प्राणाभरणम्
जगन्नाथः

विद्वांसो वसुधातले परवचःश्लाघासु वाचंयमा
भूपालाः कमलाविलासमदिरोन्मीलन्मदाघूर्णिताः ।
आस्ये धास्यति कस्य लास्यमधुना धन्यस्य कामालस-
स्वर्वामाधरमाधुरीमधरयन्वाचां विलासो मम ॥ १ ॥

विद्वांस इत्यादि प्रायदर्शनाभिप्रायमेतत्‌ । तेन सहृदयैर्न मनागपि विमनायितव्यम्‌ । भावध्वनिश्चायम्‌ । उत्तरार्धप्रतिपाद्यार्थालम्बनाया एतत्पद्यप्रयोगानुभावायाः कविगतचिन्तायाः प्राधान्येनाभिव्यक्तेः । अनुपात्तोभयनिमित्तको व्यतिरेकः स्फुटोऽलंकारः । कामालसत्वं वामाविशेषणमधरमाधुरीप्रकर्षकम्‌ ॥


विद्राणैव गुणज्ञता समुदितो भूयानसूयाभरः
कालोऽयं कलिराजगाम जगतीलावण्यकुक्षिंभरिः ।
एवं भावनया मदीयकविते मौनं किमालम्बसे
जागर्तु क्षितिमण्डले चिरमिह श्रीकामरूपेश्वरः ॥ २ ॥

कविगतराजविषयकरतिभावध्वनिश्चायम्‌ । इत ऊर्ध्वमयमेव आ चरमपद्यमनुवर्तिष्यते । अस्य चात्र मौनानुभावितो वर्णनीयालम्बनो निर्वेदो गुण इति प्रेयोलङ्कारास्पदम्‌ । अत्र चाचेतनायां कवितायां चेतनत्वाध्यवसायमूलासम्बन्धे सम्बन्धात्मिकातिशयोक्तिर्विवक्षिता । तेन भावनामौननिर्वेदानां संबोधनस्य च नानुपपत्तिः ॥


पारीन्द्राणां धुरीणैरवनितलगुहागर्भतः संपतद्भिः
स्वापभ्रंशापराधप्रचलितनयनप्रान्तमाकर्ण्यमानः ।
त्वत्प्रस्थानान्तरुद्यत्प्रलयजलधरध्वानधिक्कारधीरो
धृष्टक्षीरोदतीरो जगति विजयते दुन्दुभिद्वन्द्वनाथः ॥ ३ ॥

अत्र राजालम्बनस्य तादृशनादश्रवणोद्दीपितस्य नयनप्रचलनानुभावितस्य गिरिगुहागर्भोत्पतनाभिव्यक्तेनामर्षेण संचारिणा परिपोषितस्य पारीन्द्रगतोत्साहस्य स्थायिनो राजविषकरतिभावाङ्गत्वाद्रसालंकारत्वम्‌ । यदाहुः – “प्रधानेऽन्यत्र वाक्यार्थे यत्राङ्गं तु रसादयः । काव्ये तस्मिन्नलंकारो रसादिरिति मे मतिः ॥” इति । तृतीयचतुर्थचरणयोस्तु स्फुटावेव व्यतिरेकातिशयौ । धृष्टशब्देन तादृशनादो वेलाचलप्रतिबद्धत्वादग्रे न गतः । अन्यथा लोकालोकाचलमपि स्पृशेदिति गम्यते । एव मृष्टेति नोक्तम्‌ । तथा सति शैथिल्यप्रत्ययापत्तेः ॥


किं ब्रूमस्तव वीरतां वयममी यस्मिन्धराखण्डल
क्रीडाकुण्डलितभ्रु शोणनयनं दोर्मण्डलं पश्यति ।
माणिक्यावलिकान्तिदन्तुरतरैर्भूषासहस्रोत्करै-
र्विन्ध्यारण्यगुहागृहावनिरुहास्तत्कालमुल्लासिस्ताः ॥ ४ ॥

अत्र विन्ध्यारण्यगतानां गुहागृहाणामवनिरुहां च विन्ध्यगतानां गुहागृहाणामरण्यगतानामवनिरुहानां वा भूषणेन कार्येणाप्रस्तुतेन त्वदरिनारीणां स्वनगराणि परित्यज्य निशि गुहागृहेषु तरुतलेषु च विन्यस्य सकलाभरणानि कृतशयनानां प्रातस्त्वदागमनसंभ्रमेण तत्कर्मकं विस्मरणं भारवशात्परित्यागो वा प्रस्तुतो गम्यत इत्यप्रस्तुतप्रशंसा । कार्यस्य यथाकथंचित्प्रस्तुतत्वे तु पर्यायोक्तमलंकारः ॥


