भाषावृत्तिः/प्रथमोऽध्यायः/द्वितीयः पादः

← प्रथमः पादः भाषावृत्तिः
प्रथमः पादः
पुरुषोत्तमदेव
तृतीयः पादः →

।।प्रथमाध्याये द्वितीयः पादः।।

-1-2-1- गाङ्कुटादिभ्योऽञ्णिन् ङित् ।
एभ्योऽञ्णितः प्रत्यया ङिद्वद् भवन्ति। इङादेशो गाङ्। अध्यगीष्ट। अध्यगीष्ठाः। "नाध्यगीढ्वं ध्रुवं स्मृतीः"। कुटादेः। कुटिता। पुटिता। कुटितुम्। पुटितुम्। संकुटितव्यम्। अञ्णित् किम् ? णिच्। कोटयति। घञ्। कोटः।
(क) व्यचे: कुटादित्वमनसीति वक्तव्यम् ।। विचिता विचितुम्। अनसि किम् ? असुन्। उरुव्यचाः।

-1-2-2- विज इट् ।
विजेरिडादिप्रत्ययो ङित् स्यात्। उद्विजिता। उद्विजितुम्। "नायमुद्विजितुं कालः।" उद्विजितव्यम्। "पुरुषादुद्विजितवयमीदृशः"। "कथ मुद्वेजिता वृष्टिभिराश्रयन्ते?" ण्यन्तात्।

-1-2-3- विभाषोर्णोः ।
ऊर्णोतेरिडादिप्रत्ययो वा ङित् स्यात्। प्रोर्णविता प्रोर्णुविता। प्रोर्णवितुम् प्रोर्णुवितुम्।

-1-2-4- सार्वधातुकमपित् ।
अपित् सार्वधातुकं ङित् स्यात्। कुरुतः। कुर्वन्ति। चिनुतः। चिन्वन्ति। अपिदिति किम् ? करोति। करोषि। चिनोति। इह पूर्वमपिदिति योगं विभज्य ङिच्च पिन्न भवतीत्यर्थमाहुः। तेन स्तुयादित्यत्र यासुटो ङित्त्वेन पित्त्वनिषेधात् स्तौतीत्येतद्वदुतो वृद्धिर्लुकि हलीति (7.3.89) पिति न वृद्धिः। ब्रूताद् भवानित्यत्र ब्रुव इण् न भवति।

-1-2-5- असंयोगाल्लिट् कित् ।
असंयोगान्ताद् धातोर्लिट् कित् स्यात्। चक्रतुश्चक्रु:। बिभिदतुर्बिभिदु:। दुद्रुवतुर्दुद्रुवु:। जुहुवतुर्जुहुवु:। ऊचतु रूचु:। असंयोगात् किम् ? "वलिर्बबन्धे जलधिर्ममन्थे।" अपिदित्येव--विभेद।

-1-2-6- इन्धिभवतिभ्याञ्च ।
आभ्यां लिट् कित् स्यात्। समीधे। बभूव। अत्रेन्धेश्छन्दोविषयत्वाद् भुवो वुको नित्यत्वादाभ्यां किद्वचनानर्थक्यमिति भाष्यम्। भाषायान्त्विधेर्लिंट्याम् । समिन्धाञ्चक्रे। अत्रेष्टिः -- ग्रन्थिश्रन्थिदम्भिस्वञ्जीनामिति जयादित्यः। ग्रेथतुः। ग्रेथुः। श्रेथतुः। श्रेथुः। देभतुर्देभुः। परिषस्वजे।

-1-2-7- मृडमृदगुधकुषक्लिशवदवसः क्त्वा ।
एभ्यः सेडपि क्त्वा कित् स्यात्। मृडित्वा। मृदित्वा। गुधित्वा। कुषित्वा। क्लिशित्वा। उदित्वा। उषित्वा।

-1-2-8- रुदविदमुषग्रहिस्वपिप्रच्छः सँश्च ।
एभ्यः सेडपि क्त्वा कित् स्यात्। सँश्च। रुदित्वा रुरुदिषति। विदित्वा विविदिषति। मुषित्वा मुमुषिषति। गृहीत्वा जिघृक्षति। स्वपिप्रच्छो: सन्नर्थं वचनम् । सुषुप्सति। पिपृच्छिषति।

