ब्रह्माण्डपुराणम्/उत्तरभागः/अध्यायः २

← उत्तरभागः, अध्यायः १ ब्रह्माण्डपुराणम्
अध्यायः २
[[लेखकः :|]]
उत्तरभागः, अध्यायः ३ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४

वायुरुवाच
असाधारणवृत्तैस्तु हुतशेषादिभिर्जनैः ।
धर्मा वैशेषिकाश्चैव आचीर्णाः सूक्ष्मदर्शिभिः ॥ ३,२.१ ॥
ते देवैः सह तिष्ठन्ति महर्लोकनिवासिनः ।
चतुर्दशैते मनवः कीर्तिताः कीर्तिवर्द्धनाः ॥ ३,२.२ ॥
अतीता वर्त्तमानाश्च तथैवानागताश्च ये ।
देवाश्च ऋषयश्चैव मनवः पितरस्तथा ॥ ३,२.३ ॥
सर्वे ह्युक्ता मयातीत महर्लोकं समाश्रिताः ।
ब्राह्मणैः क्षत्रियैर्वैश्यैर्धार्मिकैः सहितैः सरैः ॥ ३,२.४ ॥
तैस्तथाकारिभिर्युक्तैः श्रद्धावद्भिरदर्पितैः ।
वर्णाश्रमाणान्धर्मेषु श्रौतस्मार्त्तेषु संस्थितैः ।
विनिवृत्ताधिकारास्ते यावन्मन्वन्तरक्षयः ॥ ३,२.५ ॥
ऋषय ऊचुः
महर्ल्लोकेति यत्प्रोक्तं मातरिश्वंस्त्वया विभोः ॥ ३,२.६ ॥
प्रतिलोके तु कर्त्तव्यं तत्रकिं समधिष्ठितम् ।
प्रोवाच मधुरं वाक्यं यथा तत्त्वेन तत्त्ववित् ॥ ३,२.७ ॥
वायुरुवाच
चतर्दशैव स्थानानि निर्मितानि महर्षिभिः ।
लोकाख्यानि तु यानि स्युर्येषां तिष्ठन्ति मानवाः ॥ ३,२.८ ॥
सप्त तेषु कृतान्याहुरकृतानि तु सप्त वै ।
भूरादयस्तु सत्यान्ताः सप्त लोकाः कृतास्त्विह ॥ ३,२.९ ॥
अकृतानि तु सप्तैव प्राकृतानि तु यानि वै ।
स्थानानि स्थानिभिः सार्द्धं कृतानि तु निबन्धनम् ॥ ३,२.१० ॥
पृथिवी चान्तरीक्षं च दिव्यं यच्च महः स्मृतम् ।
स्थानान्येतानि चत्वारि स्मृतान्यावर्णकानि च ॥ ३,२.११ ॥
क्षयातिशययुक्तानि तथायुक्तानि चक्षते ।
यानि नैमित्तिकानि स्युस्तिष्ठन्त्याभूतसंप्लवात् ॥ ३,२.१२ ॥
जनस्तपश्च सत्यं च स्थानान्येतानि त्रीणि तु ।
एकान्तिकानि तानि स्युस्तिष्ठन्तीहाप्रसंयमात् ॥ ३,२.१३ ॥
व्यक्तानि तु प्रवक्ष्यामि स्थानान्येतानि सप्त वै ।
भूर्लोकः प्रथमस्तेषां द्वितीयस्तु भुवः स्मृतः ॥ ३,२.१४ ॥
स्वस्तृतीयस्तु विज्ञेयश्चतुर्थो वै महः स्मृतः ।
जनस्तु पञ्चमो लोकस्तपः षष्ठो विभाव्यते ॥ ३,२.१५ ॥
सत्यस्तु सप्तमो लोको निरालोकस्ततः परम् ।
भूरिति व्याहृतेः पूर्व भूर्लोकश्च ततोऽभवत् ॥ ३,२.१६ ॥
द्वीतीयो भुव इत्युक्त अन्तरिक्षं ततोऽभवत् ।
तृतीयं स्वरितीत्युक्तो दिवं प्रादुर्बभूव ह ॥ ३,२.१७ ॥
व्याहारैस्त्रिभिरेतैस्तु ब्रह्मा लोकमकल्पयत् ।
ततो भूः पार्थिवो लोको ह्यन्तरिक्षं भूवः स्मृतम् ॥ ३,२.१८ ॥
स्वर्लोकं वै दिवं ह्येष पुराणे निश्चयो गतः ।
भूतस्याधिपतिश्चाग्निस्ततो भूतपतिः स्मृतः ॥ ३,२.१९ ॥
वायुर्भुवश्चाधिपतिस्तेन वायुर्भुवस्पतिः ।
दिवस्य सूर्योऽधिपतिस्तेन सूर्यो दिवस्पतिः ॥ ३,२.२० ॥
महेति व्याहृतेनैव महर्लोकस्ततोऽभवत् ।
विनिवृत्ताधिकारणां देवानां तत्र वै क्षयः ॥ ३,२.२१ ॥
जनस्तु पञ्चमो लोकस्तस्माज्जायन्ति वै जनाः ।
तासां स्वायंभुवाद्यानां प्रजानां जननाज्जनः ॥ ३,२.२२ ॥
ये ते स्वायंभुवाद्या हि पुरस्तात्परिकीर्त्तिताः ।
कल्प एते यदा लोके प्रतिष्ठन्ति तदा तपः ॥ ३,२.२३ ॥
ऋभुः सनत्कुमाराद्या यत्रासन्नूर्द्ध्वरेतसः ।
तपसा भावितात्मानस्तत्र संतीति वा तपः ॥ ३,२.२४ ॥
सत्येति ब्रह्मणः शब्दः सत्तामात्रस्तु स स्मृतः ।
ब्रह्मलोकस्ततः सत्यः सप्तमः स तु भास्वरः ॥ ३,२.२५ ॥
गन्धर्वाप्सरसो यक्षा गुह्यकास्तु सराक्षसाः ।
सर्वभूतपिशाचाश्च नागाश्च सह मानुषैः ॥ ३,२.२६ ॥
स्वर्लोकवासिनः सर्वे देवा भुवि निवासिनः ।
मरुतो मातरिश्वानो रुद्रा देवास्तथाश्विनौ ॥ ३,२.२७ ॥
अनिकेतान्तरिक्षास्ते भुवर्लोका दिवौकसः ।
आदित्या ऋभवो विश्वे साध्याश्च पितरस्तथा ॥ ३,२.२८ ॥
ऋषयोङ्गिर सश्चैव भुवर्लोकं समाश्रिताः ।
एते वैमानिका देवास्ताराग्रहनिवासिनः ॥ ३,२.२९ ॥
आरंभन्ते तु तन्मात्रैः शुद्धास्तेषां परस्परम् ।
शुक्राद्याश्चक्षुषान्ताश्च ये व्यतीता भुवं श्रिताः ॥ ३,२.३० ॥
महर्लोकश्चतुर्थस्तु तस्मिंस्ते कल्पवासिनः ।
इत्येते क्रमशः प्रोक्ता ब्रह्मव्याहारसंभवाः ॥ ३,२.३१ ॥
भूर्लोकप्रथमा लोका महरन्ताश्च ते स्मृताः ।
तान्सर्वान्सप्तसूर्यास्ते अर्चिभिर्निर्दहन्ति वै ॥ ३,२.३२ ॥
मारीचिः कश्यपो दक्षस्तथा स्वायंभुवोङ्गिराः ।
भृगुः पुलस्त्यः पुलहः क्रतुरित्येवमादयः ॥ ३,२.३३ ॥
प्रजानां पतयः सर्वे वर्त्तंन्ने तत्र तैः सह ।
निःसत्त्वा निर्ममाश्चैव तत्र ते ह्यूर्द्वरेतसः ॥ ३,२.३४ ॥
ऋभुः सनत्कुमाराद्या वैराजास्ते तपोधनाः ।
मन्वन्तराणां सर्वेषां सावर्णानां ततः स्मृताः ॥ ३,२.३५ ॥
चतुर्दशानां सर्वेषां पुनरावृत्तिहेतवः ।
योगं तपश्च सत्त्वं च समाधाय तदात्मनि ॥ ३,२.३६ ॥
षष्ठे काले निवर्त्तते तदा प्राहुर्विपर्ययात् ।
सत्यस्तु सप्तमो लोको ह्यपुनर्मार्गगामिनाम् ॥ ३,२.३७ ॥
ब्रह्मलोकः समाख्यातो ह्यप्रतीघातलक्षणः ।