माहत्म्यस्य परोऽवधिर्निजगृहं गम्भीरतायाः पिता
रत्नानामहमेक एव भुवने को वापरो मादृशः ।
इत्येवं परिचिन्त्य मा स्म सहसा गर्वान्धकारं गमो
दुग्धाब्धे भवता समो विजयते श्रीप्राणनारायणः ॥ ५ ॥

अत्रोपमानस्य गुणविशेषप्रयुक्तसादृश्याभावनिबन्धनमुत्कर्षं परिहर्तुं वर्ण्यमानसादृश्यात्मकः प्रतीपालंकारभेदः । स चोपमाविशेष इत्येके । विच्छित्तिवैलक्षण्यादतिरिक्त एवेत्यपरे ॥


त्वत्तो जन्म सितांशुशेखरतनुज्योत्स्नानिमग्नात्मनो
दुग्धाम्भोनिधिमुग्धवीचिवलयैः साकं परिक्रीडनम्‌ ।
संवासः सुरलोकसिन्धुपुलिने वादः सुधांशोः करैः
कस्मान्नोज्ज्वलिमानमञ्चतुतमां देव त्वदीयं यशः ॥ ६ ॥

अत्र यशसि धवलतातिशयस्तद्धर्मिसंबन्धप्रयुक्तत्वेन कथित इति समस्य विषयः । अंशुकृतश्चन्द्रे तत्कृतश्च भवगति भगवत्कृतश्च राजनीत्येवमुत्तरोत्तरमुपचीयमानो राजगत उत्कर्षः प्रतीयत इति सारविषयः ॥


आबध्नास्यलकान्निरस्यसितमां चोलं रसाकाङ्क्षया
लङ्कायावशताः तनोषि कुरुषे जङ्घाललाटक्षतम्‌ ।
प्रत्यङ्गं परिमर्दनिर्दयमहो चेतः समालम्बसे
वामानां विषये नृपेन्द्र भवतः प्रागल्भ्यमत्यद्भुतम्‌ ॥ ७ ॥

अत्र प्रकृतधर्मिगतयोः प्रकृताप्रकृतयोः प्रकृतयोरेव वा वृत्तन्तयोः श्लेषः । स च षट्सु स्थलेषु शब्दनानात्वनिबन्धनो द्वयोश्चार्थनानात्वनिबन्धनः । द्वावप्येतौ शब्दालंकाराविति प्राञ्चः । आद्यो जतुकाष्ठन्यायेन शब्दश्लेषणाच्छब्दालंकारः, द्वितीयस्त्वेकवृन्तगतफलद्वयन्यायेनार्थश्लेषणादर्थालंकार इति नव्याः ॥


देव त्वां परितः स्तुवन्तु कवयो लोभेन किं तावता
स्तव्यस्त्वं भवितासि यस्य तरुणश्चापप्रतापोऽनिशम्‌ ।
क्रोडान्तः कुरुतेतरां वसुमतिमाशाः समालिङ्गति
द्यां चुम्बत्यमरावती च सहसा गच्छत्यगम्यामपि ॥ ८ ॥

अत्र प्रतापगतः पृथिव्यादिसंबन्धो लिङ्गविशेषावच्छिन्नतत्तत्साधारणविशेषणाभिव्यक्तकामुकवृत्तान्ताभिन्नतया स्थित इति समासोक्तिः कार्यरूपधर्मप्रयुक्तशुद्धसाधारण्येन विशेषणसाम्यमालम्ब्य प्रवृत्ता । सा च निन्दोत्थापकत्वाद्व्याजस्तुतौ गुणः ॥


लोकानां विपदं धुनोषि कुरुषे संपत्तिमत्युत्कटा-
मित्यल्पेतरजल्पितैर्जडधियां भूपाल मा गा मदम्‌ ।
यत्कीर्तिस्तव वल्लभा लघुतरब्रह्माण्डभाण्डोदरे
पिण्डीकृत्य महोन्नतामपि तनुं कष्टेन हा वर्तते ॥ ९ ॥

