भाषावृत्तिः/पञ्चमोऽध्यायः/चतुर्थः पादः

← तृतीयः पादः भाषावृत्तिः
पञ्चमोऽध्यायः
पुरुषोत्तमदेव

-5-4-1- पादशतस्य संख्यादेर्वीप्सायां वुन् लोपश्च ।।
पादशतशब्दान्तस्य संख्यादेर्वीप्साया द्योतको वुन् स्याद्, अन्त्यलोपश्च। द्वौ द्वौ पादौ ददाति। तद्धितार्थे समासः--द्विपादिकां ददाति। द्विशतिकां ददाति। त्रिशतिकां दण्डितः।
अन्यतोऽपीष्यते-द्विमोदकिकां ददाति।
-5-4-2- दण्डव्यवसर्गयोश्च ।।
अनयोश्च तथा स्यात्। अवीप्सार्थमिदं वचनम्। द्वौ पादौ दण्डितो व्यवसृजति वा द्विपदिकां दण्डितः, व्यवसृजति वा। त्रिशतिकां दण्डितः, व्यवसृजति वा। व्यवसर्गः--दानम्।
-5-4-3- स्थूलादिभ्यः प्रकारवचने कन् ।।
स्थूलादेः प्रकारोक्तौ कन् स्यात्। जातीयरो बाधा। स्थूलप्रकारः स्थूलकः। यवकः। अणुकः।
चञ्चद्बृहतोश्च । चञ्चत्प्रकारश्चञ्चता गत्वरेण सदृशश्च चञ्चत्कः। बृहत्को मणिः।
-5-4-4- अनत्यन्तगतौ क्तात् ।।
अत्रार्थे क्तान्तात् कन् स्यात्। नात्यन्तं भिन्नं भिन्नकम्। छिन्नकम्।
-5-4-5- न सामिवचने ।।
अर्धवाचिन्युपपदे क्तान्तात् कन् न स्यात्। सामिकृतम् सामिभुक्तम्। अर्धपीतम्। अर्धभुक्तम्। नेमकृतम्। खण्डकृतम्। नेमभिन्नम्।
प्रतिषेधोऽयं स्वार्थिकस्य कनः। तस्य चास्तित्वे लिङ्गमिदमेव। तेन बहुतरकमित्यादि सिध्यतीति जयादित्यः।
-5-4-6- बृहत्या आच्छादने ।।
अस्यात्र कन् स्यात्। बृहतिका वस्त्रम्।
-5-4-7- अषडक्षाशितङ्गवलङ्कर्मालम्पुरुषाध्युत्तरपदात् खः ।।
एभ्यः स्वार्थे खः स्यात्। नित्यश्चायम्।
एवमन्येऽपि नित्या भाष्ये परिगणिताः। यदुक्तम्-नित्यप्रत्ययास्तमबादयः प्राक् कनः, ञ्ञ्यादयः प्राग्वुनः, आमादयः प्राङ् मयटः, बृहती जात्यन्ताः। समासान्ताश्च इति।
अषडक्षीणं यद् द्वाभ्यां कुतम्। आशितङ्गवीनमरण्यम्, यत्राशिता गावः। निपातनान्मकारः। अलङ्कर्मीणः पाणिः। अलम्पुरुषीणः। अलं पुरुषाय। तस्मै शक्त इत्यर्थः।
अध्युत्तरपदात् गुरुष्वधि गुर्वधीनः। दैवाधीनः। राजाधीनः।
इनमधिगतोऽधीन इत्यायत्तपर्यायोऽप्यस्ति। तस्यायं श्लोकवार्त्तिके प्रयोगः--वाक्यं वक्तर्यधीनं हि (1-1-57- वा-) इति।
-5-4-8- विभाषाञ्ञ्चेरदिक्स्त्रियाम् ।।
अञ्चत्यन्तात् खो वा स्यात्। प्राक्, प्राचीनम्। तिर्यक्, तिरश्चीनम्। प्रत्यक्, प्रतीचीनम्।
अदिक्स्त्रियां किम् ? प्राची दिक्। दिग्ग्रहणं किम् ? प्राचीना ब्राह्मणी।
-5-4-9- जात्यन्ताच्छ बन्धुनि ।।
बन्धुनि द्रव्ये जात्यन्ताच्छः स्यात्। ब्राह्मणजातीयः। तज्जातीयः।
बन्धुनि किम् ? ब्राह्मणजातिरदुष्टा।
-5-4-10- स्थानान्ताद्विभाषा सस्थानेनेति चेत् ।।
स्थानान्ताच्छो वा स्यात् स स्थानेनेति चेत् स्थानान्तस्यार्थो गम्यते। समानं स्थानमस्य सस्थानः तुल्यः, पितृस्थानः, पितृः स्थानीयो वा। राजस्थानः, राजस्थानीयो वा। तत्तुल्य इत्यर्थः।
-5-4-11- किमेत्तिङव्ययघादाम्वद्रव्यप्रकर्षे ।।
किम एदन्तात् तिङोऽव्ययाच्च यो घसंज्ञकस्तदन्तादामुः स्यात्। किन्तराम्। किन्तमाम्। क्रियाया गुणस्य वा प्रकर्षे घः। पूर्वाह्णेतराम्। पूर्वाह्णेतमाम्। अत्राधारशक्तेः प्रकर्षः। यातितराम्। वक्तितराम्। पततितराम्।
पततितमाम्। गच्छतितमाम्। प्रातस्तराम्। नतराम्।
नितराम्। सुतराम्। उच्चैस्तराम्।
द्रव्य प्रकर्षे निषेधः--उच्चैस्तरः कश्चित्।
-5-4-12- अमु च च्छन्दसि ।।
छन्दः सूत्रमेकम्।
-5-4-13- अनुगादिनष्ठक् ।।
अस्माट् ठक् स्यात्। अनुगाद्येवानुगादिकः।
-5-4-14- णचः स्त्रियामञ्ञ् ।।
स्त्रियां स्वार्थे णजन्तादञ्ञ् स्यात्। व्याक्रोशी। व्यावहासी। व्यावलेखी।
अग्नीध्रसाधारणाभ्यामञ्ञ् वक्तवयः । विभाषा च ङीप्। आग्नीघ्री, आग्नीध्रा वा। साधारणी, साधारणा वा भूमिः।
-5-4-15- अणिनुणः ।।
इनुण्णन्तादण् स्यात्। सांकूटिनम्। सांराविणम्।
-5-4-16- विसारिणो मत्स्ये ।।
विसारिणोऽण् स्यात्। वैसारिणो मत्स्यः।
मत्स्यादन्यत्र-विसारी।
-5-4-17- संख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच् ।।