-1-2-9- इको झल् ।
इगन्ताद् धातोर्झलादि: सन् कित् स्यात्। चिकीर्षति। चिचीषति। झलिति किम् ? शिशयिषते। इक: किम् ? पिपासति। झलादेर्विधिर्नवसूत्र्याम्।

-1-2-10- हलन्ताच्च ।।
हलन्तादिगुपधाज्झलादिः सन् कित् स्यात्। बिभित्सति। बुभुत्सते।
दम्भेर्हल्ग्रहणस्य जातिवाचकत्वात् सिद्धम्। धीप्सति धिप्सति।

-1-2-11- लिङ्सिचावात्मनेपदेषु ।
हलन्तादिगुपधादात्मनेपदविषयौ लिङ्सिचौ कितौ स्याताम्। भित्सीष्ट। भुत्सीष्ट। अभित्त। अबुद्ध।
तङनुवृत्तिः षट्सूत्र्याम।

-1-2-12- उश्च ।
ऋवर्णान्तात् तौ कितौ स्याताम्। कृषीष्ट। हृषीष्ट। अकृत। अहृत। तीर्षींष्ट नदी। अतीर्ष्ट नदी स्वयमेव।

-1-2-13- वा गमः ।
गमे स्तौ वा कितौ स्याताम्। कित्त्वादनुनासिकलोपः। संगसीष्ट संगंसीष्ट वा। त्वं युद्धे विजयेन सङ्गसीष्ठाः सङ्गंसीष्ठा वा। समगत समगंस्त वा भ्रमरः सरोरुहेण।

-1-2-14- हन: सिच् ।
हन्तेस्तङि सिच् कित् स्यात्। आहत। आहसाताम्।

-1-2-15- यमो गन्धने ।
यमस्तङि सिच् कित् स्यात्। उदायत सूचितवानित्यर्थः। "नोपायध्वं भयं सीताम्।" गन्धने किम् ? आयंस्त पादम्।

-1-2-16- विभाषोपयमने ।
स्वीकारे यमस्तङि सिच् किद्वा स्यात्। उपायत कन्याम्। "उपायंस्त महास्त्राणि।" "सौमित्रे मामुपायंस्थाः।"

-1-2-17- स्थाध्वोरिच्च ।
स्थाध्वोस्तङि सिच् कित् स्यात्। इकारश्चान्तादेशः। स्था। उपास्थित करेणुः। प्रास्थितानेकः। घु। अदित। अदिथाः। अधित। अधिथाः। अधिषातां गावौ वत्सेन।

-1-2-18- न क्त्वा सेट् ।
सेट् क्त्वा किन्न स्यात्। देवित्वा। वर्त्तित्वा। मृडित्वादौ कित्त्वमुक्तम्। सेडनुवृत्तिर्नवसूत्र्याम्।

-1-2-19- निष्ठा शीङ्स्विदिमिदिक्ष्विदिधृषः ।
एभ्यः सेण् निष्ठा किन्न स्यात् । शयितः शयितवान्। प्रस्वेदितः प्रस्वेदितवान्। प्रक्ष्वेदितः प्रक्ष्वेदितवान्। प्रमेदितः प्रमेदितवान्। प्रधर्षितः प्रधर्षितवान्। स्विदादेः विभाषा भावादिकर्मणोरिट् (7.2.17)।धातुपारायणे तु भौवादिकस्य डीङोऽपि निष्ठायामकित्त्वमुक्तम् उड्डयित उड्डयितवान्।

-1-2-20-मृषस्तितिक्षायाम् ।
         मृषेः क्षमायां निष्ठा किन्न स्यात् । मर्षितः। मर्षितवान्। तितिक्षायां किम्? अपमृषितं वाक्यमाह।

-1-2-21- उदुपधाद् भावादिकर्मणोरन्यतरस्याम् ।
उदुपधाद् धातोर्भावारम्भयोर्निष्ठा किन्न स्याद्वा। द्योतितम् द्युतितं वानेन। "प्रद्योतितं
तावदुडुप्रतानैर्दिवाकरः प्रद्यतितो न यावत्।" एवं मुदप्रभृतेः। अशब्विकरणानान्तु नेष्यते। निगुधितम्।

-1-2-22- पूङः क्त्वा च ।
पूङः क्त्वा निष्ठा च किन्न स्यात्। पवितः पिवितवान्। पवित्वा। पूङश्चेतीट् (7.2.51)। क्त्वाग्रहणमुत्तरार्थम्।