अत्रापि प्राग्वत्‌ । परं त्वाधाराधेयान्यतरविस्तृतत्वसिद्धिफलकान्यतरन्यूनत्वकल्पनात्माधिकालंकारोऽपि तस्यां गुणः ॥


क्षोणीं शासति मय्युपद्रवलवः कस्यापि न स्यादिति
प्रौढं व्याहरतो वचस्तव कथं देव प्रतीमो वयम्‌ ।
प्रत्यक्षं भवतो विपक्षनिवहैर्द्यामुत्पतद्भिः क्रुधा
यद्युष्मत्कुलकोटिमूलपुरुषो निर्भिद्यते भास्करः ॥ १० ॥

इह त्वधिकसमासोक्तिभ्यामनालिङ्गितैव सा [व्याजस्तुतिः] ॥


आस्वादेन रसो रसेन कविता काव्येन वाणी तथा
लोकान्तःकरणानुरागरसिकः सभ्यः सभा चामुना ।
दारिद्र्यानलदह्यमानजगतीपीयूषधाराधर
क्षोणीनाथ तथा भवांश्च भवता भूमण्डलं भासते ॥ ११ ॥

मालादीपकमेतदिति प्राञ्चः । दीपकस्य सादृश्यमूलकतानियमान्न मालादीपकमपि त्वेकावलीभेद इति तु वयम्‌ ॥


अम्लायन्यदरातिकैरवकुलान्यम्लासिषुः सत्वरं
दैन्यध्वान्तकदम्बकानि परितो नेशुस्तमां तामसाः ।
सन्मार्गाः प्रसरन्ति साधुनलिनान्युल्लासमातन्वते
तन्मन्ये भवतः प्रतापतपनो देव प्रभातोन्मुखः ॥ १२ ॥

इह रूपकनिष्पादितलिङ्गकमनुमानं निमित्तविरहादुत्प्रेक्षाया अयोगाद्वाचकमनुमितिपरम्‌ ॥


उत्क्षिप्ताः कबरीभरं विवलिताः पार्श्वद्वयं न्यक्कृताः
पादाम्भोजयुगं रुषा परिहृता दूरेण चेलाञ्चलम्‌ ।
गृह्णन्ति त्वरया भवत्प्रतिभटक्ष्मापालवामभ्रुवां
यान्तीनां गहनेषु कण्टकचिताः के के न भूमीरुहाः ॥ १३ ॥

अत्र कण्टकचितत्वेन कबरीग्रहणादेः संकीर्णत्वात्कार्यधर्मान्तरा संकीर्णशुद्धसाधारण्येन विशेषणसाम्यमालम्ब्य प्रवृत्ता समासोक्तिः ॥


दृष्टिः सम्भृतमङ्गला बुधमयी देव त्वदीया सभा
काव्यस्याश्रयभूतमास्यमरुणाधारोऽधरः सुन्दरः ।
क्रोधस्तेऽशनिभूरुदारधिषण स्वान्तं तु सोमास्पदं
राजन्नूनमनूनविक्रम भवान्सर्वग्रहालम्बनम्‌ ॥ १४ ॥

अत्रोत्प्रेक्ष्यमाणसर्वग्रहालम्बनत्वस्य समानाधिकरणेषु धर्मेषु तत्तद्ग्रहाश्रिताङ्गकत्वेषु विशेषणीभूतैस्तत्तद्गहैः सह विषयस्य राज्ञो कल्याणाश्रयत्वादिषु विशेषणानां कल्याणादीनां श्लेषेणाभेदसंपादनद्वारा तादृशधर्मसाधारणतासंपत्तौ तन्निमित्तकोत्प्रेक्षासिद्धिः ॥


सृष्टः सृष्टिभुवा पुरा किल परित्रातुं जगन्मण्डलं
त्वं चण्डातपनिर्दयं तपसि यज्ज्वालाजटालैः करैः ।
संरम्भारुणलोचनो रणभुवि प्रस्थातुकामोऽधुना
जानीमो भवता न हन्त विदितः श्रीकामरूपेश्वरः ॥ १५ ॥

अत्र राजवर्णनाङ्गत्वेन रवेर्भयोत्पादने वर्ण्यत्वेन प्रस्तुते साक्षात्तदननुगुणत्वेनाप्रस्तुतेन प्रस्थानेन साक्षात्तदनुगुणं रिपुकर्तृकं सूर्यमण्डलभेदनं कार्यं गम्यते ॥


