← अध्यायः ४६ बृहत्संहिता
अध्यायः ४७
वराहमिहिरः
अध्यायः ४८ →

४७ पुष्यस्नानाध्यायः ।।

 मूलं मनुजाधिपतिः प्रजातरोस्तदुपघातसंस्कारात् ।
 अशुभं शुभं च लोके भवति यतो +अतो नृपतिचिन्ता ।। ४७.०१ ।।

 या व्याख्याता शान्तिः स्वयम्भुवा सुरगुरोर्महेन्द्रार्थे ।
 तां प्राप्य वृद्धगर्गः प्राह यथा भागुरेः शृणुत ।। ४७.०२ ।।

 पुष्यस्नानं नृपतेः कर्तव्यं दैववित्पुरोधाभ्याम् ।
 नातः परं पवित्रं सर्वौत्पातान्तकरं अस्ति ।। ४७.०३ ।।

 श्लेष्मातकाक्षकण्टकिकटुतिक्तविगन्धिपादपविहीने ।
 कौशिकगृध्रप्रभृतिभिरनिष्टविहगैः परित्यक्ते ।। ४७.०४ ।।

 तरुणतरुगुल्मवल्लीलताप्रतान*अन्विते[क्.आवृते] वनोद्देशे ।
 निरुपहतपत्रपल्लवमनोज्ञमधुरद्रुमप्राये ।। ४७.०५ ।।

 कृकवाकुजीवजीवकशुकशिखिशतपत्रचाषहारीतैः ।
 क्रकरचकोरकपिञ्जलवञ्जुलपारावतश्रीकैः ।। ४७.०६ ।।

 कुसुमरसपानमत्तद्विरेफपुंस्कोकिलऽदिभिश्चान्यैः ।
 विरुते वनोपकण्ठे क्षेत्रऽगारे शुचावथ वा ।। ४७.०७ ।।

 *हृदिनी[क्.ऊ.ह्रदिनी]विलासिनीनां जलखगनखविक्षतेषु रम्येषु ।
 पुलिनजघनेषु कुर्याद्दृक्मनसोः प्रीतिजननेषु ।। ४७.०८ ।।

 प्रोत्प्लुतहंसच्छत्रे कारण्डवकुररसारसौद्गीते ।
 फुल्लैन्दीवरनयने सरसि सहस्राक्षकान्तिधरे ।। ४७.०९ ।।

 प्रोत्फुल्लकमलवदनाः कलहंस*कल[क्.कलस्वन]प्रभाषिण्यः ।
 प्रोत्तुङ्गकुड्मलकुचा यस्मिन्नलिनीविलासिन्यः ।। ४७.१० ।।

 कुर्याद्गोरोमन्थजफेनलवशकृत्खुरक्षतौपचिते ।
 अचिरप्रसूतहुङ्कृतवल्गितवत्सौत्सवे गोष्ठे ।। ४७.११ ।।

 अथ वा समुद्रतीरे कुशलऽगत*रत्नपोत[क्.पोतरत्न]सम्बाधे ।
 घननिचुललीनजलचरसितखगशबलीकृतौपान्ते ।। ४७.१२ ।।

 क्षमया क्रोध इव जितः सिंहो मृग्याभिभूयते *येषु[क्.यत्र] ।
 दत्ताभयखगमृगशावकेषु तेष्वाश्रमेष्वथ वा ।। ४७.१३ ।।

 काञ्चीकलापनूपुरगुरुजघनौद्वहनविघ्नितपदाभिः ।
 श्रीमति मृगेक्षणाभिर्गृहे +अन्यभृतवल्गुवचनाभिः ।। ४७.१४ ।।

 पुण्येष्वायतनेषु च तीर्थेषुउद्यानरम्यदेशेषु ।
 पूर्वोदक्प्लवभूमौ प्रदक्षिणाम्भोवहायां च ।। ४७.१५ ।।

 भस्माङ्गारास्थ्यूषरतुषकेशश्वभ्रकर्कटऽवासैः ।
 *श्वाविध[क्.श्वाविन्]मूषकविवरैर्वल्मीकैर्या च सन्त्यक्ता ।। ४७.१६ ।।

 धात्री घना सुगन्धा स्निग्धा मधुरा समा च विजयाय ।
 सेनावासे +अप्येवं योजयितव्या यथायोगम् ।। ४७.१७ ।।