क्रियाणामावृत्तेर्गणिकायाः संख्यायाः कृत्वसुच् स्यात्। पञ्च वारान् पञ्चकृत्वो भुङ्क्ते। शतकृत्वः प्रोक्तवान् दिवमस्य। सहस्रकृत्वः।
-5-4-18- द्वित्रिचतुर्भ्यः सुच्।।
एभ्यस्तथैव सुच् स्यात्। द्विरधीते। त्रिः प्रदक्षिणीकृत्य। त्रिः प्रदक्षिणं कुरुते। चतुर्भुङ्क्ते।
-5-4-19- एकस्य सकृच्च ।।
एकस्य सुच् स्यात्, सकृच्चादेशः। संयोगान्तलोपः, सकृद् ददाति।
-5-4-20- विभाषा बहोर्धाऽविप्रकृष्टकाले ।।
बहोः कृत्वसुज्विषये धा वा स्यात्। बहुधाह्नो भुङ्क्ते।
पक्षे--बहुकृत्वः।
अविप्रकृष्टकाले किम् ? बहुकृत्वो मासस्य भुङ्क्ते।
-5-4-21- तत्प्रकृतवचने मयट् ।।
स चासौ प्रकृतश्चेति तत्प्रकृतः। तद्वचने मयट् स्यात्। अन्नं प्रकृतं प्रस्तुतम् अन्नमयमिह। घृतमयमिह।
अपर आह--अन्नं प्रकृतमस्मिन् अन्नमयो यज्ञः। अपूपमयं पर्व।
-5-4-22- समूहवच्च बहुषु ।।
बहुषु प्रकृतेषूच्यमानेषु समूहवत् प्रत्ययाः स्युः। अपूपाः प्रकृता आपूपिकम्।
इह च--आपूपिकं पर्व।
चकारान्मयट् च--अपूपमयम्। अपूपमयी पात्री। वटकमयी।
-5-4-23- अनन्तावसथेतिहभेशजाञ्ञ्ञ्ञ्यः ।।
एभ्यः स्वार्थे ञ्ञ्यः स्यात्। आनन्त्यम्। आवसथ्यम्। ऐतिह्यम्। भैषज्यम्।
महाविभाषेह सम्बध्यते; आमादयः प्राङ् मयटः इति स्मृतेः।
-5-4-24- देवतान्तात् तार्दथ्ये यत् ।।
स्यात्। तस्मै इदम् तदर्थम्, तदर्थमेव तार्दथ्यम्। चातुर्र्वण्यादिः। अग्निदेवत्यम्। पितृदेवत्यम्।
-5-4-25- पादार्घाभ्याञ्च ।।
आभ्यां तार्दथ्ये यत् स्यात्। पाद्यं जलम्। अर्घ्यं पुष्यम्।
-5-4-26- अतिथेर्ञ्ञ्यः ।।
अतिथ्यर्थमातिथ्यं नीवारादि।
नवसूरमर्तयविष्ठेभ्यः स्वार्थे यत् । नव्यम्। सूर्यः। र्मत्यः। यविष्ठ्यः।
क्षेमाद् यः । क्षेम्यम्।
नवस्य नूशब्दादेशस्त्नप्-तनप्-खाश्च प्रत्ययाः । नूत्नम्। नूतनम्।
नवीनम्।
नश्च पुराणार्थात् प्रात्। । प्रणम्। त्नबादयश्च--प्रत्नम्। प्रतनम्। प्रीणम्।
भागरूपनामभ्यो धेयः । एभ्यो धेयः स्यात्। रूपधेयम्। भागधेयम्। नामधेयम्।
-5-4-27- देवात् तल् ।।
स्वार्थे स्यात्। देव एव देवता।
-5-4-28- अवेः कः ।।
स्यात्। अविकः।
-5-4-29- यावादिभ्यः कन् ।।
एभ्यः स्वार्थे कन् स्यात्। यावकः। मणिकः। नान्तरीयकः। श्रेयस्कः। कन्दुकः।
पुत्रात् कृत्रिमे । (ग0 सू0) पूत्रकः।
स्नाताद् वेदसमाप्तौ । (ग0 सू0) स्नातकः।
-5-4-30- लोहितान् मणौ ।।
मणावर्थे लोहितात् कन् स्यात्। लोहितको मणिः। लोहितकनिर्मिता भुवः।
मणौ किम् ? लोहितः पर्वतः। लोहिता गौः।
-5-4-31- वर्णे चानित्ये ।
अस्थिरे वर्णे लोहितात् कन् स्यात्। लोहितकः कोपेन।
अनित्ये किम् ? लोहिता गौः।
लोहिताल्लिङ्गबाधनं वेति वक्तव्यम् । लोहितिका, लोहिनिका वा मदेन।
-5-4-32- रक्ते ।।
लाक्षादिना रक्ते लोहितात् कन् स्यात्। लोहितकः कम्बलः।
-5-4-33- कालाच्च ।।
अनित्ये वर्णे रक्ते च कालात् कन् स्यात्। कालकं मुखं वैलक्ष्येण। कालकः पटः।
-5-4-34- विनयादिभ्यष्ठक् ।।
एभ्यष्ठक् स्यात्। विनयो वैनयिकः। समयः सामयिकः। उपचार औपचारिकः। अत्ययः आत्ययिकः। अशिश्रियन् नात्ययिकं तमेत्य। अकस्मादिति दकारन्तः। आकस्मिकम्। मुक्ता मौक्तिकम्।
एवं व्यवहारः, समूहः, विशेषः।
उपायाद् ह्रस्वश्च । (ग0 सू0) शिवमौपयिकं गरीयसाम्।
-5-4-35- वाचो व्याहृतार्थायाम् ।।
उक्तार्थाया वाचष्ठक् स्यात्। वाचिकं सन्देशवाक्।
-5-4-36- तद्युक्तात् कर्मणोऽण् ।।
उक्तार्थवाग्युक्तात् कर्मणोऽण् स्यात्। सन्देशवाचा प्रतिपादितं कर्म कार्मणम्।
-5-4-37- ओषधेरजातौ ।।
ओषधेरण् स्यात्। औषधं पिबति।
अजातौ किम् ? भवन्ति यत्र ओषधयो रजन्याम्। ज्वलयत ओषधिजेन कृशानुना।
-5-4-38- प्रज्ञादिभ्यश्च ।।
अण् स्यात्। प्रज्ञ एव प्राज्ञः। प्राज्ञी स्त्री। वणिगेव वाणिजः। मरुदेव मारुतः। चोरं एव चौरः। चौरी स्त्री। रक्षो राक्षसः। देवता दैवतम्। मनः मानसम्। शत्रुः शात्रवः। पिशाचः पैशाचम्। वयो वायसः। बन्धुः बान्धवः। विकृतं वैकृतम्। द्विता द्वैतम्। प्रतिभा प्रातिभम्। चण्डालः चाण्डालः। आकृतिगणोऽयम्।