आयाता कमलासनस्य भवनाद्दृष्टुं त्रिलोकीतलं
गीर्वाणेषु दिनानि कानिचिदहो नीत्वा पुनः कौतुकात्‌ ।
भ्रान्त्वा भूवलये महाकविकुलोपास्या तवास्याम्बुजे
राजन्संप्रति सत्यधामनि गिरां देवी सुखं वर्तते ॥ १६ ॥

अत्रैकस्याधेयस्यानेकाधारसंबन्धात्पर्यायः । तत्र प्रथमचरणगतमधिकरणमार्थं विश्लेषावधिकपञ्चम्या विश्लेषस्योपश्लेषापेक्षत्वेनौपश्लेषिकाधिकरणस्याक्षेपगम्यत्वात्‌ । सत्यधामनीति श्लेषभित्तिकाभेदाध्यवसानेन मुखस्य सत्यलोकतासिद्धौ सुखवर्तनसिद्धिः ॥


विद्वद्दैन्यतमस्त्रिमूर्तिरथवा वैरीन्द्रवंशाटवी-
दावाग्निः किमहो महोज्ज्वलयशःशीतांशुदुग्धाम्बुधिः ।
किं वानङ्गभुजङ्गदष्टवनिताजीवातुरेवं नृणां
केषामेष नराधिपो न जनयत्यल्पेतराः कल्पनाः ॥ १७ ॥

अत्र कोटीनामारोपान्तरमूलकत्वात्परम्परितसंशयः स चाहार्यः, मूलारोपस्य तथात्वात्‌ । कवाविव कविनिबद्धप्रमात्रन्तरेऽप्याहार्यबुद्धेरविरोधात्‌ ॥


नदन्ति मददन्तिनः परिलसन्ति वाजिव्रजाः
पठन्ति बिरुदावलीमहितमन्दिरे बन्दिनः ।
इदं तदवधि प्रभो यदवधि प्रवृद्धा न ते
युगान्तदहनोपमा नयनकोणशोणद्युतिः ॥ १८ ॥

अत्र मुख्यार्थस्य राजविषयायाः कविरतेरुपकारकस्य यदैव तव कोपोदयस्तदैव तव रिपूणां संपदो भस्मसाद्भविष्यन्तीति वस्तुन उपकारिका नयनकोणशोणद्युतेर्युगान्तदहनोपमा ॥


मयि त्वदुपमाविधौ वसुमतीश वाचंयमे
न वर्णयति मामयं कविरिति क्रुधं मा कृथाः ।
चराचरमिदं जगज्जनयतो विधेर्मानसे
पदं न विदधेतरां तव समो द्वितीयो नरः ॥ १९ ॥

अत्र त्वत्समोऽन्यो नास्तीति प्रत्ययादुपमानलुप्तोपमा व्यङ्ग्येति प्राञ्चः । सर्वथैव साम्यस्याप्रतिष्ठानान्नेयमुपमा । अन्यथा व्यतिरेकस्यापि तत्त्वापत्तेः । ‘ढुंढोल्लन्तो मरिससि कंटककलिआइं केअइवणाइं । मालइकुसुमसरिच्छं भमर भमंतो ण पावेसि ॥” इत्यत्र तु न प्राप्स्यसीत्युक्त्वा क्वचित्त्वदगोचरे स्थले भविष्यतीति प्रतीतेः सादृश्यप्रतिष्ठानाल्लुप्तोपमास्तु । तस्मादसमालंकार एवायमिति तु नव्याः ॥


भुजभ्रमितपट्टिशोद्दलितदृप्तदन्तावलं
भवन्तमरिमण्डलक्रथन पश्यतः संगरे ।
करालकुलिशाहतिस्फुटविभिन्नविन्ध्याचलो
न कस्य हृदयं झटित्यधिरुरोह जम्भाहितः ॥ २० ॥

अत्र स्मरणालंकारः परंतु लक्ष्यः ॥


यमः प्रतिमहीभृतां हुतवहोऽसि तन्नीवृतां
सतां खलु युधिष्ठिरो धनपतिर्धनाकाङ्क्षिणाम्‌ ।
गृहं शरणमिच्छतां कुलिशकोटिभिर्निर्मितं
त्वमेक इह भूतले बहुविधो विधात्रा कृतः ॥ २१ ॥