 निष्क्रम्य पुरान्नक्तं दैवज्ञामात्ययाजकाः प्राच्याम् ।
 कौबेर्यां वा कृत्वा बलिं दिशीशाधिपायां वा ।। ४७.१८ ।।

 लाजाअक्षतदधिकुसुमैः प्रयतः प्रणतः पुरोहितः कुर्यात् ।
 आवाहनं अथ मन्त्रस्तस्मिन्मुनिभिः समुद्दिष्टः ।। ४७.१९ ।।

 आगच्छन्तु सुराः सर्वे ये +अत्र पूजाअभिलाषिणः ।
 दिशो नागा द्विजाश्चएव ये *चाप्यन्ये[क्.चानेयप्य्] +अंशभागिनः ।। ४७.२० ।।

 आवाह्यएवं ततः सर्वानेवं ब्रूयात्पुरोहितः ।
 श्वः पूजां प्राप्य यास्यन्ति दत्त्वा शान्तिं महीपतेः ।। ४७.२१ ।।

 आवाहितेषु कृत्वा पूजां तां शर्वरीं वसेयुस्ते ।
 सदसत्स्वप्ननिमित्तं यात्रायां स्वप्नविधिरुक्तः ।। ४७.२२ ।।

 अपरे +अहनि प्रभाते सम्भारानुपहरेद्यथोक्तगुणान् ।
 गत्वा +अवनिप्रदेशे श्लोकाश्चाप्यत्र मुनिगीताः ।। ४७.२३ ।।

 तस्मिन्मण्डलं आलिख्य कल्पयेत्तत्र मेदिनीम् ।
 नानारत्नाकरवतीं स्थानानि विविधानि च ।। ४७.२४ ।।

 पुरोहितो यथास्थानं नागान्यक्षान्सुरान्पितॄन् ।
 गन्धर्वाप्सरसश्चएव मुनीन्सिद्धांश्च विन्यसेत् ।। ४७.२५ ।।

 ग्रहांश्च *सर्व[क्.सह]नक्षत्रै रुद्रांश्च सह मातृभिः ।
 स्कन्दं विष्णुं विशाखं च लोकपालान्सुरस्त्रियः ।। ४७.२६ ।।

 वर्णकैर्विविक्धैः कृत्वा हृद्यैर्गन्धगुणान्वितैः ।
 यथास्वं पूजयेद्विद्वान्गन्धमाल्यानुलेपनैः ।। ४७.२७ ।।

 भक्ष्यैरन्नैश्च विविधैः फलमूलऽमिषैस्तथा ।
 *पानैश्च[क्.पानकैर्] विविधैर्हृद्यैः सुराक्षीरऽसवऽदिभिः ।। ४७.२८ ।।

 कथयाम्यतः परं अहं पूजां अस्मिन्यथाभिलिखितानाम् ।
 ग्रहयज्ञे यः प्रोक्तो विधिर्ग्रहाणां स कर्तव्यः ।। ४७.२९ ।।

 मांसओदनमद्यैः पिशाचदितितनयदानवाः पूज्याः ।
 अभ्यञ्जनाञ्जनतिलैः पितरो मांसओदनैश्चापि ।। ४७.३० ।।

 सामयजुर्भिर्मुनयस्त्वृग्भिर्गन्धैश्च धूपमाल्ययुतैः ।
 अश्लेषकवर्णैस्त्रिमधुरेण चाभ्यर्चयेद्नागान् ।। ४७.३१ ।।

 धूपऽज्यऽहुतिमाल्यैर्विबुधान्*रत्नः[ऊ.रत्नैः] स्तुतिप्रणामैश्च ।
 गन्धर्वानप्सरसो गन्धैर्माल्यैश्च सुसुगन्धैः ।। ४७.३२ ।।

 शेषांस्तु सार्ववर्णिकबलिभिः पूजां न्यसेच्च सर्वेषाम् ।
 प्रतिसरवस्त्रपताकाभूषणयज्ञोपवीतानि ।। ४७.३३ ।।

 मण्डलपश्चिमभागे कृत्वाअग्निं दक्षिणे +अथ वा वेद्याम् ।
 आदद्यात्सम्भारान्दर्भान्दीर्घानगर्भांश्च ।। ४७.३४ ।।