-1-2-23 -नोपधात् थफान्ताद्वा ।
थकारान्तान्नोपधाद् धातोः फकारान्ताच्च क्त्वा किद्वा स्यात्। श्रथित्वा श्रन्थित्वा। ग्रथित्वा ग्रन्थित्वा।
गुफित्वा गुम्फित्वा। नोपधात् किम् ? रेफित्वा। थफान्तात् किम् ? स्रंसित्वा।
 
-1-2-24- वञ्चिलुञ्च्यृतश्च ।
एभ्यः क्त्वा किद्वा स्यात्। वचित्वा वञ्चित्वा। लुचित्वा लुञ्चित्वा। ऋतित्वा अर्त्तित्वा।

-1-2-25- तृषिमृषिकृशेः काश्यपस्य ।
एभ्यः क्त्वा किद्वा स्यात्। तृषित्वा तर्षित्वा। मृषित्वा मर्षित्वा। कृशित्वा कर्शित्वा।

-1-2-26- रलो व्युपधाद् धलादेः संश्च ।
उ इ वी तदुपधाद् रलन्ताद् हलादेः धातोः क्त्वा संश्च कितौ वा स्याताम्। लिखित्वा लेखित्वा। लिलिखिषति लिलेखिषति। एवं द्युतमुदादेः। द्युतित्वा द्योतित्वा। दिद्युतिषते दिद्योतिषते। रलन्तात् किम् ? देवित्वा दिदेविषति। हलादेः किम् ? एषित्वा एषिषिषति। सेडित्येव। भुक्त्वा बुभुक्षते। उक्तं कित्त्वम्।

-1-2-27- ऊकालोऽज्झ्रस्वदीर्घप्लुतः ।
उकालः = एकमात्रिक ऊकालो द्विमात्रिक ऊ3कालस्त्रिमात्रिकोऽच् क्रमेण ह्रस्वदीर्घप्लुतसंज्ञकः स्यात्। अग्निचित्। ह्रीच्छति। प्लुतो नोदाह्रियते। भाषायां व्यवहारादर्शनात्।

-1-2-28- अचश्च ।
तद्भाविता ह्रस्वादयोऽच एव स्थाने वेदितव्याः। ह्रस्वः। अतिरि। अतिखट्वम्। दीर्धः। स्तूयते। पटूभवति।
अत्र च्छन्दः सूत्राणि द्वादश। <022> इह भाषार्हाण्यपि स्वरसूत्राणि न निबध्यन्ते। स्वरस्य भाषायामप्रचारादनर्थित्वाच्च लोकस्य। वेद एवावश्यकः स्वरप्रयोगः। विस्वरेऽनिष्टापातभयात्।

-1-2-41- अपृक्त एकाल्प्रत्ययः ।
एको योऽल्प्रत्ययः सोऽपृक्त उच्यते। आसीत्। अपृक्त इर्ट्। अर्द्धभाक्। भजो ण्विः (3.2.62)। वेरपृक्तस्य लोपः (6.1.67)।

-1-2-42- तत्पुरुषः समानाधिकरणः कर्मधारयः ।
तुल्याभिधेयपदस्तत्पुरुषः कर्मधारयसंज्ञः स्यात्। पाचकवृन्दारिका। कर्मधारये पुंवत् (6.3.42)।

-1-2-43- प्रथमानिर्निष्टं समास उपसर्जनम् ।
समाससूत्रे प्रथमानिर्दिष्टमुपसर्जनसंज्ञं स्यात्। यथा पञ्चमी भयेन (2.1.37)। वृकभयम्। सप्तमी शौण्डैः (2.1.40)। अक्षशौण्डः।
-1-2-44- एकविभक्ति चापूर्वनिपाते ।
वाक्ये नियतविभक्तिकमुपसर्जनसंज्ञं स्यात् पूर्वनिपातं विना। निर्गतः कौशाम्ब्या निष्कौशाम्बि:। निर्गतं तस्या निष्कौशाम्बिं पश्येत्यादि।
(क) एकविभक्तावषष्ठ्यन्तवचनमिति कात्यायनः। अर्धपिप्पली। उपसर्जनह्रस्वो न भवति।
<023>
-1-2-45- अर्थवदधातुरप्रत्ययः प्रातिपदिकम् ।
अर्थवच्छब्दरूपं प्रातिपदिकमुच्यते। वृक्षः। शुक्लः। डित्थः। कुण्डम्। विप्र:। सर्व:। उच्चै:। अर्थवत् किम् ? वनम्। धनम्। नान्तावधेर्मा भूत्। अधातुः किम् ? हन्तेर्लङि अहन्। नलोपो हि स्यात्। अप्रत्यय: किम् ? काण्डे। कुण्डे। त्रपुणी। ह्रस्वो नपुंसके (1.2.47) इति ह्रस्वः स्यात्।
(क) निपातस्यानर्थकस्य प्रातिपदिकसंज्ञा वक्तव्या । अध्यागच्छति। प्रलम्बते।