अत्र कविना यमत्वादिना रूपेण राज्ञो रूपवतः करणाद्रूपकेण विपक्षभूपालादिनामेतस्मिन्नागते यमत्वादिना भ्रान्तेरपि संभवाद्भ्रान्तिमता तैरेवानेकैर्ग्रहीतृभिरनेकैर्धर्मैरुल्लेखनादुल्लेखविशेषेण च सह संकीर्णोऽपि संबन्धिषष्ठ्यन्तभेदप्रयुक्तवर्ण्यानेकविधत्वक उल्लेखः ॥


द्विनेत्र इव वासवो मितकरो विवस्वानिव
द्वितीय इव चन्द्रमाः श्रितवपुर्मनोभूरिव ।
नराकृतिरिवाम्बुधिर्गुरुरिव क्षमामागतो
नुतो निखिलभूसुरैर्यजति कामरूपेश्वरः ॥ २२ ॥

अत्र राजगतानां द्विनेत्रत्वादीनां वासवादितादात्म्यविरोधिनां विरोधनिवर्तनाय विषयिषु वासवादिष्वारोपेन साधारणीकरणात्तन्निमित्तकोत्प्रेक्षा । सा चेह मालारूपा । न चात्रोपमा शक्यरूपणा । द्विनेत्रत्वाद्युक्तेर्निष्प्रयोजनकत्वापत्तेः । न चोपमानिष्पादकं तेषां साधारण्यं तदभावेऽपि परमैश्वर्यादिभिः प्रतीयमानैस्तस्या निष्पत्तेः । असुन्दरत्वेनोपमानिष्पादकतया कवेरनभिप्रेतत्वाच्च । एवं द्वितीयादीनां चन्द्रादिष्वारोपोऽप्युपमायां सत्यामनर्थक एव स्यात्‌ ॥


दीनव्राते दयार्द्रा निखिलरिपुकुले निर्दया किं च मृद्वी
काव्यालापेषु तर्कप्रतिवचनविधौ कर्कशत्वं दधाना ।
लुब्धा धर्मेष्वलुब्धा वसुनि परविपद्दर्शने कांदिशीका
राजन्नाजन्मरम्य स्फुरति बहुविधा तावकी चित्तवृत्तिः ॥ २३ ॥

अत्र विषयानेकत्वप्रयुक्तचित्तवृत्तेरनेकविधत्वमित्युल्लेखः । तत्र च तदीयचित्तवृत्तित्वेनैकत्वाध्यवसानं तन्त्रम्‌ ॥


देवाः के पूर्वदेवाः समिति मम नरः सन्ति के वा पुरस्ता-
देवं जल्पन्ति तावत्प्रतिभटपृतनावर्तिनः क्षत्रवीराः ।
यावन्नायाति राजन्नयनविषयतामन्तकत्रासिमूर्ते-
र्मुग्धारिप्राणदुग्धाशनमसृणरुचिस्त्वत्कृपाणो भुजंगः ॥ २४ ॥

अत्र शुद्धपरम्परितरूपकम्‌ ॥


प्राचीसंध्यासमुद्यन्महिमदिनमणेर्मानमाणिक्यकान्ति-
र्ज्वालामाला कराला कवलितजगतः क्रोधकालानलस्य ।
आशाकान्तापदाम्भोरुहतलविगलन्मञ्जुलाक्षारसाभा
सा भाति क्षोणिशोभाकरण तव दृशोः संगरे शोणिमश्रीः ॥ २५ ॥

अत्रापि तदेव परंतु मालात्मकम्‌ ॥


त्वां सुन्दरीनिवहनिष्ठुरधैर्यगर्व-
निर्वासनैकरसिकं समरे निरीक्ष्य ।
का वा रिपुक्षितिभृतां बत राजलक्ष्मीः
स्वामिव्रतत्वमपरिस्खलितं बभार ॥ २६ ॥

अत्र शत्रूणां राज्यलक्ष्मीस्त्वां प्राप्तेति विवक्षितोऽर्थः पातिव्रत्यस्खलितरूपेणाभिहित इति पर्यायोक्तम्‌ ।
तच्च राज्यलक्ष्म्या नायिकात्वसिद्ध्यर्थं समासोक्तिमपेक्षत इति सा तत्र गुणः ॥


नासत्ययोगो वचनेषु कीर्तौ तथार्जुनः कर्मणि चापि धर्मः ।
चित्ते जगत्प्राणभवो यदास्ते वशंवदास्ते किमु पाण्डुपुत्राः ॥ २७ ॥