पर्यासपरिमाणेन भूर्लोकः समभिस्मृतः ॥ ३,२.३८ ॥
भूम्यन्तरं यदादित्यादन्तरिक्षं भुवः स्मृतम् ।
सूर्यध्रुवान्तरं यच्च स्वर्गलोको दिवः स्मृतः ॥ ३,२.३९ ॥
ध्रुवाज्जनान्तरं यच्च महर्लोकः स उच्यते ।
व्याख्याताः सप्तलोकास्तु तेषां वक्ष्यामि सिद्धयः ॥ ३,२.४० ॥
भूर्लोकवासिनः सर्वे उन्नादास्तु रसात्मकाः ।
भुवि स्वर्गे च ये सर्वे सोमपा आज्यपाश्च ते ॥ ३,२.४१ ॥
चतुर्थे येऽपि वर्त्तन्ते महर्लोकं समाश्रिताः ।
विज्ञेया मानसी तेषां सिद्धिर्वै पञ्चलक्षणा ॥ ३,२.४२ ॥
सद्यश्चोत्पद्यते तेषां मनसा सर्वमीप्सितम् ।
एते देवा यजन्ते वै यज्ञैः सर्वैः परस्परम् ॥ ३,२.४३ ॥
अतीता वर्त्तमानाश्च तथा ये चाप्यनागताः ।
प्रथमानन्तरोद्दिष्टा अन्तराः सांप्रतैः पुनः ॥ ३,२.४४ ॥
निवर्त्तते हि संबन्धोऽतीते देवगणे तपः ।
विनिवृत्ताधिकाराणां सिद्धस्तेषां तु मानसी ॥ ३,२.४५ ॥
तषां तु मानसी ज्ञेया शुद्धा सिद्धिः परस्परात् ।
उक्ता लोकास्तु चत्वारो जनस्यानुविधिस्तथा ।
समासेन मया विप्रा भूयस्तं वर्त्तयामि वः ॥ ३,२.४६ ॥
वायुरुवाच
मरीचिः कश्यपो दक्षो वसिष्ठश्चाङ्गिरा भृगुः ॥ ३,२.४७ ॥
पुलस्त्यः पुलहस्छैव क्रतुरित्येवामादयः ।
पूर्वं ते संप्रसूयन्ते ब्रह्मणो मानसा इह ॥ ३,२.४८ ॥
ततः प्रजाः प्रतिष्ठाप्य जनमेवाश्रयन्ति ते ।
कल्पदाहेषु तु सदा तथा कालेषु तेषु वै ॥ ३,२.४९ ॥
भूरादिषु महान्तेषु भृशं व्याप्ते यथाग्निना ।
शिखाः संवर्त्तकाग्नेर्याः प्राप्नुवन्ति सवासनाः ॥ ३,२.५० ॥
यामादयो गणाः सर्वे महर्लोकनिवासिनः ।
महर्लोकेषु दीप्तेषु जनमेवाश्रयन्ति ते ॥ ३,२.५१ ॥
सर्वे सूक्ष्मशरीरास्ते तत्रस्थाश्च भवन्ति ते ।
तेषां ते तुल्यसामर्थ्या स्तुल्यमूर्त्तिधरास्तथा ॥ ३,२.५२ ॥
जनलोके विवर्त्तन्ते संवर्त्तः प्लवते जगत् ।
व्युष्टायां तु रजन्यां वै ब्रह्मणोऽव्यक्तयोनितः ॥ ३,२.५३ ॥
अहरादौ प्रसूयन्ते पूर्ववत्क्रमशस्त्विह ।
स्वायंभुवादयः सर्वे मरीच्यन्तास्तु साधकाः ॥ ३,२.५४ ॥
देवास्ते वै पुनस्तेषां जायन्ते निधनेष्विह ।
यामादयः क्रमेणैव कनिष्ठाद्याः प्रजापतेः ॥ ३,२.५५ ॥
पूर्वं पूर्वे प्रसूयन्ते पश्चिमे पश्चिमास्तथा ।
देवान्वये देवता हि सप्त संभूत यः स्मृताः ॥ ३,२.५६ ॥
व्यतीताः कल्पजास्तेषां तिस्रः शिष्टास्तथापरे ।
आवर्त्तमाना देवास्ते क्रमेणैतेन सर्वशः ॥ ३,२.५७ ॥
गत्वा जव जवीभावं दशकृत्वाः पुनः पुनः ।
ततस्ते वै गणाः सर्वे दृष्ट्वा भावेष्वनित्यताम् ॥ ३,२.५८ ॥
भाविनोर्ऽथस्य च बलात्पुण्यख्यातिबलेन च ।
निवृत्तवृत्त्यः सर्वेऽत्रस्थाः सुमनसस्तथा ॥ ३,२.५९ ॥
वैराजमुपपद्यन्ते लोकानुत्सृज्य तं गताः ।
ततोऽनेनैव कालेन नित्ययुक्तास्तपस्विनः ॥ ३,२.६० ॥
कथनाच्चैव धर्मस्य तेषां ते जज्ञिरेऽन्वये ।
इहोत्पन्नास्ततस्ते वै स्थानान्यापूरयन्त्युत ॥ ३,२.६१ ॥
देवत्वे च ऋषित्वे च मनुष्यत्वे च सर्वशः ।
एवं देवगणाः सर्वे दशकृत्वो निवर्त्यवै ॥ ३,२.६२ ॥
वैराजेषूपपन्नास्ते दश तिष्ठन्त्युपप्लवान् ।
पूर्णोपूर्णो ततः कल्पेस्थित्वा वैराजके पुनः ॥ ३,२.६३ ॥
ब्रह्मलोके विवर्त्तन्ते पूर्वपूर्वक्रमेण तु ।
एतस्मिन्ब्रह्मलोके तु कल्पे वैराजके गते ॥ ३,२.६४ ॥
वैराजः पुनरव्यक्ते कल्पस्थानमकल्पयत् ।
एवं पूर्वानुपूर्व्येण ब्रह्मलोकगतेन वै ॥ ३,२.६५ ॥
वैराजेषूपपद्यन्ते दशकृत्वो विवर्त्यत ।
एवं देवयुगानीह व्यतीतानि सहस्रशः ॥ ३,२.६६ ॥
निधनं ब्रह्मलोके तु गतानामृषिभिः सह ।
न शक्यमानुपूर्व्येण तेषां वक्तुं प्रविस्तरम् ॥ ३,२.६७ ॥
अनादित्वाच्च कालस्य ह्यसंख्यानाच्च सर्वशः ।
एवमेव न संदेहो यथावत्कथितं मया ॥ ३,२.६८ ॥
तदुपश्रुत्य वाक्यार्थमृषयः संशयान्विताः ।
सूतमाहुः पुराणज्ञं व्यासशिष्यं महामतिम् ॥ ३,२.६९ ॥
ऋषय ऊचुः
वैराजास्ते यदाहारा यत्सत्त्वाश्च यदाश्रयाः ।
तिष्ठन्ति चैव यत्कालं तन्नो ब्रूहि यथातथम् ॥ ३,२.७० ॥
तदुक्तमृषिभिर्वाक्यं श्रुत्वा लोकार्थतत्त्ववित् ।
सूतः पौराणिको वाक्यं विनयेनेदम ब्रवीत् ॥ ३,२.७१ ॥
ततः प्राप्य तु सर्वेशं शुद्धबुद्धिं तमाश्रयत् ।
आभूतसंप्लवास्तत्र दश तिष्ठन्ति तेऽज्वराः ॥ ३,२.७२ ॥
सर्वे सूक्ष्मशरीरास्ते विद्वांसो घनमूर्तयः ।
स्थितलोकस्थितत्वाच्च तेषां भूतं न विद्यते ॥ ३,२.७३ ॥
ऊचुः सनत्कुमाराद्याः सिद्धास्ते योगधर्मिणः ।
एवमेव महाभागाः प्रणवं संप्रविश्य ह ॥ ३,२.७४ ॥
ब्रह्मलोके प्रवर्त्तामस्तन्नः श्रेयो भविष्यते ।
एवमुक्त्वा तदा सर्वे ब्रह्माण्डाध्यवसायि नः ॥ ३,२.७५ ॥
याजयित्वा तदात्मानो वर्त्तन्ते योगधर्मिणः ।
तत्रैव संप्रलीयन्ते शान्ता दीपर्चिषो यथा ॥ ३,२.७६ ॥
ब्रह्मकायमवर्त्तन्त पुन रावृत्तिदुर्लभम् ।
लोकं तं समनुप्राप्य सर्वे ते भावनामयम् ॥ ३,२.७७ ॥
आनन्दं ब्रह्मणः प्राप्य अमृतत्वाय ते गताः ।