-1-2-46- कृत्तद्धितसमासाश्च ।
एते प्रातिपदिकसंज्ञकाः स्युः। कर्त्ता। श्रीः। दाक्षिः। वरणाः। राजपुरुषः। कुम्भकारः। अर्थवत्समुदायानां समासस्यैवेति नियमाद् वाक्यस्य प्रातिपदिकत्वाभावः। राज्ञः पुरुषः।

-1-2-47- ह्वस्वो नपुंसके प्रातिपदिकस्य ।
क्लीबे प्रातिपदिकस्य ह्रस्वः स्यात्। अतिरि। अतिनु। ग्रामणि कुलम्। नेह । रमते कुलम्; काण्डीभूतं कुलम् तिङव्ययोरलिङ्गत्वात्।नेह--वनाग्रम्। वनायेति। बहिरड्गत्वाद् दीर्घस्य।

-1-2-48- गोस्त्रियोरुपसर्जनस्य ।
गोशब्दान्तस्य स्त्रीप्रत्ययान्तस्य चोपसर्जनस्य ह्रस्वः स्यात्। चित्रगुः। स्त्री। निष्कौशाम्बिः। अतिखट्वः। उपसर्जनस्य किम् ? राजकुमारी। स्रीति स्त्र्यधिकारविहितस्य ग्रहणान्नेह। अतितन्त्रीः। अतिश्रीः। अतिलक्ष्मीः।
(क) इर्यसो बहुव्रीहौ प्रतिषेधः । बहुप्रेयसी राजा कुलं वा। इर्यसश्चेति (5.4.156) कपो निषेधः।

-1-2-49- लुक् तद्धितलुकि ।
स्त्रीप्रत्ययस्य लुक् स्यात् तद्धितलुकि सति। पञ्ञ्चशष्कुलिः। क्रीतार्थे ठकोऽध्यर्द्धेति (5.1.28) लुक्। आमलकं फलम्। नित्यं वृद्धेति (4.3.144) मयट्। फले लुक् (4.3.163)।

-1-2-50- इद् गोण्याः ।
तद्धितलुकि सति गोण्या इत् स्यात्। पञ्चगोणिः पटः। योगविभागात् पञ्चसूचिः।

-1-2-51- लुपि युक्तवद् व्यक्तिवचने ।
लुपि लुबर्थे युक्तवत् प्रकृत्यर्थवद् व्यक्तिवचने लिड्गसंख्ये स्याताम्। वङ्गस्यापत्यानि बहूनि वड्गाः। तेषां निवास (4.2.69) इत्यणो जनपदे लुप् (4.2.81)। वड्गाः जनपदः। पञ्चलाः। कुरवः। पुण्ड्राः। लुपि किम्? लवणाल्लुक् (4.4.24)। लवण: सूप:। लवणा यवागू:। अभिधेयस्यैव लिड्गसंख्ये स्याताम्।
(क) हरीतक्यादिषु व्यक्तिः ।न वचनम्। हरीतक्या विकाराः फलानि हरीतक्यः फलानि। विकाराणो
हरीतक्यादिभ्यश्चेति (4.3.167) लुप्।
(ख) खलतिकादिषु वचनम् । न व्यक्तिः। खलतिकस्य गिरेरदूरभवानि खलतिकं वनानि। अदूरभवश्चेत्यणो (4.2.70) वरणादिभ्यश्चेति (4.2.82) लुप्।
(ग) समास उत्तरपदस्यैव बहुवचनविषयस्य युक्तवद्भावः इति भाष्यम्। मथुरा च पञ्चालाश्च मथुरापञ्ञ्चालाः। उत्तरपदस्यैवेति किम् ? पञ्ञ्चालमथुरे।