अत्र पाण्डुपुत्रेषु विषयेषु राजवशंवदतादात्म्योत्प्रेक्षायां राजाश्रितत्वरूपो विषयिधर्मः श्लेषेण विषयाणां तदाश्रितानां चासत्याभावशुक्लगुणपुण्यपरमेश्वरानामभेदसंपादनद्वारा विषयसाधारणीकृतः ॥


मन्थाचलभ्रमणवेगवशंवदा ये
दुग्धाम्बुधेरुदपतन्नणवः सुधायाः ।
तैरेकतामुपगतैर्विविधौषधीभि-
र्धाता ससर्ज तव देव दयादृगन्तान्‌ ॥ २८ ॥

अत्र दृगन्तेषु न केवलं संजीवकत्वादयोऽमृतमात्रगुण एव कवेर्बुबोधयिषिता अपि तु निखिलजनवशीकारत्वादयोऽन्येऽपीति सुधाकणेष्वोषधीसंसर्गोऽतिशयार्थमुपात्तः ॥


केशैर्वधूनामथ सर्वकोषैः प्राणैश्च साकं प्रतिभूपतीनाम्‌ ।
त्वया रणे निष्करुणेन गाढं चापस्य जीवा चकृषे जवेन ॥ २९ ॥

अत्र चापकर्षणकार्याणां केशाकर्षणादीनां पौर्वापर्यविपर्ययात्मनातिशयेनानुप्राणिता सहोक्तिः ॥


महेन्द्रतुल्यं कवयो भवन्तं वदन्तु किं तानिह वारयामः ।
भवान्सहस्रैः समुपास्यमानः कथं समानस्त्रिदशाधिपेन ॥ ३० ॥

अत्र श्लेषोत्थापितत्रिदशत्वसंख्यामादाय व्यतिरेक उपात्तोभयनिमित्तकः ॥


स तु वर्षतु वारि वारिदस्त्वमुदाराशय रत्नवर्षणः ।
स कुहूरजनीमलीमसस्त्वमिहान्तर्बहिरेव निर्मलः ॥ ३१ ॥

अत्रापि स एव परं तु श्लेषोऽत्रानुत्थापको निषिध्यमानं साम्यं च न शाब्दमिति विशेषः ॥


कतिपयैर्निरणायि जनाधिपस्तदपरैरुदटङ्कि धनाधिपः ।
अजनि केवलमेष गिरां पतिर्भुवि मदेकमते कमतेश्वरः ॥ ३२ ॥

अत्र नायं राजा किं तु गिरां पतिरित्याकारापह्नुतिः । तत्र निषेधभागः परमतत्त्वोक्त्या पूर्वार्धेन गम्यते । आरोपांशस्तूत्तरार्धेन ॥


मकरप्रतिमैर्महाभटैः कविभी रत्ननिभैः समन्वितः ।
कवितामृतकीर्तिचन्द्रयोस्त्वमिहोर्वीरमणासि भाजनम्‌ ॥ ३३ ॥

अत्र राज्ञो जलघ्युपमायाः शब्देनाभिधानेऽप्यङ्गोपमाभिराक्षेपादेकदेशविवर्तिन्युपमा तेनोत्तरार्ध उपमितसमास एव ।
विशेषणसमासवेद्यस्य तादात्म्यस्य प्रकृतेऽनुपयोगात्‌ ॥
पुरः पुरस्तादरिभूपतीनां भवन्ति भूवल्लभ भस्मशेषाः ।
अनन्तरं ते भुकुटीविटङ्कात्पतन्ति रोषानलविस्फुलिङ्गाः ॥ ३४ ॥


अत्र प्रयोजकातिशयकृतः प्रयोज्यशैघ्र्यातिशयो गम्यः ।
कार्यकारणपौर्वापर्यविपर्ययरूपा चेयमतिशयोक्तिः ॥
भुवनत्रितयेऽपि मानवैः परिपूर्णे विबुधैश्च दानवैः ।
न भविष्यति नास्ति नाभवन्नृप यस्ते भजते तुलास्पदम्‌ ॥ ३५ ॥

अत्रोपमानलुप्तोपमेति प्राञ्चः । असमाख्यमलंकारान्तरमिति तु वयम्‌ ॥


पीयूषयूषकल्पामल्पामपि ते गिरं निपीतवताम्‌ ।
तोषाय कल्पते नो योषाधरबिम्बमधुरिमोद्रेकः ॥ ३६ ॥