वैराजेभ्यस्तथैवोर्द्ध्व मन्तरे षड्गुणे ततः ॥ ३,२.७८ ॥
ब्रह्मलोकः समाख्यातो यत्र ब्रह्मा पुरोहितः ।
ते सर्वे प्रणवात्मानो बुद्धिशुद्धतया स्थिताः ॥ ३,२.७९ ॥
आनन्दं ब्रह्मणः प्राप्य ह्यमृतत्वं भजन्त्युत ।
द्वन्द्वैस्ते नाभिभूयन्ते भावत्रयविवर्जिताः ॥ ३,२.८० ॥
आधिपत्यं विना तुल्या ब्रह्मणस्ते महौजसः ।
प्रभावविजयैश्वर्यस्थितिवैराग्यदर्शनः ॥ ३,२.८१ ॥
ते ब्रह्मलौकिकाः सर्वे गतिं प्राप्यानिवर्त्तिनीम् ।
ब्रह्मणा सहदेवैश्च संप्राप्ते प्रतिसंचरे ॥ ३,२.८२ ॥
तपसोंऽते क्रियात्मानो बुद्धावस्था मनीषिणः ।
अव्यक्ते संप्रलीयन्ते सर्वे ते क्षणदर्शिनः ॥ ३,२.८३ ॥
इत्येतदमृतं शुक्रं नित्यमक्षयव्ययम् ।
देवर्षयो ब्रह्मसत्रं सनातनमुपासते ॥ ३,२.८४ ॥
अपुनर्मारकादीनां तेषां चैवोद्ध्वरेतसाम् ।
कर्माभ्यासकृतां श्रद्धां वेदान्तेषूपलक्ष्यते ॥ ३,२.८५ ॥
तत्र तेऽभ्यासिनो युक्ताः परां काष्ठामुपासते ।
हित्वा शरीरं पाप्मानममृतत्वाय ते गाताः ॥ ३,२.८६ ॥
वीतरागा जितक्रोधा निर्मोहाः सत्यवादिनः ।
शान्ताः प्रणिहितात्मानो दयावन्तो जितेन्द्रियाः ॥ ३,२.८७ ॥
निःसंगाः शुचयश्चैव ब्रह्मसायुज्यगाः स्मृताः ।
अकामयुक्तैर्ये वीरास्तपोभिर्दग्धकिल्बिषाः ॥ ३,२.८८ ॥
तेषांमभ्रंशिनो लोका अप्रमेयसुखाः स्मृताः ।
एतद्ब्रह्मपदं दिव्यं परमे व्योम्नि भास्वरम् ।
यत्र गत्वा न शोचन्ति ह्यमरा ब्रह्मणा सह ॥ ३,२.८९ ॥
ऋषय ऊचुः
कस्मादेषु परार्द्धंश्च कश्चैव पर उच्यते ।
एतद्वेदितुमिच्छामस्तन्नो निगद सत्तम ॥ ३,२.९० ॥
सूत उवाच
शृणुध्वं मे परार्द्धस्य परिसंख्यां परस्यच ॥ ३,२.९१ ॥
एकं दशशतं चैव सहस्रं चैव संख्याया ।
विज्ञेयमासहस्रं तु सहस्राणि दशायुतम् ॥ ३,२.९२ ॥
एकं शतसहस्रं तु नियुतं प्रोच्यते बुधैः ।
तथा शतसहस्राणां दशप्रयुतमुच्यते ॥ ३,२.९३ ॥
तथा दशसहस्राणामयुतं कोटिरुच्यते ।
अर्बुदं दशकोट्यस्तु ह्यब्जं कोटिशतं विदुः ॥ ३,२.९४ ॥
सहस्रमापि कोटीनां खर्वमाहुर्मनीषिणः ।
दशकोटिसहस्राणि निखर्वमिति तं विदुः ॥ ३,२.९५ ॥
शतं कोटि सहस्राणां शङ्कुरित्यभिधीयते ।
सहस्रं तु सहस्राणां कोटीनां पद्ममुच्यते ॥ ३,२.९६ ॥
सहस्राणि सहस्राणां कोटीनां दशधा पुनः ।
गुणितानि समुद्रं वै प्राहुः संख्याविदो जनाः ॥ ३,२.९७ ॥
कोटीसहस्रनियुतमन्त्यमित्यभिधीयते ।
कोटीसहस्रप्रयुतं मध्यमित्यभिसंज्ञितम् ॥ ३,२.९८ ॥
कोटिकोटिसहस्रं तु परार्द्ध इति कीर्त्यते ।
परार्द्धं द्विगुणं चापि परमाहुर्मनीषिणः ॥ ३,२.९९ ॥
शतमाहुः परिवृढं सहस्रं परिपद्मकम् ।
विज्ञेयमयुतं तस्मान्नियुतं प्रयुतं ततः ॥ ३,२.१०० ॥
अर्बुदं न्यर्बुदं चैव खर्बुदं च ततः स्मृतम् ।
खर्वं चैव निखर्वं च शङ्कुः पद्मन्तथैव च ॥ ३,२.१०१ ॥
समुद्रमन्त्यं मध्यं च परार्द्धं च परं ततः ।
एवमष्टादशैतानि स्थानानि गणनाविधौ ॥ ३,२.१०२ ॥
शतादीनि विजानीयात्संज्ञितानि महर्षिभिः ।
कल्पसंख्याप्रवृत्तस्य परार्द्धो ब्रह्ममः स्मृतः ॥ ३,२.१०३ ॥
तावच्छेषोऽपि कालोऽस्य तस्यान्ते प्रतितिष्ठते ।
पर एव परार्द्धश्च संख्यातः संख्याया मया ॥ ३,२.१०४ ॥
यस्मादस्य परं विर्यं परमायुः परं तपः ।
परा शक्तिः परो धर्मः पराविद्या परा धृतिः ॥ ३,२.१०५ ॥
परं ब्रह्म परं ज्ञानं परमैश्वर्यमेव च ।
तस्मात्परतरं भूतं ब्रह्मणो यन्न विद्यते ॥ ३,२.१०६ ॥
परे स्थितो ह्येष परः सर्वार्थेवु ततः परम् ।
संख्यातस्तु परो ब्रह्मा तस्यार्द्धस्य परार्द्धता ॥ ३,२.१०७ ॥
संख्येयं चाप्यसंख्येयं सततं चापि तान्त्रिकम् ।
संख्येयं संख्यया दृष्टमपरार्द्धाद्विभाष्यते ॥ ३,२.१०८ ॥
राशौ दृष्टे न संख्यास्ति तदसंख्यास्तु लक्ष्णम् ।
आनन्त्यं सिकता द्येषु हृष्टं चान्यं त्वलक्षणम् ॥ ३,२.१०९ ॥
ईश्वरैस्तत्प्रसंख्यानं शुद्धत्वाद्दिव्यदृष्टिभिः ।
एवं ज्ञानप्रतिष्ठत्वात्सर्वं ब्रह्मानुपश्यति ॥ ३,२.११० ॥
एतच्छ्रुत्वा तु ते सर्वे नैमिषेयास्तपस्विनः ।
बाष्पपर्याकुलाक्षास्तु प्रहर्षाद्गद्गदस्वराः ॥ ३,२.१११ ॥
पप्रच्छुर्मातारिश्वानं सर्वे ते ब्रह्मवादिनः ।
ब्रह्मलोकस्तु भगवन्यावन्मात्रान्तरे प्रभो ॥ ३,२.११२ ॥
योजनाग्रेण संख्यातः साधनं योजनस्य तु ।
क्रोशस्य च परीमाणं श्रोतुमीच्छाम तत्त्वतः ॥ ३,२.११३ ॥
तेषां तद्वचनं श्रुत्वा मातरिश्वा विनीतवत् ।
उवाच मधुरं वाक्यं यथादृष्टं यथाक्रमम् ॥ ३,२.११४ ॥
वायुरुवाच
एतद्वोऽहं प्रवक्ष्यामि श्रुणुध्वं मे विवक्षितम् ।
अव्यक्ताद्व्यक्तभागो वै महान्स्थूलो विभाष्यते ॥ ३,२.११५ ॥
दशैव महतो भागा भूतादिः स्थूल उच्यते ।
दशभागाधिकं चापि भूतादिपरिमाणकम् ॥ ३,२.११६ ॥
परमाणुः सुसूक्ष्मस्तु भावग्राह्यो न चक्षुषा ।
यदभेद्यतमं लोके विज्ञेयं परमाणुवत् ॥ ३,२.११७ ॥
जालान्तरगते भानैं यत्सूक्ष्मं दृश्यते रजः ।