-5-4-39- मृदस्तिकन् ।।
स्यात्। मृत्तिका। मृदेव।
-5-4-40- सस्नौ प्रशंसायाम् ।।
प्राशस्त्ये मृदः सस्नौ स्याताम्। रूपपो बाधा। मृत्सा, मृत्स्ना।
-5-4-41- वृकज्येष्ठाभ्यां तिल्तातिलौ च च्छन्दसि ।।
इदं छन्दः सूत्रम्।
-5-4-42- बह्वल्पार्थाच्छस् कारकादन्यतरस्याम् ।।
बहृवल्पार्थाच्छस् वा स्यात्। बहूनि बहुभिर्बहुभ्यो वा ददाति बहुशः। भूरिशः। अल्पशो ददाति। स्तोकशः।
माङ्गलिक्यां प्रवृत्तावस्याभिधानम्, श्राद्धादौ मा भूदिति स्मृतिः।
कारकात् किम् ? बहूनां स्वामी।
अन्यतरस्यां ग्रहणं स्पष्टार्थम्, महाविभाषया सिद्धेर्वृत्तिविकल्पस्य।
-5-4-43- संख्यैकवचनाच्च वीप्सायाम् ।।
आभ्यां वीप्सायां वा शस् स्यात्। संख्यायाः--द्वौ द्वौ ददाति द्विशः।
पञ्चशो ददाति। एकार्थवचनात् परिमाणात्--पणं पणं दादाति पणशः। प्रस्थशः। पादशः।
कारकाद् इत्येव--द्वयोर्द्वयोः स्वामी।
संख्यैकवचनात् किम् ? घटं घटं ददाति। कुण्डं कुण्डं पिबति।
-5-4-44- प्रतियोगे पञ्चम्यास्तसिः ।।
प्रतिना कर्मप्रवचनीयेन योगे या पञ्चमी तदन्तात् तसिर्वा स्यात्। यो नारायणतः प्रति, नारायणात् प्रति वा। वाणिजश्चौरतः प्रति, चौरात् प्रति वा।
आद्यादिभ्यश्च । आद्या प्रथमा, तदादिविभक्त्यन्तेभ्यश्च यथादर्शनं तसिर्वा स्यात्। कर्मगुण इत्यर्थे कर्मगुणतः। एवं स्मरणात्। स्मरणतः। आदौ आदितः। शरीरेण शरीरतः कृशः। पृष्ठतः। शब्दतः। दुष्टः शब्दः स्वरतो वर्णतो वा।
-5-4-45- अपादाने चाहीयरुहोः ।।
अपादानवचनात् पञ्चम्यन्तात् तसिर्वा स्यात्। ग्रामत आयाति। चौरतो बिभेति।
ओहाग्रुहोः प्रतिषेधः। स्वार्थाद्धीयते। पर्वतादवरोहति।
हीय इति निर्देशाज्जिहातेर्न निषेधः। उदयाचलत उज्जिहीते।
कथं मन्त्रतो हीन इति ? तृतीयान्तात् तसिः।
-5-4-46- अतिग्रहाव्यथनक्षेपेष्वकर्तरि तृतीयायाः ।।
अतिग्रहेऽचलने क्षेपे च तृतीयान्तात् तसिर्वा स्यात्। वृत्तेनातिगृह्यते, वृत्ततोऽतिगृह्यते। चरित्रतो न चलति। व्यवहारतो निन्दितः।
अकर्त्तरि किम् ? विप्रेण क्षिप्तम्।
-5-4-47- हीयमानपापयोगाच्च ।।
हीयमानपापाभ्यां युक्तादकर्त्तरि तृतीयान्तात् तसिर्वा स्यात्। वृत्तेन हीयते, वृत्ततो हीयते वा। व्यवहारतो हीयते। वृत्ततः पापः।
-5-4-48- षष्ठ्या व्याश्रये ।।
षष्ठ्यन्ताद् विविधपक्षाश्रये तसिर्वा स्यात्। देवा अर्जुनतोऽभवन्। अर्जुनस्य पक्षे। आदित्याः कर्णतः,
कर्णस्य पक्षे।
व्याश्रये किम् ? वृक्षस्य शाखा।
-5-4-49- रोगाच्चापनयने ।।
रोगात् षष्ठ्यन्तादपनयने तसिर्वा स्यात्। हिक्कातः कुरु चिकित्साम्। प्रवाहिकातः।
अपनयने किम् ? हिक्कायाः प्रकोपः।
-5-4-50- अभूततद्भावे कृभ्वस्तियोगे सम्पद्यकर्त्तरि च्विः ।।
अभूततद्भावगतौ सम्पद्यतेः कर्त्तरि च्विः स्यात्। कृभ्वस्तियोगश्चेत्। अशुक्लः शुक्लः सम्पद्यते, तं करोति शुक्लीकरोति। महाविभाषया शुक्लं करोति। शुक्लीभवति। शुक्लीस्यात्। मृदूस्यात्। पटूभवति।
-5-4-51- अरुर्मनश्चक्षुश्चेतोरहोरजसां लोपश्च ।।
एषां च्विः स्यादन्त्यलोपश्च। अरूकरोति। सुमनीकरोति। उच्चक्षूस्यात्। सुचेतीकृतः। रहीभूतं दशाननम्। नीरजीकारितक्ष्माम्।
-5-4-52- विभाषा साति कार्त्स्न्ये ।।
च्विविषये कार्त्स्न्यगतौ सातिर्वा स्यात्। काष्ठं भस्मसात् करोति, भस्मीकरोति वा। तस्मिन् कृशानुसाद् भूते।
-5-4-53- अभिविधौ सम्पदा च ।।
अभिव्याप्तिगतौ च्व्यर्थे सातिर्वा स्यात्, सम्पदा चानुप्रयोगः। उदकसात् सम्पद्यते लवणम्। उदकसाद् भवति। उदकीभवति वा।
-5-4-54- तदधीनवचने ।।
तदायत्तोक्तौ कृभ्वस्तिसम्पदां योगे सातिर्वा स्यात्। राजाधीनं करोति, राजसात् करोति। स्त्रीसात् सम्पद्यते युवा।
-5-4-55- देये त्रा च ।।
दातव्येऽधीने त्रा स्यात्, सातिश्च। देवत्र करोति। देवसात् करोति। विप्रसादकृत भूयसीर्भुवः। विप्रत्रा करोति। विप्रत्रा सम्पद्यते।
-5-4-56- देवमनुष्यपुरुर्मत्येभ्यो द्वितीयासप्तम्योर्बहुलम् ।।