अत्र संबन्धेऽप्यसंबन्ध इत्यतिशयोक्तिभेदः ।
उपमेयोपमानविशेषणाभ्यामल्पत्वोद्रिक्तत्वाभ्यामल्पयापि सह भूयानपि मधुरिमा साम्यं कर्तुं यत्रानीशस्तत्र किं वाच्यं भूयस्येति वैलक्षण्यात्मा व्यतिरेकश्च ॥


भासयति व्योमस्था जगदखिलं कुमुदिनीर्विकासयति ।
कीर्तिस्तव धरणिगता सगरसुतायासमफलतां नयते ॥ ३७ ॥

अत्र व्यजमानचन्द्रिकारूपकसंकीर्ण उल्लेखध्वनिः ॥


भाग्येन सह रिपूणामुत्तिष्ठसि विष्टारात्क्रुधाविष्टः ।
सहसैव पतसि तेषु क्षितिशासन मृत्युना साकम्‌ ॥ ३८ ॥

‘केशैर्वधूनाम्‌” (२९) इत्यत्र कर्मणः सहोक्तिः । इह तु कर्तुरिति विशेषः ॥


त्वयि पाकशासनसमे शासति सकलं वसुंधरावलयम्‌ ।
विपिने वैरिवधूनां वर्षन्ति विलोचनानि च दिनानि ॥ ३९ ॥

अत्र वर्षवदाचरन्तीत्याचारक्विबन्तेन श्लेषाच्छ्लेषमूलिका तुल्ययोगिता ।
रिपुकामिनीवर्णनविषयत्वेनोपमानोपमेययोर्द्वयोरपि प्रकृतत्वात्‌ ॥


अहितापकरणभेषज नरनाथ भवान्करस्थितो यस्य ।
तस्य कुतोऽहिभयं स्यादखिलामपि मेदिनीं चरतः ॥ ४० ॥

अत्र श्लेषनिवेदितस्य सर्पभयाभावस्योपपादकतयोपात्तस्य राजनि भेषजतादात्म्यारोपस्याप्युपपादकाया स्थितं राजसंबन्धिनि द्विषदपकरणरूपे धर्मे श्लेषनिवेदितसर्पतापकरणतादात्म्यमिति प्रथमचरणे श्लिष्टपरम्परितरूपकं तृतीये तु श्लेष एव ॥


कुवलयलक्ष्मीं हरते तव कीर्तिस्तत्र किं चित्रम्‌ ।
यस्मान्निदानमस्या लोकनमस्याङ्ध्रिपङ्कजो हि भवान्‌ ॥ ४१ ॥

अत्रोत्पादकसमानगुणत्वादुत्पाद्यस्योत्पादकभावसंसर्गानुरुपः समालंकारविशेषः । श्लेषश्चास्मिन्गुणः ॥


दृष्टः सदसि चेदुग्राश्चन्द्रचन्दनचन्द्रिकाः ।
अथ त्वं संगरे सौम्याः शेषकालानलासयः ॥ ४२ ॥

अत्र दृष्टः सदसीति वाक्ये त्वमित्यस्यापकर्षणात्‌, अथ त्वं संगर इत्यत्र च त्वमित्यस्यानुवर्तनाद्वाक्ययोः पदविनिमयात्मालंकारः पूर्वार्धे । उत्तरार्धे प्रकृतानेकधर्मसंबन्धात्तुल्ययोगिता । उपमेयस्योत्कृष्टगुणत्वसिद्धय उपमानस्य तद्विरुद्धगुणकल्पनात्मकेनालंकारान्तरेण शबलिता ॥


अपारे खलु संसारे विधिनैकोऽर्जुनः कृतः ।
कीर्त्या निर्मलया भूप त्वया सर्वेऽर्जुनाः कृताः ॥ ४३ ॥

इह श्लेषमूलो व्यतिरेकः ॥


दधीचिबलिकर्णेषु हिमहेमाचलाब्धिषु ।
अदातृत्वमधैर्यं च दृष्टे भवति भासते ॥ ४४ ॥

अत्रापि सैव तथाविधा । यथासंख्यसंकरस्तु विशेषः ॥


शासति त्वयि हे राजन्नखण्डावनिमण्डलम्‌ ।
न मनागपि निश्चिन्ते मण्डले शत्रुमित्रयोः ॥ ४५ ॥

