धिदे लल्ल:-- दिङ्मध्यस्थितमूला यष्टिर्नष्टप्रभात्रिगुणतुल्या । धार्थी तदीयलम्बकाष्ठांशा वोदिता भागाः ॥ ४८ । यष्टिस्त्रिज्या कर्णो लम्बो ना कृतिविशेषपदमनयोः । हग्ज्या छाया प्राकूपरलम्बनिपातान्तरं बाहुः ॥ ४९ । प्रागपराग्रासक्तं सूत्रं शङ्क्वन्तरं हृतं सूर्यैः । यष्टघवलम्बविभक्तं यष्टयवलम्बेन विषुषद्भा ।। ५० । तथा च ब्राह्मस्फुटसिद्धान्ते ब्रह्मगुप्तः -- परिलिख्यवृत्तमवनौ यष्टिव्यासार्धमन्यदस्यान्तः | स्वाहोरात्रार्धाधं घटिका षष्टयङ्कितं परिधौ ॥ २० ॥ यष्टिव्यासार्धेऽग्रा यष्ट्यग्रान्तरसमज्यया धनुषि । घटिका द्वितीयवृत्ते याताः प्रागपरतः शेषाः ॥ २१ ॥ अपि च सिद्धान्तशेखरे श्रीपतिः -- संसाधिताशं कृतचक्रभागं विधाय वृत्तं समभूप्रदेशे । त्रिज्या गुलाऽङ्कां सुसमां च यष्टि नष्टद्युति तज्जठरे निदध्यात् ॥ २१ । लदग्रलम्ब: खलु शङ्कुरुक्तस्तन्मूलकेन्द्रान्तरमत्र हग्ज्या । पूर्वापरात्तद्विवरं भुजः स्याच्छङ्कवग्रमस्तोदयसूत्रमध्यात् ॥ २२ ॥
पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/५०८
एतत् पृष्ठम् अपरिष्कृतम् अस्ति