प्रथमं तत्प्रमाणानां परमाणुं प्रचक्षते ॥ ३,२.११८ ॥
अष्टानां परमाणूनां समावायो यदा भवेत् ।
त्रसरेणुः समाख्यातस्तत्पद्मरज उच्यते ॥ ३,२.११९ ॥
त्रसरेणवोऽथ येऽप्यष्टौ रथरेणुस्तु सस्मृतः ।
तेऽप्यष्टौ समवायस्था बालाग्रं तत्स्मृतं बुधैः ॥ ३,२.१२० ॥
बालाग्राण्यष्टलिक्षा स्याद्यूकालिक्षाष्टकं भवेत् ।
यूकाष्टकं यवप्राहुरङ्गुलं तु यवाष्टकम् ॥ ३,२.१२१ ॥
द्वादशाङ्गुलपर्वाणि वितस्तिस्थानमुच्यते ।
रत्निश्चागुलिपर्वाणि विज्ञेयो ह्येकविंशतिः ॥ ३,२.१२२ ॥
चत्वारो विंशतिश्चैव हस्तः स्यादङ्गुलानि तु ।
किष्कुर्द्विरत्निर्विज्ञेयो द्विचत्वारिंशदङ्गुलः ॥ ३,२.१२३ ॥
षण्णवत्यङ्गुलं चैव धनुराहुर्मनीषिणः ।
एतद्गव्यूतिसंख्यायामादानं धनुषः स्मृतम् ॥ ३,२.१२४ ॥
धनुर्दण्डयुगं नाली तुल्यान्यस्तैस्तथाङ्गुलैः ।
धनुषां त्रिशतं नल्वमाहुः संख्याविदो जनाः ॥ ३,२.१२५ ॥
धनुः सहस्रे द्वे चापि गव्यूतिरुपदिश्यते ।
अष्टौ धनुः सहस्राणि योजनं तु विधीयते ॥ ३,२.१२६ ॥
एतेन धनुषा चैव योजनं तु समाप्यते ।
एतत्सहस्रं विज्ञेयं शक्रकोशान्तरं तथा ॥ ३,२.१२७ ॥
योजनानां च संख्यातं संख्याज्ञानविशारदैः ।
एतेन योजनाग्रेण शृणुध्वं ब्रह्मणोंऽतरे ॥ ३,२.१२८ ॥
महीतलात्सहस्राणां रातादूर्ध्वं दिवाकरः ।
दिवाकरात्सहस्रे तु शते चौर्द्ध्वं निशाकरः ॥ ३,२.१२९ ॥
पूर्णं शतसहस्रं तु योजनानां निशाकरात् ।
नक्षत्रमण्डलं कृत्स्नमुपरिष्टात्प्रकाशत ॥ ३,२.१३० ॥
शतं सहस्रं संख्यातमेतद्द्विगुणितं पुनः ।
ग्रहान्तरमथैकैकमूर्द्ध्वं नक्षत्रमण्डरात् ॥ ३,२.१३१ ॥
ताराग्रहाणां सर्वेषामध्यस्ताच्चरते बुधः ।
तस्योर्द्ध्वं चरते शुक्रस्तस्मादूर्द्ध्वं च लोहितः ॥ ३,२.१३२ ॥
ततो बृहस्पतिश्चोर्द्ध्वं तस्मादूर्द्ध्वं शनैश्चरः ।
उर्द्ध्वं शतसहस्रं तु योजनानां शनैश्चरात् ॥ ३,२.१३३ ॥
सप्तर्षिमण्डलं कृत्स्नमुपरिष्टात्प्रकाशते ।
ऋषिभ्यस्तु सहस्राणां शतादूर्द्ध्वं विभाष्यते ॥ ३,२.१३४ ॥
योऽसौ तारामये दिव्ये विमाने ह्रस्वरूपके ।
उत्तानपादपुत्रोऽसौ मेढीभूतो ध्रुवो दिवि ॥ ३,२.१३५ ॥
त्रैलोक्यस्यैष उत्सेधो व्याख्यातो योजनैर्मया ।
मन्वन्तरेषु देवानामिज्या यत्रैव लौकिकी ॥ ३,२.१३६ ॥
वर्णाश्रमेभ्य इष्टा तु लोकेऽस्मिन्संप्रवर्त्तते ।
सर्वासां देवयोनीनां स्थितिहेतुः स वै स्मृतः ॥ ३,२.१३७ ॥
त्रैलोक्यमेतद्व्याख्यातमत ऊर्द्ध्वं निबोधत ।
ध्रुवादूर्द्ध्वं महर्लोको यस्मिंस्ते कल्पवासिनः ॥ ३,२.१३८ ॥
एकायोजनकोटीशा इत्येवं निश्चयोगतः ।
द्वीकोट्यां तु महर्लोकाज्जनलोको व्यवस्थितः ॥ ३,२.१३९ ॥
यत्र ते ब्रह्मणः पुत्रा दक्षाद्याः साधकाः स्मृताः ॥ ३,२.१४० ॥
वै राजा यत्र ते देवा भूतदाहविवर्जिताः ।
षड्गुणं तु तपोलोकात्सत्यलोकान्तरं स्मृतम् ॥ ३,२.१४१ ॥
अपुनर्मारको नाम ब्रह्मलोकः स उच्यते ।
यस्मिन्न च्यवते भूयो ब्रह्मणं य उपासते ॥ ३,२.१४२ ॥
एककोटिर्योजनानां पञ्चाशन्नियुतानि तु ।
ऊर्द्ध्वभागस्ततोंऽडस्य ब्रह्मलोकात्परः स्मृतः ॥ ३,२.१४३ ॥
चतुर्दशैव कोट्यस्तु नियुतानि च पञ्च षट् ।
स चौर्द्ध्व संप्रचारोऽस्य गत्यन्तश्चपरः स्मृतः ॥ ३,२.१४४ ॥
ध्रुवाग्रमेतद्व्याख्यातं योजनग्राद्यथाश्रुतम् ।
अधोगतीनां वक्ष्यामि भूतानां स्थानकल्पनाम् ॥ ३,२.१४५ ॥
गच्छन्ति घोरकर्माणः प्राणिनो यत्र कर्मभिः ।
नरको रौरवो घोरः शूकरस्ताल एवं च ॥ ३,२.१४६ ॥
तप्तकुम्भो महाज्वालः शबलोऽथ विमोहनः ।
कृमी च कृमिभक्षश्च लालाभक्षो विशंसनः ॥ ३,२.१४७ ॥
अधःशिराः पूयवहो रुधिरान्धुस्तथैवच ।
विष्टाकीर्णश्च नरको मूत्रकीर्ण स्तथैव च ॥ ३,२.१४८ ॥
तथा वैतरणी कृष्णमसिपत्रवनं तथा ।
अग्निज्वालो महाघोरः संदंशोऽथाश्वभोजनः ॥ ३,२.१४९ ॥
तमश्चकृष्णसूत्रश्च लोहश्चाप्यभिजस्तथा ।
अप्रतिष्ठोऽथ वीचिश्च नरका ह्येवमादयः ॥ ३,२.१५० ॥
तामसा नरकाः सर्वे यमस्य विषये स्थिताः ।
येषु दुष्कृतकर्माणः पतन्तीह वृथक्पृथक् ॥ ३,२.१५१ ॥
भूमेरधस्तात्ते सर्वे रौरवाद्यः प्रकीर्त्तिताः ।
रौरवे कूटसाक्षे तुमिथ्या यश्चाभिशसति ॥ ३,२.१५२ ॥
क्रूरग्रह पक्षवादी ह्यसक्तः पतते नरः ।
राधो गोध्रो भ्रूणहा च ह्यग्निदाता पुरस्य च ॥ ३,२.१५३ ॥
शूकरे ब्रह्महा मज्जेत्सुरापः स्वर्णतस्करः ।
ताले पतेत्क्षत्रियहा हत्वा वैश्यं च मज्जति ॥ ३,२.१५४ ॥
ब्रह्महत्या च यः कुर्याद्यश्च स्याद्गुरुतल्पगः ।
सप्तकुम्भेष्वसौ गामी तथा राजभटश्च यः ॥ ३,२.१५५ ॥
संताप्यते वाश्वणिक्तथाच धनरक्षिता ।
साध्वीविक्रयकर्त्ता च यस्तु भक्तं परित्यजेत् ॥ ३,२.१५६ ॥
महाज्वाले दुहितरं स्नुषां गच्छति यस्तु वै ।
वेदं विक्रीणतेये च वेदं वै दूषयन्ति ये ॥ ३,२.१५७ ॥
गुरुंश्चैवावमन्यन्ते वाक्शरैस्ताडयन्ति च ।
अगम्यगामी च नरो नरकं शबलं व्रजेत् ॥ ३,२.१५८ ॥
विमोहे पतते घोरे मर्यादां योभिनत्ति वै ।