 लाजाआज्याक्षतदधिमधुसिद्धार्थकगन्धसुमनसो *धूपः[क्.धुपान्] ।
 गोरोचनाञ्जन*तिलाः[क्.तिलान्] स्वर्तुजमधुराणि च फलानि ।। ४७.३५ ।।

 सघृतस्य पायसस्य च तत्र शरावाणि तैश्च सम्भारैः ।
 पश्चिमवेद्यां पूजां कुर्यात्*स्नानस्य[ऊ.स्नातस्य] सा वेदी ।। ४७.३६ ।।

 तस्याः कोणेषु दृढान्कलशान्सितसूत्रवेष्टितग्रीवान् ।
 सक्षीरवृक्षपल्लवफलापिधानान्व्यवस्थाप्य ।। ४७.३७ ।।

 पुष्यस्नानविमिश्रेणऽपूर्णानम्भसा सरत्नांश्च ।
 पुष्यस्नानद्रव्याण्यादद्याद्गर्गगीतानि ।। ४७.३८ ।।

 ज्योतिष्मतीं त्रायमाणां अभयां अपराजिताम् ।
 जीवां विश्वेश्वरीं पाठां समङ्गां विजयां तथा ।। ४७.३९ ।।

 सहां च सहदेवीं च पूर्णकोशां शतावरीम् ।
 अरिष्टिकां शिवां भद्रां तेषु कुम्भेषु विन्यसेत् ।। ४७.४० ।।

 ब्राह्मीं क्षेमां अजां चएव सर्वबीजानि *काञ्चनीम्[क्.काञ्चनम्] ।
 मङ्गल्यानि यथालाभं सर्वौषध्यो *रसास्[क्.रसांस्] तथा ।। ४७.४१ ।।

 रत्नानि *सर्वगन्धाश्[क्.सर्वगन्धांश्] च बिल्वं च सविकङ्कतम् ।
 प्रशस्तनाम्न्यश्चओषध्यो हिरण्यं मङ्गलानि च ।। ४७.४२ ।।

 आदावनडुहश्चर्म जरया संहृतायुषः ।
 प्रशस्तलक्षणभृतः प्राचीनग्रीवं आस्तरेत् ।। ४७.४३ ।।

 ततो वृषस्य योधस्य चर्म रोहितं अक्षतम् ।
 सिम्हस्याथ तृतीयं स्याद्व्याघ्रस्य च ततः परम् ।। ४७.४४ ।।

 चत्वार्येतानि चर्माणि तस्यां वेद्यां उपास्तरेत् ।
 शुभे मुहूर्ते सम्प्राप्ते पुष्ययुक्ते निशाकरे ।। ४७.४५ ।।

 भद्रासनं एकतमेन कारितं कनकरजतताम्राणाम् ।
 क्षीरतरुनिर्मितं वा विन्यस्यं चर्मणां उपरि ।। ४७.४६ ।।

 त्रिविधस्तस्यौच्छ्रायो हस्तः पादाधिको +अर्धयुक्तश्च ।
 माण्डलिकाअनन्तरजित्समस्तराज्यार्थिनां शुभदः ।। ४७.४७ ।।

 अन्तर्धाय हिरण्यं तत्रौपविशेन्नरेश्वरः सुमनाः ।
 सचिवऽप्तपुरोहितदैवपौरकल्याणनामवृतः ।। ४७.४८ ।।

 वन्दिजनपौर*विप्रैः प्रघुष्ट[क्.विप्रप्रघुष्ट]पुण्याहवेदनिर्घोषैः ।
 समृदङ्गशङ्खतूर्यैर्मङ्गलशब्दैर्हतानिष्टः ।। ४७.४९ ।।

 अहतक्षौमनिवसनं पुरोहितः कम्बलेन सञ्छाद्य ।
 कृतबलिपूजं कलशैरभिषिञ्चेत्सर्पिषा पूर्णैः ।। ४७.५० ।।

 अष्टावष्टाविंशतिरष्टशतं वाअपि कलशपरिमाणम् ।
 अधिके +अधिके गुणोत्तरं अयं च मन्त्रो +अत्र मुनिगीतः ।। ४७.५१ ।।