इहापि तुल्ययोगिता मित्त्रशब्दश्लेषोत्थापिता व्याजस्तुतिश्च ॥


भानुरग्निर्यमो वायं बलिः कर्णोऽथवा शिबिः ।
प्रत्यर्थिनोऽर्थिनश्चेत्थं त्वयि यान्ति विकल्पनाम्‌ ॥ ४६ ॥

इह तु संशय उल्लेखालिङ्गितः ॥


कमलावासकासारः क्षमाधृतिफणीश्वरः ।
भवान्कुवलयस्येन्दुरानन्दयति मानवान्‌ ॥ ४७ ॥

इह श्लिष्टपरम्परितं रूपकं मालारूपम्‌ ॥


गगने चन्द्रिकायन्ते हिमायन्ते हिमालये ।
पृथिव्यां सागरायन्ते भूपाल तव कीर्तयः ॥ ४८ ॥

इह मालोपमालिङ्गित उल्लेखः ॥


मृगतां हरयन्मध्ये वृक्षतां च पटीरयन्‌ ।
नक्षत्रतां महीपानां त्वमिन्दवसि भूपते ॥ ४९ ॥

इह शुद्धपरम्परिता मालारूपोपमा । आचारक्विबन्ताच्छतरि रूपाणि । तिङि चैकम्‌ [इन्दवसि] ॥


मध्ये सुधासमुद्रस्य सिताभयगृहोदरे ।
पूर्णेन्दुविष्टरे देव स्थातुं योग्यास्तवोक्तयः ॥ ५० ॥

अत्र त्रयाणां सुधासमुद्रादीनां विशेषणविशेष्यभावेन मधुरिमणि परां काठामधिरूढे त्वदीयोक्तिपदसंबन्धो युक्तो न तु विशकलित इत्यतिशायकासद्विशेषणनिबन्धना प्रौढोक्तिः ॥


अमृतलहरीचन्द्रज्योत्स्नारमावदनाम्बुजा-
न्यधरितवतो निर्मर्यादप्रसादमहाम्बुधेः ।
उभयवदयं देव त्वत्तः कथं परमोल्बणः
प्रलयदहनज्वालाजालाकुलो महसां गणः ॥ ५१ ॥

अत्र कारणगुणविरुद्धस्वगुणस्य कार्यस्योत्पत्तेर्विषमालंकारः ।
अमृतलहर्यादीनां त्रयाणामधरीकरणात्मना व्यतिरेकेण संजीवकत्वपरमशीतलत्वविशुद्धत्वसौन्दर्याणामतिशयो गम्यते ।
एवमेषु पद्येषु संभवन्तोऽप्यनेकेऽलंकाराः स्फुटत्वान्न विवेचिताः ।
सहृदयानां प्रीत्यावश्यकं किंचिद्व्याख्यातमन्यत्तु तैरेवोल्लासनीयमित्यलं पल्लवितेन ॥


तैलङ्गान्वयमङ्गलालयमहालक्ष्मीदयालालितः
श्रीमत्पेरमभट्टसूनुरनिशं विद्वल्ललाटंतपः ।
संतुष्टः कमताधिपस्य कवितामाकर्ण्य तद्वर्णनं
श्रीमत्पण्डितराजपण्डितजगन्नाथो व्यधासीदिदम्‌ ॥ ५२ ॥


दोर्दण्डद्वयकुण्डलीकृतलसत्कोदण्डचण्डाशुग-
ध्वस्तोद्दण्डविपक्षमण्डलमिह त्वां वीक्ष्य मध्येरणम्‌ ।
वल्गद्गाण्डिवमुक्तकाण्डवलयज्वालावलीताण्डव-
भ्रश्यत्खाण्डवरुष्टपाण्डवमहो को न क्षितीशः स्मरेत्‌ ॥ ५३ ॥

अत्र स्मरणालंकारः । भाव इति तु न भ्रामितव्यम्‌ । सादृश्यमूलकत्वातन्मूलकत्वाभ्यां भावत्वालंकारत्वयोरिह व्यवस्थितेः शब्दवेद्यत्वाच्च ॥
 
॥ इति पण्डितराजश्रीजगन्नाथविरचितं प्राणाभरणं तत्कृतयैव टिप्पण्या समेतं समाप्तम्‌ ॥

"https://sa.wikisource.org/w/index.php?title=प्राणाभरणम्&oldid=91986" इत्यस्माद् प्रतिप्राप्तम्