एभ्यो द्वितीयार्थे च कृञ्ञादिभिरन्यैश्च योगे त्रा स्यात्। सातिर्निवृत्तः।
देवान् करोति देवत्रा करोति। देवत्रा गच्छति। देवे वसति देवत्रा वसति।
बाहुल्याद्--बहुत्रा जीव बालक।
-5-4-57- अव्यक्तानुकरणाद् द्व्यजवरार्धादनितौ डाच् ।।
कृते द्विर्वचने द्व्यजवरार्धादव्यक्तशब्दानुकरणात्। कृभ्वस्तियोगे डाच् स्यात्। पटपटाकरोति। दमदमास्यात्।
द्व्यज्यिनेकाजुपलक्षण्--खरटखरटा करोति।
अनितौ किम् ? पटिति करोति।
-5-4-58- कृञ्ञो द्वितीयतृतीयशम्बबीजात् कृषौ ।।
एभ्यः कृञ्ञो योगे कर्षणे डाच् स्यात्। द्वितीयं कर्षणं करोति द्वितीयाकरोति। तृतीयाकृतम्। शम्बाकृत्य बीजाकृतवान्।
कृञ्ञो योगे विधिर्दशसूत्र्याम्।
-5-4-59- संख्यायाश्च गुणान्तायाः ।।
कृषौ कृञ्ञो योगे गुणान्तसंख्याया डाच् सयात्। त्रिगुणाकरोति
क्षेत्रम्।
-5-4-60- समयाच्च यापनायाम् ।।
यापनागतौ समयाच्च डाच् स्यात्। समयाकरोति। कालं यापयतीत्यर्थः। कालक्षेपं करोतीत्यर्थः। समयाकुरुत मा वाग्भिः।
-5-4-61- सपत्रनिष्पत्रादतिव्यथने ।।
आभ्यामतिपीडने डाच् स्यात्। सपत्राकरोति मृगं व्याधः। निष्पत्राकरोति। धनुष्पाणेर्यातं दिवमपि सपत्त्राकृतममुम्।
-5-4-62- निष्कुलान्निष्कोषणे ।।
अस्मादत्र डाच् स्यात्। निष्कुलाकुरुते दाडिमम्।
-5-4-63- सुखप्रियादानुलोम्ये ।।
आभ्यामानुकूल्ये डाच् स्यात्। मुखाकरोति। प्रियाकरोति। आनुकूल्यं करोतीत्यर्थः। सीतामूचे सुखाभव। प्रियाकर्तुं प्रियंवदा।
-5-4-64- दुःखात् प्रातिलोम्ये ।।
डाच् स्यात्। दुःखाकरोति कुपुत्रः। अदो दुःखाकरोति माम्।
-5-4-65- शूलात् पाके ।।
अस्मात् कृञ्ञो योगे डाच् स्यात्। शूलाकृतं मांसम्। शूलाकरोति मांसम्।
<361>
-5-4-66- सत्यादशपथे ।।
सत्यात् डाच् स्यात्। सत्याकरोति भाण्डं वणिक्। मयैतद् गृहीतम्--इति सत्यङ्कारं ददाति।
अशपथे किम् ? सत्यं करोति विप्रः। शपतीत्यर्थः।
-5-4-67- मद्रात् परिवापणे ।।
मद्रात् माङ्गलिकमुण्डने डाच् स्यातृ। मद्राकृतो बालः। मद्राकरोति बालम्।
भद्राच्चेति वक्तव्यम् । भद्राकरोति नापितः।
महाविभाषा पूर्णा। कृत्वसुजर्थाश्च। शसादिरव्ययम् ।।
-5-4-68- समासान्ताः ।।
अतः परं समासावयवः प्रत्ययो वाच्यः। अधिराजम्, उपराजम्। नाव्ययीभावादित्यम्। द्विधुरी त्रिधुरी -- द्विगोः इति ङीप्। वाक्त्वचिनी -- द्वन्द्वोपतापगर्ह्यादिनिः। धुरोऽर्धमर्धधुरा -- तत्पुरुषत्वात् परवल्लिङ्गता।
-5-4-69- न पूजनात् ।।
पूजावचनात् परस्य समासान्तो न विधेयः। सुराजा। अतिराजा। सुगौः। अतिगौः।
इह स्वतिग्रहणं कर्त्तव्यम्। अत्र मा भूत् -- परमगवः।
प्राग्बहुव्रीहिग्रहणञ्च । सुसक्थम्, अतिसक्थः।
-5-4-70- किमः क्षेपे ।।
क्षेपे किमः परस्य समासान्तो न स्यात्। किंराजा यो न रक्षति। किंसखा, द्रोहाचरणात्। किंगौः, अदोहवाहात्।
क्षेपे किम् ? कस्य राजा किंराजः। किंगवः।
-5-4-71- नञस्तत्पुरुषात् ।।
अस्मात् समासान्तो न स्यात्। अराजा। असखा। अगौः। तत्पुरुषात् किम् ? अधुरम् शकटम्।
-5-4-72- पथो विभाषा ।।
अयं निषेधः पथो वा स्यात्। अपथम्। अपन्था वा।
<362>
-5-4-73- बहुव्रीहौ संख्येये डजबहुगणात् ।।
संख्येये यो बहुव्रीहिस्ततो डच् स्यात्। उपदशाः। आसन्नविंशाः। द्वित्राः। पञ्चषाः एकद्वाः। लक्षकोटाः।
अबहुगणात् किम् ? उपबहवः। उपगणाः।
संख्यान्तस्य तत्पुरुषस्याव्ययादेः । डच् स्यात्। निर्गतास्त्रिंशतो निस्त्रिंशानि वर्षाणि। निश्चत्वारिंशानि
वर्षाणि। निर्गतस्त्रिंशतोऽङ्गुलिभ्यो निस्त्रिंशः खड्गः। अव्ययादेः किम्? गोत्रिंशत्। गोविंशतिः।
-5-4-74- ऋक्पूरब्धूः पथामानक्षे ।।
समासमात्रे ऋगादेरकारः स्यात्। ऋचोऽर्धम् अर्धर्चः। अनृचो माणवकः। बह्वृचश्चरणविशेषः। पुर् -- नान्दीपुरम्। लिङ्गस्य लोकाश्रयत्वान्नपुंसकता। द्विपुरी, त्रिपुरी। अप् -- द्वीपम्, बह्वपानि तडागानि।
कथं बहृवाम्पि ? समासान्तविधेरनित्यत्वादित्याहुः।
धुर् -- राजधुरा। महाधुरः। पथिन् -- राजपथः, महापथः। अनक्षे किम् ?