दुरिष्टं कुरुते यस्तु कीडलोहं प्रपद्यते ॥ ३,२.१५९ ॥
देवब्राह्मणविद्वेष्टा गुरूणां वाप्यपूजकः ।
रत्नं दूषयते यस्तु कृमिभक्षे प्रपद्यते ॥ ३,२.१६० ॥
पर्यश्नाति य एकोऽन्नं ब्राह्मणान्सुहृदो विना ।
लालाभक्षे स तिष्ठेत्तु दुर्गन्धे नरके गतः ॥ ३,२.१६१ ॥
काण्डकर्त्ता कुलालश्च निष्कहर्ता चिकित्सकः ।
आरामेऽप्यग्निदाता यः पतते स विशंसनि ॥ ३,२.१६२ ॥
असत्प्रतिग्रही यश्च तथैवायाज्ययाजकः ।
नक्षत्रैर्जीवते यश्च नरो गच्छत्यधोमुखम् ॥ ३,२.१६३ ॥
क्षीरं सुरां च लवणं लाक्षां गन्धं रसं तिलानेवमादीनि विक्रीणन्घोरे पूयवहे पतेत् ॥ ३,२.१६४ ॥
यः कुक्कुटान्निबद्नाति मार्जारान्सूकरांस्तथा ।
पक्षिणश्च मृगाञ्छागान्सोऽप्येनं नरकं व्रजेत् ॥ ३,२.१६५ ॥
अजाविको माहिषिकस्तथा चक्रध्वजी च यः ।
रङ्गोपजीवको विप्रः शाकनिर्ग्रामयाजकः ॥ ३,२.१६६ ॥
अगारदाही गरदः कुण्डाशी सोमविक्रयी ।
सुरापो मासभक्षश्च तथा च पशुघातकः ॥ ३,२.१६७ ॥
विशस्ता महिषादीनां मृगहन्ता तथैव च ।
पर्वकारश्च मूची च यश्च स्यान्मित्रघातकः ॥ ३,२.१६८ ॥
रुधिरान्धौ पतन्त्येते ह्येवमाहुर्मनीषिणः ।
उपविष्टं भोक्तुमथ पङ्क्त्यां वै वञ्चयन्ति ये ॥ ३,२.१६९ ॥
पतन्ति नरके घोरे विड्भुजे नात्र संशयः ।
मृषावादी नरो यश्च तथा प्राक्रोशकोऽशुभः ॥ ३,२.१७० ॥
पतते नरके घोरे मूत्राकीर्णे स पापकृत ।
मधुग्राहाभिहन्तारो यान्ति वैतग्णीं नराः ॥ ३,२.१७१ ॥
उन्मत्ताश्चित्तभग्नाश्चशौचाचारविवर्जिताः ।
क्रोधना दुःखदा ये च कुहकाः कृष्णगामिनः ॥ ३,२.१७२ ॥
असिपत्र वनच्छदकृतो ह्योरभ्रिकाश्च ये ।
कर्त्तनषु विकृत्यन्त मृगव्याधः सुदारुणैः ॥ ३,२.१७३ ॥
आश्रम प्रत्यवसिता ह्यग्निज्वाले पतन्ति वै ।
भक्ष्यन्ते श्यामशबलैरयस्तुडश्व वायसैः ॥ ३,२.१७४ ॥
इष्टापूर्तव्रतालोपात्संदंशे नरके पतेत् ।
स्कन्दन्ते ये दिवास्वप्ने व्रतिनो ब्रह्मचारिणः ॥ ३,२.१७५ ॥
पुत्रैरध्यापिता ये च पुत्रैराक्षापिताश्च ये ।
ते सर्व नरकं यान्ति नियतं तु श्वभोजनम् ॥ ३,२.१७६ ॥
वर्णाश्रमविरुद्धा ये क्रोधहर्षसमन्विताः ।
कर्माणि ये तु कुर्वन्ति सर्वे निरयवासिनः ॥ ३,२.१७७ ॥
उपरिष्टात्स्थितो घोर उष्णात्मा रौरवो महान् ।
सुदारुणस्तु शीतात्मा तस्याधस्तात्तपः स्मृतः ॥ ३,२.१७८ ॥
एवमादिक्रमेणैव वर्ण्यमानान्निबोधत ।
भूमेरधस्तात्सप्तैव नरकाः परिकीर्त्तिताः ॥ ३,२.१७९ ॥
अधर्मसूतयस्ते स्युरन्धतामिस्रकादयः ।
रौरवः प्रथमस्तेषां महारौरव एव च ॥ ३,२.१८० ॥
अस्याधः पुनरप्यन्यः शीतस्तप इति स्मृतः ।
तृतीयः कालसूत्रः स्यान्महाहिर्विविधः स्मृतः ॥ ३,२.१८१ ॥
अप्रतिष्ठश्चतुर्थः स्याद वीचिः पञ्चमः स्मृतः ।
लोहः षष्ठः स्मृतस्तेषामविधेयस्तु सप्तमः ॥ ३,२.१८२ ॥
घोरात्वाद्रौरवः प्रोक्तः सोष्णको दहनः स्मृतः ।
सुदारुणस्तु शीतात्मा त्स्याधस्तात्तपोऽधमः ॥ ३,२.१८३ ॥
सवां निकृन्तनः प्रोक्तो कालसूत्रोऽतिदारुणः ।
अप्रतिष्ठे स्थितिर्नास्ति भ्रमस्तस्मिन्सदा स्मृतः ॥ ३,२.१८४ ॥
अवीचिर्दारुणः प्रोक्तो यन्त्रसंपीडनाच्च सः ।
तस्मात्सुदारुणो लोहः कर्मणां श्रयणाच्च सः ॥ ३,२.१८५ ॥
तथाभूतशरीत्वादविधेयस्तु स स्मृतः ।
पीडाबन्धवधासंगादप्रतीकारलक्षणः ॥ ३,२.१८६ ॥
ऊर्द्ध्वाधः संगतास्ते तु निरालोकाश्च ते स्मृताः ।
दुःखोत्कर्षस्तु सर्वेषु ह्यधर्मस्य निमित्ततः ॥ ३,२.१८७ ॥
ऊर्द्ध्वलोकैः समावेतौ निरालोकौ च तावुभौ ।
कूटागारप्र माणैश्च शरीरैस्तत्र नारकाः ॥ ३,२.१८७ ॥
उपभोगसमर्थैस्तु सद्यो जायन्ति कर्मभिः ।
दुःखप्रकर्षश्चोग्रस्तु तेषु सर्वेषु वै स्मृतः ॥ ३,२.१८८ ॥
उपभोगसमर्थैस्तु सद्यो जायन्ति कर्मभिः ।
दुःखप्रकर्षश्चोग्रस्तु तेषु सर्वेषु वै स्मृतः ॥ ३,२.१८९ ॥
यातनाश्चाप्यसंख्येया नारकाणां तथा स्मृताः ।
तत्रानुभूयते दुःखं क्षीणे कर्मणि वै पुनः ॥ ३,२.१९० ॥
तिर्यग्योनौ प्रसूयन्ते कर्मशेषेण तेंऽततः ।
देवांश्च तारकाश्चैव ह्यूर्द्ध्वं चाधश्च संस्थिताः ॥ ३,२.१९१ ॥
धर्माधर्मनिमित्तेन सद्यो जायन्ति मूर्त्तयः ।
उपभोगार्थमुत्पत्तिरौपपत्तिककर्मतः ॥ ३,२.१९२ ॥
पश्यन्ति नारकान्देवा ह्यधोवक्त्रा ह्यघोगतान् ।
नारकांश्च तथा देवान्सर्वान्पश्यं त्यधेमुखान् ॥ ३,२.१९३ ॥
अनयोस्तुल्यता यस्माद्धारमाश्च स्वभावतः ।
तस्मादूर्द्ध्वमधोभावो लोकालोके न विद्यते ॥ ३,२.१९४ ॥
एषा स्वाभाविकी संज्ञा लोकालोके प्रवर्त्तते ।
अथाब्रुवन्पुनर्वायुंब्राह्मणाः सत्रिणस्तदा ॥ ३,२.१९५ ॥
ऋषय ऊचुः
सर्वेषामेव भूतानां लोकालोकनिवासिनाम् ।
संसारे संसरन्तीह यावन्तः प्राणिनश्च ते ॥ ३,२.१९६ ॥
संख्याया परिसंख्याय तान्नः प्रब्रूहि कृत्स्नशः ।
ऋषीणां तद्वचः श्रुत्वा मरुतो वाक्यमब्रवीत् ॥ ३,२.१९७ ॥
वायुरुवाच
न शक्यं दिव्यया दृष्ट्या ज्ञातुं ज्ञानेन वा पुनः ।