 आज्यं तेजः समुद्दिष्टं आज्यं पापहरं परम् ।
 आज्यं सुराणां आहार आज्ये लोकाः प्रतिष्ठिताः ।। ४७.५२ ।।

 भौमऽन्तरिक्षं दिव्यं वा यत्ते *कल्मषम्[क्.कल्विषं] आगतम् ।
 सर्वं तदाज्यसंस्पर्शात्प्रणाशं उपगच्छतु ।। ४७.५३ ।।

 कम्बलं अपनीय ततः पुष्यस्नानाम्बुभिः सफलपुष्पैः ।
 अभिषिञ्चेन्मनुजेन्द्रं पुरोहितो +अनेन मन्त्रेण ।। ४७.५४ ।।

 सुरास्त्वां अभिषिञ्चन्तु ये च सिद्धाः पुरातनाः ।
 ब्रह्मा विष्णुश्च *रुद्रश्[क्.शम्भुश्] च साध्याश्च समरुद्गणाः ।। ४७.५५ ।।

 आदित्या वसवो रुद्रा अश्विनौ च भिषग्वरौ ।
 अदितिर्देवमाता च स्वाहा सिद्धिः सरस्वती ।। ४७.५६ ।।

 कीर्तिर्लक्ष्मीर्धृतिः श्रीश्च सिनीवाली कुहूस्तथा ।
 दनुश्च सुरसा चएव विनता कद्रुरेव च ।। ४७.५७ ।।

 देवपत्न्यश्च या नोक्ता देवमातर एव च ।
 सर्वास्त्वां अभिषिञ्चन्तु दिव्याश्चाप्सरसां गणाः ।। ४७.५८ ।।

 नक्षत्राणि मुहूर्ताश्च पक्षाहोरात्रसन्धयः ।
 संवत्सरा दिनेशाश्च कलाः काष्ठाः क्षणा लवा । ४७.५९ ।।

 सर्वे त्वां अभिषिञ्चन्तु कालस्यावयवाः शुभाः ।
 एते चान्ये च मुनयो वेदव्रतपरायणाः ।। ४७.६० ।।

 सशिष्यास्ते +अभिषिञ्चन्तु सदाराश्च तपोधनाः ।
 वैमानिकाः सुरगणा मनवः सागरैः सह ।। ४७.६१ ।।

 सरितश्च महाभागा नागाः किंपुरुषाश्तथा ।
 वैखानसा महाभागा द्विजा वैहायसाश्च ये ।। ४७.६२ ।।

 सप्तर्षयः सदाराश्च ध्रुवस्थानानि यानि च ।
 मरीचिरत्रिः पुलहः पुलस्त्यः क्रतुरङ्गिराः ।। ४७.६३ ।।

 भृगुः सनत्कुमारश्च सनको +अथ सनन्दनः ।
 सनातनश्च दक्षश्च जैगीषव्यो भगन्दरः ।। ४७.६४ ।।

 एकतश्च द्वितश्चएव त्रितो जाबालिकश्यपौ ।
 दुर्वासा दुर्विनीतश्च कण्वः कात्यायनस्तथा ।। ४७.६५ ।।

 मार्कण्डेयो दीर्घतपाः शुनःशेफो विदूरथः ।
 ऊर्ध्वः संवर्तकश्चएव च्यवनो +अत्रिः पराशरः ।। ४७.६६ ।।

 द्वैपायनो यवक्रीतो देवराजः सहानुजः ।
 पर्वतास्तरवो वल्ल्यः पुण्यान्यायतनानि च ।। ४७.६७ ।।

 प्रजापतिर्दितिश्चएव गावो विश्वस्य मातरः ।
 वाहनानि च दिव्यानि सर्वलोकाश्चराचराः ।। ४७.६८ ।।

 अग्नयः पितरस्तारा जीमूताः खं दिशो जलम् ।
 एते चान्ये च बहवः पुण्यसङ्कीर्तनाः *शुभैः[क्.शुभाः] ।। ४७.६९ ।।

 तोयैस्त्वां अभिषिञ्चन्तु सर्वौत्पातनिबर्हणैः ।
 *यथाभिषिक्तो मघवानेतैर्मुदितमनसैः[क्.कल्याणं ते प्रकुर्वन्तु आयुरारोग्यं एव च] ।। ४७.७० ।।