अक्षधूः स्यन्दनानाम्। दृढधूः अक्षः।
-5-4-75- अच्प्रत्यन्ववपूर्वात् सामलोम्नः ।।
प्रत्यनुपूर्वाभ्यां सामलोमभ्यामच् स्यात्। प्रतिसामम्। अनुसामम्। प्रतिलोमम्। अनुलोमम्। इह --
कृष्णोदक्पाण्डुपूर्वाया भूमेरच्प्रत्ययः स्मृतः।
गोदावर्याश्च नद्याश्च संख्याया उत्तरे यदि ।।
इति जयादित्यः। कृष्णभूमम्। उदकभूमम्। पाण्डुभूमम्। पञ्चगोदावरम्। द्विनदम्।
भूमेश्च संख्यायाः। दशभूमं सूत्रम्। द्विभूमः प्रासादः।
अजिति योगविभागात् -- पद्मनाभः। ऊर्णनाभः। दीर्घरात्रम्। गणरात्रम्। वर्षारात्रमित्यादि।
-5-4-76- अक्ष्णोऽदर्शनात् ।।
अदृष्ट्यर्थादक्षिशब्दादच् स्यात्। पुष्कराक्षम्। गवाक्षम्।
<363>
-5-4-77- अचतुरविचतुरसुचतुरस्रीपुंसधेन्वनडुहर्क्सामवाङ्मनसाक्षिभ्रुवदारगवोर्वष्ठीवपदष्ठीवनक्तन्दिवरात्रिन्दिवाहर्दिवसरजसनिःश्रेयसपुरुषायुषद्व्यायुषत्र्यायुषर्ग्यजुषजातोक्षमहोक्षवृद्धोक्षोपशुनगोष्ठश्वाः ।।
पञ्चविंशतिरेतेऽच्प्रत्ययान्ता निपात्यन्ते। तत्राद्यास्त्रयो बहुव्रीहयः।
तत एकादश द्वन्द्वाः। अहर्दिवमहन्यहनीत्यर्थः। साकल्येन रजः सरजसमभ्यवहरति। अव्ययीभावे साधु। बहुव्रीहौ सरजसं पद्ममित्यसाधु। ततस्तत्पुरुषद्वयम् -- निश्चितं श्रेयो निःश्रेयसम्, पुरुषस्यायुः पुरुषायुषम्। ततो द्विगुद्वयम्। ततो द्वन्द्वः। ततः कर्मधारयत्रयम्। शुनः समीपे उपशुनम्। गोष्ठे श्वेव गोष्ठश्वः।
चतुरस्त्र्युपाभ्यामुपसंख्यानम् । त्रिचतुराः। उपचतुराः।
-5-4-78- ब्रह्महस्तिभ्यां वर्चसः ।।
आभ्यां वर्चसोऽच् स्यात्। ब्रह्मवर्चसम्। हस्तिवर्चसम्। हेतुस्त्वद्ब्रह्मवर्चसम्।
पल्यराजभ्याञ्च । पल्यवर्चसम्। राजवर्चसम्।
-5-4-79- अवसमन्धेभ्यस्तमसः ।।
एभ्यस्तमसोऽच् स्यात्। अवतमसम्। सन्तमसम्। अन्धतमसम्।
-5-4-80- श्वसो वसीयः श्रेयसः ।।
श्वः शब्दाद् वसीयः श्रेयोभ्यामच् स्यात्। श्वोवसीयसम्। श्वःश्रेयसं वो भूयात्।
-5-4-81- अन्ववतप्ताद् रहसः ।।
एभ्यो रहसोऽच् स्यात्। अनुरहसमनायि नायकेन। अवरहसम्। तप्तरहसम्।
<364>
-5-4-82- प्रतेरुरसः सप्तमीस्थात् ।।
प्रतिपूर्वात् सप्तम्यर्थवृत्तेरुरसोऽच् स्यात्। उरसि क्षताः प्रत्युरसं क्षताः। न्यपतन् प्रत्युरसं प्रियाः प्रियाणाम्। विभक्त्यर्थेऽव्ययीभावाः।
-5-4-83- अनुगवमायामे ।।
इदमत्र निपात्यते। अनुगवं रथः। यस्य चायामः इति समासः।
-5-4-84- द्विस्तावा त्रिस्तावा वेदिः ।।
द्विस्तावा त्रिस्तावा स्याद्, वेदिश्चेत्। अन्यत्र द्विस्तावती त्रिस्तावती रज्जुः।
-5-4-85- उपसर्गादध्वनः ।।
प्रादेरध्वनोऽच् स्यात्। प्रगतोऽध्वानं प्राध्वो रथः। निरध्वः।
-5-4-86- तत्पुरुषस्याङ्गुलेः संख्याव्ययादेः ।।
संख्याव्ययादेरङ्गुलिशब्दादच् स्यात्। द्वे अङ्गुली प्रमाणमस्येति तद्धितार्थे समासः। प्रमाणे लो द्विगोः इति मात्रचो लुक्। द्व्यङ्गुलम्। त्र्यङ्गुलम्। अव्ययादेः -- निर्गतमङ्गुलिभ्यो निरङ्गुलम्। अत्यङ्गुलम्।
तत्पुरुषस्य किम् ? पञ्चाङ्गुलिर्हस्तः।
तत्पुरुषे विधिराद्वन्द्वात् ( 5-4-106 )।
-5-4-87- अहः सर्वैकदेशसंख्यातपुण्याच्च रात्रेः ।।
संख्याव्ययाभ्यामहरादिभ्यश्च रात्रेरच् स्यात्। पञ्चानां रात्रीणां समाहारः पञ्चरात्रम्। त्रिरात्रम्। द्विरात्रम्। अतिक्रान्तो रात्रिमतिरात्रः। नीरात्रः।
अहर्ग्रहणं द्वन्द्वार्थम्। अहोरात्रः। सर्वरात्रः। संख्यातरात्रः। पुण्यरात्रः प्रियागमे। एते कर्मधारयाः।
एकदेशात् -- पूर्वं रात्रेः पूर्वरात्रः। अपररात्रः। अर्धरात्रः।
<365>
-5-4-88- अह्नोऽह्न एतेभ्यः ।।
एतेभ्यः इति संख्याव्ययाहरादिभ्यः। अहः शब्दस्याह्नादेशः स्यात्समासान्ते परे। टचि -- द्वयोरह्नोर्भवो द्व्यह्नः। त्र्यह्नः। कालाट्ठञः द्विगोर्लुगनपत्ये इति लुक्। अत्यह्नः, निरह्नः -- प्रादिसमासः। सर्वाह्णः, संख्याताह्नः -- कर्मधारयौ। पूर्वाह्णः, अपराह्णः -- पूर्वापर इति समासः। सर्वत्र टच्।
-5-4-89- न संख्यादेः समाहारे ।।
संख्यादेरह्नः समाहृतावह्नादेशो न स्यात्। द्वेहनी समाहृते द्व्यहः। त्र्यहः। सप्ताहः। दशाहः।
-5-4-90- उत्तमैकाभ्याञ्च ।।
आभ्यामह्नोऽह्नादेशो नास्ति। अहरादेरन्त्यमुत्तमं पुण्यशब्द इत्यर्थः। पुण्याहम्। एकाहः।
-5-4-91- राजाहः सखिभ्यष्टच् ।।
एभ्यस्तत्पुरुषे टच् स्यात्। महाराजः। देवराजः। द्व्यहः। उत्तमाहः। राजसखः। भवन्ति गोमायुसखा न दन्तिनः।
लिङ्गविशिष्टाग्रहणात् -- महाराज्ञी।
-5-4-92- गोरतद्धितलुकि ।।