चक्षुषा वै प्रसंख्यातुमतो ह्यन्ते न च द्विजाः ॥ ३,२.१९८ ॥
अनाध्यानादमेयत्वान्नैव प्रश्नो विधीयते ।
ब्रह्मणा संज्ञितं यत्तु संख्यया तन्निबोधत ॥ ३,२.१९९ ॥
यः सहस्रतमो भागः स्थावराणां भवेदिह ।
पार्थिवाः कृमयस्तावत्संसेकाद्येषु संभवः ॥ ३,२.२०० ॥
संसेकजानां भागेन सहस्रेणैव संमिताः ।
औदका जन्तवः सर्वे निश्चयात्तन्निधार्यताम् ॥ ३,२.२०१ ॥
सहस्रेणैव भागेन सत्त्वानां सलिलौकसाम् ।
विहङ्गमास्तु विज्ञेया लौकिकास्ते च सर्वशः ॥ ३,२.२०२ ॥
यः सहस्रतमो भागस्तेषां वै पक्षिमां भवेत् ।
पशवस्तत्समा ज्ञेया लौकिकास्तु चतुष्पदाः ॥ ३,२.२०३ ॥
चतुष्पदानां सर्वेषां सहस्रेणैव संमिताः ।
द्विपदास्तत्सहस्रेण संमिता धार्मिकाः पुनः ॥ ३,२.२०४ ॥
सहस्रेणैव भागेन धार्मिकेभ्यो दिवं गताः ।
यः सहस्रतमो भागो धार्मिकाणां भवेद्दिवि ॥ ३,२.२०५ ॥
संमितास्तेन भागेन मोक्षिणस्तावदेव हि ।
स्वर्गोपपादकैस्तुल्या यातनास्थानवासिनः ॥ ३,२.२०६ ॥
पतिताधर्मविद्वेषाद्दुरात्मानो म्रियन्ति ये ।
रौरवे तमसि ह्येते शीतोष्णं प्राप्नुवन्ति ते ॥ ३,२.२०७ ॥
वेदनाः कटुकाः स्तब्धा यातनास्थानमागताः ।
उष्णस्तु रौरवो ज्ञेयस्तेजोघोररसात्मकः ॥ ३,२.२०८ ॥
ततोंऽधनामकश्चापि शीतान्मा सततं तपः ।
एवं सुदुर्लभाः संतः स्वर्गे वा धार्मिका नराः ॥ ३,२.२०९ ॥
एषा संज्ञीकृता संख्या चेश्वरेण स्वयंभुवा ।
गणाना दिनिवृत्तैषा संख्या ब्राह्मी त्वमानुषी ॥ ३,२.२१० ॥
ऋषय ऊचुः
महाञ्जनस्तपः सत्यो भूतो भव्यो भवस्तथा ।
उक्ता ह्येते त्वया लाका लाकानामन्तरण च ॥ ३,२.२११ ॥
लोकान्तरं च यादृक्च तन्नो ब्रूहि यथा तथा ।
तेषां तद्वचन श्रुत्वा ऋषीणामूर्द्ध्वरेतसाम् ।
स वायुर्दृष्टतत्त्वार्थ इदं तत्त्वमुवाच ह ॥ ३,२.२१२ ॥
वायुरुवाच
व्यक्तं तर्केण पश्यन्ति योगात्प्रत्यक्षदर्शिनः ॥ ३,२.२१३ ॥
प्रत्याहारेण ध्यानेन तपसा क्षयमात्मनः ।
ऋभुः सनत्कुमाराद्याः संबुद्धाः शुद्धबुद्धयः ॥ ३,२.२१४ ॥
व्यपेतकोशा विरजाः संतो ब्रह्मैव सत्तमाः ।
अक्षयाः प्रीतिसंयुक्ता ब्राह्मे तिष्ठन्ति योगिनः ॥ ३,२.२१५ ॥
ऋषीणां बालशिल्यानां तैर्यथाकृतमीश्वरैः ।
यथात्रैव सया दृष्टं सांनिध्यं तत्र कुर्वता ॥ ३,२.२१६ ॥
अग्राह्यमकृतार्थानामालयं चेश्वरस्य यत् ।
ईश्वरः परमाणुत्वाद्भावग्राह्यो मनीषिणाम् ॥ ३,२.२१७ ॥
ज्ञानं वैराग्यमैश्वर्यं तपः सत्यं क्षमा धृतिः ।
द्रष्टृत्वमात्मसंबन्धमधिष्टातृत्वमेव च ॥ ३,२.२१८ ॥
अव्ययानि दशैतानि तस्मिस्तिंष्ठन्ति शङ्करे ।
विभुत्वात्खलु योगाढ्यो ब्रह्मणोऽनुग्रहे रतः ॥ ३,२.२१९ ॥
स लोकविग्रहो भूत्वा साहाय्यमुपतिष्ठते ।
अक्षरं ध्रुवमव्यग्रमष्टमं त्वौपसर्गिकम् ॥ ३,२.२२० ॥
तस्येश्वरस्य चिन्मात्रं स्थानं मायामयं परम् ।
मायया कृतमाचष्टे मायी देवो महेश्वरः ॥ ३,२.२२१ ॥
देवानामुपसंहारस्तत्प्रमाणं हि कीर्त्यते ।
विस्तरेणानुपूर्व्या च ब्रुवतो मे निबोधत ॥ ३,२.२२२ ॥
त्रयोदशैव कोट्यस्तु नियुतानि दशेषवः ।
भूलोकाद्ब्रह्मलोको वै योजनैः संप्रकीर्त्यते ॥ ३,२.२२३ ॥
एका योजनकोटी तु पञ्चाशन्नियुतानि च ।
ऊर्द्ध्व भागवतोऽडं तु ब्रह्मलोकात्परं स्मृतम् ॥ ३,२.२२४ ॥
एषोर्द्ध्वगः प्रचारस्तु गत्यन्तश्च ततः स्मृतः ।
नित्या ह्यपरिसंक्षाताः परस्परगुणाश्रयात् ॥ ३,२.२२५ ॥
सूक्ष्माः प्रसवधर्मिण्यस्ततः प्रकृतयः स्मृताः ।
येभ्योऽधिकर्त्ता संजज्ञे क्षेत्रज्ञो ब्रह्मसंज्ञितः ॥ ३,२.२२६ ॥
तासु प्रकृतिमत्सूक्ष्ममधिष्ठातृत्वमव्ययम् ।
अनुत्पाद्यं परं धाम परमाणु परेशयम् ॥ ३,२.२२७ ॥
अक्षयश्चाप्यनूह्यश्च त्वमूर्त्तिर्मूर्त्तिमानसौ ।
प्रादुर्भावस्तिरोभावः स्थितिश्चैवाप्यनुग्रहः ॥ ३,२.२२८ ॥
विधिरन्यैरनौपम्यः परमाणुमहेश्वरः ।
सतेजा एष तमसो यः पुरस्तात्प्रकाशकः ॥ ३,२.२२९ ॥
यदण्डमासीत्सौवर्मं प्रथमं त्वौपसर्गिकम् ।
बृहत्तु सर्वतो वृत्तमीश्वरात्तद्व्यजायते ॥ ३,२.२३० ॥
ईश्वराद्बीजनिर्भेदः क्षेत्रज्ञो बीजमिष्यते ।
योनिं प्रकृति माचष्टे सा च नारायणात्मिका ॥ ३,२.२३१ ॥
विभुर्लोकस्य सृष्ट्यर्थं लोकसंस्थानमेव च ।
सन्निसर्गः सतत्त्वाच्च लोकधातुर्महात्मनः ॥ ३,२.२३२ ॥
पुरस्ताद्ब्रह्मलोकस्य ह्यण्डादर्वाक्च ब्रह्मणः ।
त्योर्मध्ये पुरं दिव्यं मन मयमनामयम् ॥ ३,२.२३३ ॥
तद्विग्रहवतः स्थानमीश्वरस्यामितौजसः ।
शिवं नाम पुरं तत्र शरणं जन्मभीरुणाम् ॥ ३,२.२३४ ॥
सहस्राणां शतं पूर्वं योजनानां द्विजोत्तमाः ।
अभ्यन्तरं तु विस्तीर्णं महीमण्डलसंस्थितम् ॥ ३,२.२३५ ॥
मध्याह्नार्कप्रकाशेन परतेजोऽभिमर्दिना ।
शात कैंभेन महता प्राकारेणार्कवर्चसा ॥ ३,२.२३६ ॥
द्वारैश्चतुर्भिः सौवर्णैर्मुक्तादामविभूषितैः ।
तपनीयनिभैः शुभ्रैर्गाढं सुकृतवेष्टनम् ॥ ३,२.२३७ ॥
तच्चाकाशे पुरं रम्यं दिव्यं घण्टादिनादितम् ।
