मे २०२४
मङ्गलवासरः
००:३७ UTC

केवलं ग्रहनक्षत्रं न करोति शुभाशुभम् ।
सर्वमात्मकृतं कर्म लोकवादो ग्रहा इति ॥

अनुशासनपर्व १४५/२


जीवने कष्टानि दुःखानि यदा आपतन्ति तदा बहवः वदन्ति – ग्रहगतिः समीचीना नास्ति इति । किन्तु केवलं ग्रहनक्षात्रादीनां कारणतः अस्माकं जीवने सुखदुःखादयः न भवन्ति । अस्माभिः कृतानां कर्मणां कारणतः एव शुभाशुभफलं प्राप्यते । ग्रहगतिकारणतः इदं जातम् इत्येतत् जनानां वचनमात्रम् ।





"https://sa.wikisource.org/w/index.php?title=फलकम्:सूक्तिसुधा&oldid=42177" इत्यस्माद् प्रतिप्राप्तम्