गोष्टच् स्यात्। पुङ्गवः। उत्तमगवः। पञ्चगवी। स्त्रीगवी। राजगवी। पञ्चगवधनम्। दशगवधनम्।
अतद्धितलुकि किम् ? पञ्चगुः पटः। क्रीतार्थे ठकः अध्यर्ध इति लुक्।
-5-4-93- अग्राख्यायामुरसः ।।
श्रेष्ठाख्यायामुरसष्टच् स्यात्। हस्त्युरसम्। अश्वोरसम्। तत्प्रधानम्।
-5-4-94- अनोऽश्मायःसरसां जातिसंज्ञयोः ।।
एषां टच् स्यात्। जातौ -- उपानसम्। अमृताश्मः। कालायसम्। मण्डूकसरसम्।
संज्ञायाम् -- महानसम्। पिण्डाश्मः। लोहितायसम्। कालसरसम्।
<366>
-5-4-95- ग्रामकौटाभ्याञ्च तक्ष्णः ।।
आभ्यां तक्ष्णष्टच् स्यात्। ग्रामतक्षः। कौटतक्षः।
-5-4-96- अतेः शुनः ।।
टच् स्यात्। श्वानमतिक्रान्तोऽतिश्वः सेवकः। अतिश्वी मृगी।
-5-4-97- उपमानादप्राणिषु ।।
उपमानाच्छुनष्टच् स्यात्। फलकः श्वेव फलकश्वः।
अप्राणिषु किम् ? वानरः श्वेव वानरश्वा। व्याघ्रादित्वात्। समासः।
-5-4-98- उत्तरमृगपूर्वाच्च सक्थ्नः ।।
एभ्यः सक्थ्नष्टच् स्यात्। उत्तरसक्थम्। मृगसक्थम्। पूर्वसक्थम्।
चकारादुपमानाच्च -- फलकसक्थम्।
-5-4-99- नावो द्विगोः ।।
नावन्ताद् द्विगोष्टच् स्यात्। द्विनावम्। पञ्चनावम्। दशनावप्रियः।
अतद्धितलुकि इत्येव। क्रीतार्थे ठञो लुक् -- पञ्चनौर्गजः।
-5-4-100- अर्धाच्च ।।
अर्धान्नावस्तत्पुरुषे टच् स्यात्। नावोऽर्धमर्धनावम्।
अर्धनावीति तु न लिङ्गस्य लोकाश्रयत्वात् परवल्लिङ्गताभावः।
5-4-101- खार्याः प्राचाम् ।।
द्विगोः इत्येव। खार्याष्टच् स्यात् प्राचां मतेन। अर्धाच्च। द्विखारम्। अर्धखारम्। अन्येषां -- द्विखारि, अर्धखारी।
-5-4-102- द्वित्रिभ्यामञ्जलेः ।।
आभ्यामञ्जलेष्टच् स्यात्। द्वयोरञ्जल्योः समाहारो द्व्यञ्जलम् त्र्यञ्जलं वारि।
द्विगोरित्येव -- द्वयोरञ्जलिर्द्व्यञ्जलिः।
-5-4-103- अन्नसन्तान्नपुंसकाच्छन्दसि ।।
छन्दः सूत्रम्।
<367>
-5-4-104- ब्रह्मणो जानपदाख्यायाम् ।।
जनपदे भवो जानपदः तदेकदेशस्तन्नाम्नि ब्रह्मणष्टच् स्यात्। सुराष्ट्रब्रह्मः। काशिब्रह्मः। अन्यत्र -- देवब्रह्मा नारदः।
-5-4-105- कुमहद्भ्यामन्यतरस्याम् ।।
आभ्यां ब्रह्मणष्टज् वा स्यात्। कुब्रह्मः, कुब्रह्मा वा। परिषद्वलान् महाब्रह्मैः।
उक्ताः समासान्तास्तत्पुरुषे ।।
-5-4-106- द्वन्द्वाच्चुदषहान्तात् समाहारे ।।
चवर्ग-द-ष-हान्ताद् द्वन्द्वाट् टच् स्यात्। वाक्त्वचम्, उपाध्यायशब्दप्राच्छम्। श्रीस्रजम्। दान्तात् -- सम्पद्विपदम्। षान्ताद् -- वाक्त्विषम्, ग्रीष्मप्रावृषम्। हान्तात् - छत्रोपानहम्, पिकमधुलिहम्।
समाहारे किम् ? प्रावृट्शरदौ। द्वन्द्वात् किम् ? पञ्चानां वाचां समहारः पञ्चवाक्।
-5-4-107- अव्ययीभावे शरत्प्रभृतिभ्यः ।।
एभ्योऽत्र टच् स्यात्। उपशरदम्। अथोपशरदेऽपश्यत्।
एवं दिश्, विपाश्, दिव् दृश्, चतुर्।
जराया जरसञ्च । उपजरसम्।
प्रतिपरसमनुभ्योऽक्ष्णः । प्रत्यक्षम्। परोक्षमिति निपातनात् समासः, उत्त्वञ्च। समक्षम्। अन्वक्षम्।
अव्ययीभावे विधानमा बहुव्रीहेः।
-5-4-108- अनश्च ।।
      
-5-4-109- नपुंसकादन्यतरस्याम् ।।
अन्नन्ताट् टच् स्यात्। उपराजम्। प्रतिराजम्। उपदशम्। अध्यात्मम्। प्रत्यात्मम्।
नपुंसकाद्वा । उपचर्मम्, उपचर्म वा। उपभस्मम्, उपभस्म वा। प्रत्यहः प्रत्यहं वा। यथार्थेऽव्ययीभावः।
-5-4-110- नदीपौर्णमास्याग्रहायणीभ्यः ।।
आभ्यष्टच् वा स्यात्। उपनदम्, उपनदि वा। उपपौर्णमासम्,
उपपौर्णमासि वा। उपपौर्णमासि समये शशिनं ददर्श। उपाग्रहायणम्, उपाग्रहायणि वा।
<368>
-5-4-111- झयः ।।
झयन्ताट् टज् वा स्यात्। प्रतिसमिधम्, प्रतिसमिद् वा। उपदृषदम्, उपदृषद् वा।
-5-4-112- गिरेश्च सेनकस्य।।
      सेनकस्य मतेन गिरेष्टज् वा स्यात्। अनुगिरमृतुभिर्वितायमानम्। अनुगिरि वा । उपगिरम्,उपगिरि वा। उक्तोऽव्ययीभावे समासान्तः।
-5-4-113- बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात् षच् ।।
बहुव्रीहौ स्वाङ्गवाचिभ्यां सक्थ्यक्षिभ्यां षच् स्यात्। दीर्घसक्थः। षित्त्वान् ङीष् -- दीर्घसक्थी। सहस्राक्षः। विशालाक्षः। आयताक्षी।
स्वाङ्गात् किम् ? दीर्घसक्थि शकटम्।
बह्रव्रीहौ विधानमापादम्।
-5-4-114- अङ्गुलेर्दारुणि ।।
अङ्गुलेः षच् स्याद् दार्वर्थे। द्व्यङ्गुलं दारु। पञ्चाङ्गुलम्। अङ्गुलितुल्यावयवयुक्तं धान्याद्युत्क्षेपणकाष्ठमिदमुच्यते।
-5-4-115- द्वित्रिभ्यां ष मूर्ध्नः ।।
आभ्यां मूर्ध्नः षः स्यात्। द्विमूर्धः। त्रिमूर्धः।
द्वित्रिभ्यां किम् ? बहुमूर्ध्नोः द्विमूर्धांश्च त्रिमूर्धांश्चाहतां मृधे।