रम्ये पुरवरश्रेष्ठे तस्मिन्वैहायभूमिषु ॥ ३,२.२३८ ॥
नानारत्नविचित्रेषु पताकाबहुलेषु च ।
सर्वकामसमृद्धेषु वनोपवनशोभिषु ॥ ३,२.२३९ ॥
राजतेषु गृहान्तेषु शातकैंभमयेषु च ।
संध्याभ्रसन्निकाशेषु कैलासप्रतिमेषु च ॥ ३,२.२४० ॥
हृष्टैः शब्दादिभिर्भोगैर्ये भविष्यानुसारिणः ।
प्रासादवरपृष्ठेषु तेषु मोदन्ति सुव्रताः ॥ ३,२.२४१ ॥
ब्रह्मघोषैरविरताः कथाश्च विविधाः शुभाः ।
गीतवादित्रघोषाश्च संस्रवाश्च समन्ततः ॥ ३,२.२४२ ॥
संहताश्चैवमतुला जनाश्रयकृतस्तथा ।
एवमादीनि वर्तन्ते तेषां प्रासादमूर्द्धनि ॥ ३,२.२४३ ॥
सहस्रपादः प्रासादस्तपनीयमयः शुभः ।
अनौपम्यैर्वरै रत्नैः सर्वतः संविभूषितः ॥ ३,२.२४४ ॥
स्फाटिकैश्चन्द्रसंकाशैर्वैडूर्यमणिसप्रभैः ।
बालसुर्यमयैश्चापि सौवर्णैश्चाग्निसप्रभैः ॥ ३,२.२४५ ॥
चुक्रुशुर्मुनयः श्रुत्वा नैमिषेयास्तपस्विनः ।
आपन्नसंशयाश्चेमं वाक्यमूचुः समीरणम् ॥ ३,२.२४६ ॥
ऋषय ऊचुः
के तु तत्र महात्मानो ये भवस्यानुसारिणः ।
अनुग्राह्यतमाः सम्यक्प्रमोदन्ते पुरोत्तमे ॥ ३,२.२४७ ॥
ऋषीणां वचनं श्रुत्वा वायुर्वाक्यमुदैरयत् ।
वायुरुवाच
श्रूयतां देवदेवस्य भक्तिर्यैरनुकल्पिता ॥ ३,२.२४८ ॥
ह्रीमन्तस्फूर्जिता दान्ताः शौर्ययुक्ता ह्यलोलुपाः ।
कर्मणा मनसा वाचा विशुद्धेनान्तरात्मना ॥ ३,२.२४९ ॥
अनन्यमनसो भूत्वा प्रपन्ना ये महेश्वरम् ।
तैर्लब्धं रुद्रसालोक्यं शाश्वतं पदमव्ययम् ॥ ३,२.२५० ॥
भवस्य रूपसादृश्यं गताश्चैव ह्यनुत्तमम् ।
वैश्वानारमुखाः सर्वे विश्वरूपाः कपर्दिनः ॥ ३,२.२५१ ॥
नीलकण्ठाः शितग्रीवास्तीक्ष्णदंष्टास्त्रिलोचनाः ।
अर्द्धचन्द्रकृतोष्णीषा जटामुकुट धारिणः ॥ ३,२.२५२ ॥
सर्वे दशभुजा वीराः पद्मान्तरसुगन्धिनः ।
तरुणादित्यसंकाशाः सर्वे ते पीतवाससः ॥ ३,२.२५३ ॥
पिनाकपाणयः सर्वेश्वेत गोवृषवाहनाः ।
श्रियान्विताः कुण्डलिनो मुक्ताहारविभूषिताः ॥ ३,२.२५४ ॥
तेजसाभ्यधिकैर्दहैः सर्वज्ञाः सर्वदर्शिनः ।
विभज्य बहुधात्मानं जरामृत्युविवर्जिताः ॥ ३,२.२५५ ॥
क्रीडन्ते विविधैर्भावैर्भोगान्प्राप्य सुदुर्लभान् ।
स्वच्छन्दगतयः सिद्धाः सिद्धैश्चन्यैर्विबोधिताः ॥ ३,२.२५६ ॥
एकादशानां रुद्राणां कोट्यो नैका महात्मनाम् ।
एभिः सह महात्मा वै देवदेवो महेश्वरः ॥ ३,२.२५७ ॥
भक्तानुकंपी भगवान्मोदते पार्वतीप्रियः ।
नाहं तेषां तु रुद्राणां भवस्य च महात्मनः ॥ ३,२.२५८ ॥
नानात्वमनुपश्यामि सत्यमेतद्ब्रवीमि वः ।
मातारिश्वाब्रवीत्पुण्यमित्येतामीश्वराच्छ्रुताम् ॥ ३,२.२५९ ॥
अथ ते ऋषयः सर्वे दिवाकरसमप्रभाः ।
श्रुत्वेमां परमां पुण्यां कथां त्रैयंबकीन्ततः ॥ ३,२.२६० ॥
भृशं चानुग्रहं प्राप्य हर्षं चैवाप्यनुत्तमम् ।
संभाजयित्वा चाप्येनं वायुमूचुर्महाबलम् ॥ ३,२.२६१ ॥
ऋषय ऊचुः
समीरण महाभाग त्वस्माकं च त्वया विभो ।
ईश्वरस्योत्तमं पुण्यमष्टमं त्वौपसार्गिकम् ॥ ३,२.२६२ ॥
तस्य स्थानं प्रमाणं च चथावत्परिकीर्तितम् ।
योगधर्मसमृद्धं वै परमं परमात्मनः ॥ ३,२.२६३ ॥
महादेवस्य माहात्म्यं दुर्विज्ञेयं सुरैरपि ।
स्वेन माहात्म्ययोगेन सहस्रस्यामितौजसः ॥ ३,२.२६४ ॥
यस्य भक्तंषु संमोहो ह्यनुकंपार्थमेव च ।
ब्राह्मी लक्ष्म्या स्वयं जुष्टा या साप्रतिमशालिनी ॥ ३,२.२६५ ॥
व्याप्यज्योत्स्नेव चन्द्रस्य विन्यस्ता विश्वरूपिणः ।
विभूतिर्भ्राजतेऽत्यर्थं देवदेवस्य वेश्मनि ॥ ३,२.२६६ ॥
महादेवस्य तुल्यानां रुद्राणां तु महात्मनाम् ।
तत्सर्वं निखिलेनेदं वक्त्रादमृतनिस्रवः ॥ ३,२.२६७ ॥
आपीतं खलु शर्वस्य भक्त्यास्माभिस्तु सुव्रत ।
नास्ति किञ्चिदविज्ञेय मन्यच्चैवानुगामिनः ।
प्रश्नं देववरप्राण यथावद्वक्तुमर्हसि ॥ ३,२.२६८ ॥
सूत उवाच
स खलूवाच भगवान्किं भूयो वर्त्तयाम्यहम् ।
यन्मया चैव वक्तव्यं तद्वदिष्यामि सुव्रताः ॥ ३,२.२६९ ॥
ऋषय ऊचुः
आदित्याः परिपार्श्वे ये सिंहा वै क्रोधविक्रमाः ।
वैश्वानरा भूतगण व्याघ्रास्चैवानुगामिनः ॥ ३,२.२७० ॥
आभुतसंप्लवे घोरे सर्वप्राणिभृतां क्षये ।
किमावस्था भवन्त्येते तन्नो ब्रूहि यथार्थवत् ॥ ३,२.२७१ ॥
विज्ञायेश्वरसद्भावमव्यक्तं प्रभवं तथा ।
वायुरुवाच
यत्र पूर्वं गतास्ते तु कुमारा ब्रह्मणः सुताः ॥ ३,२.२७२ ॥
सनन्दनश्च सनकस्तृतीयश्च सनातनः ।
वोढुश्च कपिलस्तेषामासुरिश्च महायशाः ॥ ३,२.२७३ ॥
मुनिः पञ्जशिखश्चैव ये चान्येऽप्येवमादयः ।
ततः काले व्यतिक्रान्ते कल्पानां पर्यये गते ॥ ३,२.२७४ ॥
महाभूतविनाशान्ते प्रलये प्रत्युपस्थिते ।
अनेकरुद्रकोट्यस्तु या प्रसन्ना महेश्वरीम् ॥ ३,२.२७५ ॥
शब्दादीन्विषयान्भोगान्संत्यज्याष्टविधाश्रयात् ।
प्रविश्य सर्वभूतानि ज्ञानयुक्तेन तेजसा ॥ ३,२.२७६ ॥
विहाय पदमव्यग्रं भूतानाम नुकंपया ।
तत्र यान्ति महात्मानः परमाणुं महेश्वरम् ॥ ३,२.२७७ ॥