 इत्येतैश्चान्यैश्चाप्यथर्वकल्प*आहितैः[क्.विहितैः] सरुद्रगणैः ।
 कौष्माण्डमहारौहिणकुबेरहृद्यैः समृद्ध्या च ।। ४७.७१ ।।

 आपोहिष्ठातिसृभिर्हिरण्यवर्णाइति चतसृभिर्जप्तम् ।
 कार्पासिकवस्त्रयुगं बिभृयात्स्नातो नराधिपतिः ।। ४७.७२ ।।

 पुण्याहशङ्खशब्दैराचान्तो +अभ्यर्च्य देवगुरुविप्रान् ।
 छत्रध्वजऽयुधानि च ततः स्वपूजां प्रयुञ्जीत ।। ४७.७३ ।।

 आयुष्यं वर्चस्यं रायस्पोषाभिरृग्भिरेताभिः ।
 परिजप्तं वैजयिकं नवं विदध्यादलङ्कारम् ।। ४७.७४ ।।

 गत्वा द्वितीयवेदीं समुपविशेच्चर्मणां उपरि राजा ।
 देयानि चएव चर्माण्युपर्युपर्येवं एतानि ।। ४७.७५ ।।

 वृषस्य वृषदंशस्य रुरोश्च पृषतस्य च ।
 तेषां उपरि सिंहस्य व्याघ्रस्य च ततः परम् ।। ४७.७६ ।।

 मुख्यस्थाने जुहुयात्पुरोहितो +अग्निं समित्तिलघृताद्यैः ।
 त्रिनयनशक्रबृहस्पतिनारायणनित्यगतिऋग्भिः ।। ४७.७७ ।।

 इन्द्रध्वजनिर्दिष्टान्यग्निनिमित्तानि दैवविद्ब्रूयात् ।
 कृत्वा +अशेषसमाप्तिं पुरोहितः प्राञ्जलिर्ब्रूयात् ।। ४७.७८ ।।

 यान्तु देवगणाः सर्वे पूजां आदाय पार्थिवात् ।
 सिद्धिं दत्त्वा *तु विपुलां[क्.सुविपुलाम्] पुनरागमनाय *च[क्.वै] ।। ४७.७९ ।।

 नृपतिरतो दैवज्ञं पुरोहितं चार्चयेद्धनैर्बहुभिः ।
 अन्यांश्च दक्षिणीयान्*यथोचितं[क्.यथार्हतः] श्रोत्रियप्रभृतीन् ।। ४७.८० ।।

 दत्त्वा +अभयं प्रजानां आघातस्थानगान्विसृज्य पशून् ।
 बन्धनमोक्षं कुर्यादभ्यन्तरदोषकृद्वर्जम् ।। ४७.८१ ।।

 एतत्प्रयुज्यमानं प्रतिपुष्यं सुखयशोअर्थवृद्धिकरम् ।
 *पुष्याद्[क्.पुष्यम्] विनाअर्धफलदा पौषी शान्तिः *परा[क्.पुरा] प्रोक्ता ।। ४७.८२ ।।

 राष्ट्रौत्पातौपसर्गेषु राहोः केतोश्च दर्शने ।
 ग्रहावमर्दने चएव पुष्यस्नानं समाचरेत् ।। ४७.८३ ।।

 नास्ति लोके स उत्पातो यो ह्यनेन न शाम्यति ।
 मङ्गलं चापरं नास्ति यदस्मादतिरिच्यते ।। ४७.८४ ।।

 अधिराज्यार्थिनो राज्ञः पुत्रजन्म च काङ्क्षतः ।
 तत्पूर्वं अभिषेके च विधिरेष प्रशस्यते ।। ४७.८५ ।।

 महेन्द्रार्थं उवाचैदं बृहत्कीर्तिर्बृहस्पतिः ।
 स्नानं आयुष्प्रजावृद्धिसौभाग्यकरणं परम् ।। ४७.८६ ।।

 अनेनैव विधानेन हस्त्यश्वं *स्नापयेत्ततः[क्.स्नापयीत यः] ।
 तस्यऽमयविनिर्मुक्तं परां सिद्धिं अवाप्नुयात् ।। ४७.८७ ।।