-5-4-116- अप्पूरणीप्रमाण्योः ।।
पूरणप्रत्ययान्तात् स्त्रीलिङगात् प्रमाणीशब्दाच्चाप् स्याद् बहुव्रीहौ। कल्याणी पञ्चमी यासां ताः कल्याणीपञ्चमा रात्रयः। भार्याप्रमाणाः कुटुम्बिनः।
नेतुर्नक्षत्रपूर्वादुपसंख्यानम् । मृगो नेता यासां रात्रीणां ता मृगनेत्रा रात्रयः। पुष्यनेत्राः।
-5-4-117- अन्तर्बहिर्भ्याञ्च लोम्नः ।।
आभ्यां लोम्नोऽप् स्यात्। अन्तर्लोमः प्रावारः। बहिर्लोमः कम्बलः।
-5-4-118- अञ् नासिकायाः संज्ञायां नसञ्चास्थूलात् ।।
नासिकाया अच् स्यात्। नसञ्चादेशं कुर्यात्। द्रुणसः। गोनसः। <369>
अस्थूलात् किम् ? स्थूलनासिको वराहः। संज्ञायां किम् ? तुङ्गनासिकः।
खरखुराभ्यां च नस् वक्तव्यः । खरणाः। खुरणाः।
अच्प्रत्ययोऽपीष्यते -- खरणसः, खुरणसः।
-5-4-119- उपसर्गाच्च ।।
प्रादेर्नासिकाया अच् स्यात्। नसादेशश्च उन्नसं दधती वक्त्रम्। विनसा हतबान्धवा। अनुनासिकशब्दस्तु निपातनात्।
वेर्ग्रो वक्तव्यः । विग्रः। एतत्तु नैगममिति स्मृतिः।
-5-4-120- सुप्रातसुश्वसुदिवशारिकुक्षचतुरश्रैणीपदाजपदप्रोष्ठपदाः ।।
एतेऽष्टावजन्ता निपात्यन्ते। शोभनं प्रातरस्य सुप्रातः। शोभनं श्वोऽस्य सुश्वः। सुदिवः। सुदिवेवारविन्दिनी। शारेरिवास्य कुक्षिः शारिकुक्षः। चतस्रोऽश्रयोऽस्य चतुरश्रः। एण्या इव पादावस्यैणीपदः। अजपदः। प्रोष्ठपदः।
-5-4-121- नञ्दुःसुभ्यो हलिसक्थ्योरन्यतरस्याम् ।।
एभ्यो हलि - सक्थिभ्यामज् वा स्यात्। अविद्यमानो हलिरस्य अहलः, अहलिर्वा। असक्थः, असक्थिः वा। एवं सुहलः, सुहलिर्वा। दुर्हलः, दुर्हलिर्वा। सुसक्थः, सुसक्थिर्वा।
-5-4-122- नित्यमसिच् प्रजामेधयोः ।।
नञादिभ्यः प्रजामेधयोरसिच् स्यात्। अप्रजाः। दुष्प्रजाः। सुप्रजाः। अमेधाः। दुर्मेधाः।सुमेधाः। हन्त दुर्मेधसो हताः।
नित्यग्रहणाद् अल्पमेधसः इति जयादित्यः।
-5-4-123- बहुप्रजाश्छन्दसि ।।
छन्दः सूत्रम्।
-5-4-124- धर्मादनिच् केवलात् ।।
समासान्तो धर्मादनिच् स्यात्। प्रियधर्मा। कल्याणधर्मा। साक्षात्कृतो धर्मो यैस्ते साक्षात्कृतधर्माणो मुनयः इति भाष्यप्रयोगः।
<370> केवलात् किम् ? पदान्तरेण समस्ताद्धर्मात् मा भूत्। कुलस्य धर्मः कुलघर्मः। कृतः कुलधर्मोऽनेनेति कृतकुलधर्मः। दर्शितस्वधर्मः।
यदा तु त्रिपदो बहुव्रीहिः -- परमः स्वो धर्मोऽस्य, तदा केवल एव धर्मशब्द इति परमस्वधर्मेत्येव भवति। यथा तु जयादित्यस्तथा नैतत्।
-5-4-125- जम्भा सुहरिततृणसोमेभ्यः ।।
स्वादिभ्यो जम्भशब्दस्यानिजन्तो जम्भा स्यात्। सुजम्भा। हरितजम्भा। तृणजम्भा। सोमजम्भा। जम्भः भोजनम्, दन्तभेदश्च।
-5-4-126- दक्षिणेर्मा लुब्धयोगे ।।
लुब्धयोगश्चेदयमत्र निपात्यते। व्याधव्रणितदक्षिणाङ्गो दक्षिणेर्मा कुरङ्गः।
लुब्धयोगे किम् ? दक्षिणेर्मम्।
-5-4-127- इच् कर्मव्यतीहारे ।।
कर्मव्यतीहारे बहुव्रीहाविच् स्यात्। दण्डादण्डि। केशाकेशि। बाहूबाहवि। नखानखि। मुसलामुसलि। जल्पाजल्पि प्रवादिनाम्।
-5-4-128- द्विदण्ड्यादिभ्यश्च ।।
प्रथमार्थे पञ्चमी। द्विदण्ड्यादय इजन्ता निपात्यन्ते। द्वौ दण्डावस्मिन् द्विदण्डि प्रहरणम्। द्विमुसलि। उभायाञ्जलि। उभयाहस्ति। प्रहस्तेनोभयाहस्ति निष्पिष्टरथसारथीन्। एकपदि। उभयपदि। उभयादन्ति।
गणपाठात् तत्पुरुषेऽपि -- निकुच्यकर्णि धावति। प्रोह्यपदि। मयूरव्यंसकादिः।
-5-4-129- प्रसंभ्यां जानुनोर्ज्ञुः ।।
आभ्यां जानुनोर्ज्ञुरादेशः स्यात्। प्रज्ञुः। संज्ञुः।
-5-4-130- ऊर्ध्वाद् विभाषा ।।
ऊर्ध्वाद् जानुनोर्ज्ञुर्वा स्यात्। ऊर्ध्वज्ञुः। ऊर्ध्वजानुर्वा।
-5-4-131- ऊधसोऽनङ् ।।
ऊधसन्तस्य बहुव्रीहेरनङादिश्यते। कुण्डोध्नी घटोध्नी। स्त्रियामेवाभिघानान् -- महोधाः पर्जन्यः। गवां गणाः प्रस्रुतपीवरोधसः।
<371>
-5-4-132- धनुषश्च ।।
अनङादिश्यते। शार्ङ्गधन्वा। गाण्डीवधन्वा। गृहीतधन्वा।
धृतधनुषं पुष्पायुधमिति चिन्त्यम्। अथ वा समासान्तविधिरनित्यः।
-5-4-133- वा संज्ञायाम् ।।
पुष्पधन्वा, पुष्पधनुर्वा।
-5-4-134- जायाया निङ् ।।
जायान्तस्य निङादिश्यते। वलि यलोपः। युवतिर्जायास्य युवजानिः।
प्रियजानिः। कमलाजानिः।
-5-4-135- गन्धस्येदुत्पूतिसुसुरभिभ्यः ।।
उदादेर्गन्धस्येत् स्यात्। उद्गतो गन्धोऽस्योद्गन्धिः। पूतिगन्धिः। सुगन्धिः। सुरभिगन्धिः।
समवेत एवाभिधानान्नेह -- सुबन्ध आपणिकः।
-5-4-136- अल्पाख्यायाम् ।।
गन्धस्येत् स्यात्। अल्पः सूपोऽस्यां सूपगन्धिः स्थाली। दधिगन्धि भोजनम्। प्रेमगन्धि वचनम्।