तरन्ति सुमहावर्त्तां जन्ममृत्यूदकां नदीम् ।
ततः पश्यन्त्यपर्वाणं परं ब्रह्माणामेव च ॥ ३,२.२७८ ॥
देव्या वै सहिताः सप्त या देव्यः परिकीर्त्तिताः ।
यत्तत्सहस्रं सिंहानामादित्यानां तथैव च ॥ ३,२.२७९ ॥
वैश्वानरा भूतगणा व्याघ्राश्चैवानुगामिनः ।
आवेश्यात्मनि तान्सर्वान् संख्यायोग्यभवांस्तथा ॥ ३,२.२८० ॥
लोकान्सप्त इमान्भूयो महाभूतानि पञ्च च ।
विष्णुना सह संयुक्तः करोति विकरोति च ॥ ३,२.२८१ ॥
स रुद्रो यः साममयस्तथैव च यजुर्मयः ।
स एष ओतः प्रोतश्च बहिरन्तश्च निश्चयात् ॥ ३,२.२८२ ॥
एको हि भगवान्नाथः प्रभवश्चान्तकृद्द्विजाः ।
ततस्ते ऋषयः सर्वे दिवाकरसमप्रभाः ॥ ३,२.२८३ ॥
सुसत्यं श्रवसः सम्यगारोप्याग्निं तथात्मनि ।
कर्मणा मनसा वाचा विशुद्धेनान्तरात्मना ॥ ३,२.२८४ ॥
अनन्यमनसो भूत्वा प्रपद्यन्ते महेश्वरम् ।
व्रतोपवासनिरताः सर्वभूतदयापराः ॥ ३,२.२८५ ॥
योगं त्वनुयमं दिव्यं प्राप्तन्तैश्छिन्नसंशयैः ।
प्रपद्य परया भक्त्याज्ञानयुक्तेन तेजसा ॥ ३,२.२८६ ॥
तैर्लब्धं रुद्रसालोक्यं शाश्वतं पदमव्ययम् ।
यः पठेत्तपसा युक्तो वायुप्रोक्तामिमां श्रुतिम् ॥ ३,२.२८७ ॥
ब्राह्मणः क्षत्रियो वापिवैश्यो वा स्वक्रियापरः ।
लभते रुद्रलोकं वै कारणं लोककारणम् ॥ ३,२.२८८ ॥
विनिवृत्ते तदा सर्गे प्रकृत्या वस्थितेन वै ।
तदात्यन्तपरोक्षत्वाददृष्टत्वाच्च कस्यचित् ॥ ३,२.२८९ ॥
अनाख्यानादबोध्यत्वादज्ञानाज्ज्ञानिनामपि ।
आगतागतिकत्वाच्च ग्रहणं तन्न विद्यते ॥ ३,२.२९० ॥
भावग्राह्यानुमानाच्च चिन्तयित्वेदमुच्यते ।
स्थिते तु कारणे तस्मिन्नित्ये सदसदात्मके ॥ ३,२.२९१ ॥
अनिर्देश्ये प्रवृत्तिर्वै स्वात्मिकाकारणेन तु ।
एवं सप्तद्विरभ्यस्ताः क्रमात्प्रकृतयस्तु वै ॥ ३,२.२९२ ॥
प्रत्याहारे तदा सर्गे प्रविशन्ति परस्परम् ।
येनेदमावृतं सर्वमण्डमप्सु प्रलीयते ॥ ३,२.२९३ ॥
सप्तद्वीपसमुद्रान्तं सप्तलोकं सपर्वतम् ।
उदकावरणं यच्च ज्योतिष्यालीयते तु यत् ॥ ३,२.२९४ ॥
यत्तेजसं चावरणं मारुतो ग्रसते नु यत् ।
यद्वायव्यं चावरणमाकाशग्रसते तु तत् ॥ ३,२.२९५ ॥
आकाशावरणं यच्च भूतादिर्ग्रसते तु तत् ।
भूतादिं ग्रसते चापि महान्वै बुद्धिलक्षमः ॥ ३,२.२९६ ॥
महान्तं ग्रसतेऽव्यक्तं गुणसाम्यं ततः परम् ।
एतौ संहारविस्तारौ ब्रह्मा व्यक्तौ ततः पुनः ॥ ३,२.२९७ ॥
सृजते ग्रसते चैव विकारात्सर्गसंयमे ।
संसिद्धकार्यकरणाः संसिद्धा ज्ञानिनस्तु ये ॥ ३,२.२९८ ॥
गत्वा जवं जवीभावे स्थाने स्वेषु प्रसंयमात् ।
प्रत्याहारेऽधियुज्यन्ते क्षेत्रज्ञाः करणैः पुनः ॥ ३,२.२९९ ॥
अव्यक्तं क्षेत्रमित्याहुर्ब्रह्मा क्षेत्रज्ञ उच्यते ।
साधर्म्यवैधर्म्यकृतः संयोगो नादिमास्तयोः ॥ ३,२.३०० ॥
एवं सर्गेषु विज्ञेयः क्षेत्रज्ञेष्विह ब्राह्मणाः ।
ब्रह्मविच्चैव विज्ञेयः क्षेत्रज्ञानात्पृथक् ॥ ३,२.३०१ ॥
विषयाविषयत्वं च क्षेत्रक्षेत्रज्ञयोः स्मृतम् ।
ब्रह्मा त्वविषयो ज्ञेयो विषयः क्षेत्रमुच्यते ॥ ३,२.३०२ ॥
क्षेत्रज्ञाधिष्ठितं क्षेत्रं क्षेत्रज्ञार्थं प्रचक्षते ।
बहुत्वाच्च शरीराणां शरीरी बहुधा स्मृतः ॥ ३,२.३०३ ॥
अव्यूहाशङ्कराच्चैव ज्योतिर्यच्च व्यवस्थितम् ।
यस्मात्प्रतिशरीरं हि सुखदुःखो पलब्धिता ॥ ३,२.३०४ ॥
तस्मात्पुरुषनानात्वं विज्ञेयं तु विजानता ।
यदा प्रवर्त्तते चैषां भेदानां चैव संयमः ॥ ३,२.३०५ ॥
स्वभावकारिताः सर्वे कालेन महता तदा ।
निवर्त्तन्ते तदा तस्मिन्स्थितरागाः स्वयंभुवः ॥ ३,२.३०६ ॥
सह सायुज्यकैः सर्वैर्ब्रह्मलोकनिवासिभिः ।
विनिवृत्तेस्तदा तेषां स्थितेरात्मनिवासिनाम् ॥ ३,२.३०७ ॥
तत्कालवासिनां तेषां तत्र वै दोषदर्शिनाम् ।
उत्पद्यतेऽथ वैराग्यमात्मवाद प्रणाशनम् ॥ ३,२.३०८ ॥
भोज्यभोक्तृत्वनानात्वैस्तेषां तद्भावदर्शिनाम् ।
पृथग्ज्ञानेन क्षेत्रज्ञास्ततस्ते ब्रह्मलौकिकाः ॥ ३,२.३०९ ॥
प्रकृतौ कारणातीताः सर्वे नानाप्रदर्शिनः ।
स्वात्मन्येवावतिष्ठन्ते प्रशान्तादर्शनात्मकाः ॥ ३,२.३१० ॥
शुद्धा निरञ्जनाः सर्वे चेतनाचेतनास्तथा ।
तत्रैव परिनिर्वाणाः स्मृतानागामिनस्तु ते ॥ ३,२.३११ ॥
निर्गुणत्वाग्निरात्मानः प्रकृत्यन्ते व्यतिक्रमात् ।
इत्येवं प्राकृतः प्रोक्तः प्रतिसर्गः स्वयंभुवा ॥ ३,२.३१२ ॥
वर्णाश्रमाचारयुतः प्रतिसर्गं शृणोति यः ।
स व्रजेच्छिवसालोक्यं भक्तिमान्विगतज्वरः ॥ ३,२.३१३ ॥
अमद्यपश्च य शूद्रो भवभक्तो जितेद्रियः ।
आभूतसंप्लवस्थायी अप्रतीघातलक्षणः ॥ ३,२.३१४ ॥
गाणपत्यं स लभते स्थानं वा सार्वकालिकम् ।
मद्यपो मद्यपैः सार्द्धं भूतसंघैश्च मोदते ॥ ३,२.३१५ ॥
सेव्यमानो महीपृष्ठे मर्त्यानां वरदो भवः ।
इति होवाच भगवान्वायुर्वाक्यमिदवरम् ॥ ३,२.३१६ ॥
इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते उत्तरभागे चतुर्थ उपसंहारपादे शिवपुरवर्णनं नाम द्वितीयोऽध्यायः