-5-4-137- उपमानाच्च ।।
गन्धस्येत् स्यात्। पद्मस्येव गन्धोऽस्य पद्मगन्धिः। कुमुदगन्धिः।
-5-4-138- पादस्य लोपोऽहस्त्यादिभ्यः ।।
उपमानात् पादस्य समासान्तो लोपः स्यात्। व्याघ्रपात्। सिंहपात्।
अहस्त्यादिभ्यः किम् ? हस्तिपादः। श्लीपादः। गण्डोलपादः।
-5-4-139- कुम्भपदीषु च ।।
कुम्भपद्यादयः स्त्रियां कृतलोपाः। ङीबन्ता निपात्यन्ते। कुम्भपदी। शतपदी। एकोऽभिन्नः सर्वेषां पादोऽत्रेति एकपदी मार्गः। गोधापदी। पादोऽन्यतरस्याम् इति ङीप्। पादः पत्।
-5-4-140- संख्यासुपूर्वस्य ।।
एतत्पूर्वस्य पादस्य लोपः स्यात्। द्विपात्। सुपात् द्विरदनासोरूः।
<372>
-5-4-141- वयसि दन्तस्य दतृ ।।
संख्यासुपूर्वस्य दन्तस्य दत्रादेशः स्यात्। द्विदन् वत्सः। षोडशदन् वयस्थः। षोडन् गौः। सुदन् कुमारः। सुदती तरुणी।
वयसि किम् ? द्विदन्तो गजः।
-5-4-142- छन्दसि च ।।
छन्दः सूत्रम्।
-5-4-143- स्त्रियां संज्ञायाम् ।।
स्त्रियां नाम्नि दन्तस्य दतृ स्यात्। सुदती। फालदती काचित्।
-5-4-144- विभाषा श्यावारोकाभ्याम् ।।
आभ्यां दन्तस्य दतृ स्याद् वा। श्यावदन्, श्यावदन्तो वा। अरोकदन्,
अरोकदन्तो वा। अरोकः अदीप्तिः।
-5-4-145- अग्रान्तशुद्धशुभ्रवृषवराहेभ्यश्च ।।
एभ्यो दन्तस्य दतृ स्याद्वा। अग्रान्तात् - कुन्दकुड्मलाग्रदन्, कुन्दकुड्मलाग्रदन्तो वा। एवं शुद्धदन्, शुद्धदन्तो वा विप्रः।
चकाराद् अहिमूषिकगर्दभशिखरेभ्यश्च इति जयादित्यः। अहिदन्तः, अहिदन् वा। शिखरदती।
-5-4-146- ककुदस्यावस्थायां लोपः ।।
अवस्थायां ककुदस्यान्तस्य लोपः स्यात्। अजातककुद् वत्सः स्थूलककुत् तरुणः।
अवस्थायां किम् ? श्वेतककुदो वृषः।
-5-4-147- त्रिककुत् पर्वते ।।
अयमत्र निपात्यते।
-5-4-148- उद्विभ्यां काकुदस्य ।।
आभ्यां काकुदस्यान्त्यलोपः स्यात्। उद्गतं काकुदमस्य उत्काकुत्। विकाकुत्।
<373>
-5-4-149- पूर्णाद्विभाषा ।।
पूर्णात् काकुदस्यान्त्यलोपः स्याद् वा। पूर्णं काकुदमस्य पूर्णकाकुत्, पूर्णकाकुदो वा।
-5-4-150- सुहृद्दुर्हृदौ मित्रामित्रयोः ।।
अनयोरेतौ निपात्येते। सुहृन्मित्रम्। दुर्हृच्छत्रुः।
मित्रामित्रयोः किम् ? सुहृदयः साधुः। दुर्हृदयश्चौरः।
-5-4-151- उरः प्रभृतिभ्यः कप् ।।
उरः प्रभृत्यन्ताद् बहुव्रीहेः कप् स्यात्। व्यूढमुरो यस्य व्यूढोरस्कः ।
प्रियसर्पिष्कः। प्रिययशस्कः।
अर्थान्नञः । अनर्थकः।
इह गणे -- लक्ष्मीरनड्वान् पयो नौः पुमान् इति प्रथमैकवचनान्ताः पठ्यन्ते। तेन द्विवचनबहुवचनान्तात् शेषाद् विभाषा इति कप् -- बहुलक्ष्मीः, बहुलक्ष्मीको वा; द्विपुमान्, द्विपुंस्को वेति जयादित्यः।
ग्रहणवता प्रातिपदिकेन तदन्तविधिनिषेधाम्नेह -- प्लवङ्गनखकोटिभिः क्षतदृढोरसो राक्षसा इति।
-5-4-152- इनः स्त्रियाम् ।।
इन्नन्तात् स्त्रियां कप् स्यात्। बहुदण्डिका शाला। बहुवाग्मिका सभा।
-5-4-153- नद्यृतश्च ।।
नद्यन्तादृदन्ताच्च कप् स्यात्। बहुस्त्रीको नृपः। बहुकुमारीको देशः। बहुधीबन्धूकः। बहुवीरबन्धूकः। बहुब्रह्मबन्धूकः। बहुदातृकः। बहुमातृकः।
कृन्नद्याः कबयं नेष्यते; स्त्री इति स्त्र्यधिकारविहितस्य ग्रहणात्। तेन शेषाद् विभाषा इति कप् -- बहुतन्त्री, बहुतन्त्रीकः। सुवधूः, सुवधूक इत्यादि।
-5-4-154- शेषाद्विभाषा ।।
यस्माद् बहुव्रीहेः समासान्तो न विहितस्ततः कब् वा स्यात्। बहुखट्वाकः, बहुखट्वकः, बहुखट्वो वा। बहुदण्डी राजा, बहुदण्डिको वा।
<374> शेषात् किम् ? प्रियपथः। प्रियधुरः। इह ऊङुतः इति दीर्घविधानसार्मथ्याद् व्यवस्थितविभाषया वा न कप्। तेन नित्यम् -- ब्रह्यबन्धूः।
-5-4-155- न संज्ञायाम् ।।
नाम्नि बहुव्रीहेर्न कप् स्यात्। विश्वे देवा अस्य विश्वदेवः। विश्वयशाः कश्चित्।
-5-4-156- ईयसश्च ।।
ईयसन्तान्नास्ति कप्। बहुश्रेयान्। शेषाद् इति प्राप्ते।
लिङ्गविशिष्टग्रहणात् -- बहुश्रेयसी, बहुप्रेयसी। नद्यृतश्च इति प्राप्तः।
-5-4-157- वन्दिते भ्रातुः ।।
स्तुत्यर्थाद् भ्रातुर्न कप् स्यात्। सुभ्राता लक्ष्मणः। प्रशस्तभ्राता।
वन्दिते किम् ? चौरभ्रातृकः। पापभ्रातृकः।
-5-4-158- ऋतश्छन्दसि ।।
छन्दः सूत्रम्।
-5-4-159- नाडीतन्त्र्योः स्वाङ्गे ।।
नाडीतन्त्र्योर्न कप्। बहुनाडिः कायः। बहुतन्त्रीः ग्रीवा।
स्वाङ्गे किम् ? बहुतन्त्रीका वीणा।
-5-4-160- निष्प्रवाणिश्च ।।
निपात्यते। निर्गता प्रवाणी यस्मात् स निष्प्रवाणिः अपनीतशलाको नवकर्पटः। पूर्णः प्रत्ययाधिकारः
-9-9-999-