-1-2-52- विशेषणानाञ्चाजातेः ।
लुबर्थस्य विशेषणानाञ्च तथा स्यात्। अङ्गाः सम्पन्ना बहुक्षीरघृताः। अजातेः किम् ? वङ्गा जनपदो रमणीयः।
(क) मनुष्यलुपि प्रतिषेधः। चञ्ची मनुष्यो दर्शनीयः। चञ्चा दर्शनीयेति मा भूत्। इवे प्रतिकुतौ (5.3.96) कन्। तस्य लुम् मनुष्य इति (5.3.98) लुप्।

-1-2-53- तदशिष्यं संज्ञाप्रमाणत्वात् ।
तदिति व्यक्तिवचनलक्षणं न कर्त्तव्यम्। संज्ञाप्रमाणत्वात्। संज्ञाशब्दा एतेऽङ्गाः वङ्गाः वरणा इति। नानालिङ्गसंख्या एव प्रमाणं यथापो दारा गृहा वर्षाः।

-1-2-54- लुब् योगाप्रख्यानात् ।
जनपदे लप् (4.2.81) वरणादिभ्यश्चेति (4.2.82) लुबप्यशिष्यः। योगस्य सम्बन्धस्यानुपलब्धेः। नहि पञ्चालानां स्वामित्वात् पञ्चाला जनपदः। वृक्षयोगाद्वरणा ग्रामः।

-1-2-55- योगप्रमाणे च तदभावेऽदर्शनं स्यात् ।
यदि हि वृक्षादियोगः प्रमाणं स्यात् तदा वृक्षाद्यभावे वरणपञ्चालादेरप्रयोगः स्याद् यथा दण्डसम्बन्धाभावे दण्डिनः। तस्माद्रूढिरियम्।

-1-2-56- प्रधानप्रत्ययार्थवचनमर्थस्यान्यप्रमाणत्वात् ।
प्रधानोपसर्जने प्रधानार्थं सह ब्रूतः, क्रियाप्रधानमाख्यातं, साधनप्रधानः कृदन्त, उत्तरपदार्थप्रधान स्तत्पुरुष इत्यादि वचनम्, प्रकृतिप्रत्ययौ प्रत्ययार्थं सह ब्रूत इति च पूर्वाचार्यपरिभाषितं न वक्तव्यम्। कुतः ? अर्थस्य शास्त्रादन्यो लोकस्तत्प्रमाणत्वात्। अनधीतव्याकरणोऽपि राजपुरुषमौपगवञ्चानयेत्युक्ते राजविशिष्टं पुरुषमुपगुविशिष्टञ्चापत्यमानयति।
 
-1-2-57- कालोपसर्जने च तुल्यम् ।
काल उपसर्जनञ्च न परिभाष्यम्। यतः पूर्वेण तुल्यम्। लोकत एवावगतेरिति प्रत्याख्यानम्। माथुर्यां तु वृत्तावशिष्यग्रहणमापादमनुवत्तर्ते।
<026>
-1-2-58- जात्याख्यायामेकस्मिन् बहुवचनमन्यतरस्याम् ।
जात्यर्थ एको बहुवद्वा स्यात्। सम्पन्नो यवः, सम्पन्ना यवा वा। एकस्मिन् किम् ? सम्पन्नो व्रीहियवौ। संख्याप्रयोगे प्रतिषेधः। एको व्रीहिः सम्पन्नः सुभिक्षकरः।

-1-2-59- अस्मदो द्वयोश्च।
अस्मद् एकत्वे द्वित्वे च बहुवचनं वा स्यात्। अहं करोमि वयं कुर्मो वा। आवां कुर्वो वयं कुर्मो वा। व्यवस्थितविभाषया सविशेषणानां प्रतिषेधः। अहं पटुर्ब्रवीमि। आवां पटुतरौ छात्रौ ब्रूवः। युष्मदि गुरावेकेषामिति जयादित्यः। त्वं गुरुर्यूयं गुरवः।
 
-1-2-60- फल्गुनीप्रोष्ठपदानाञ्च नक्षत्रे ।
फल्गुन्योर्द्वयोः प्रोष्ठपदयोश्च नक्षत्रे बहुवचनं वा स्यात्। पूर्वे फल्गुन्यौ, पूर्वाः फल्गुन्यो वा। पूर्वे प्रोष्ठपदे पूर्वाः
प्रोष्ठपदा वा। नक्षत्रे किम् ? फल्गुन्यौ माणविके।

-1-2-61- छन्दसि पुनर्वस्वोरेकवचनम् ।

-1-2-62- विशाखयोश्च ।
छन्दः सूत्रद्वयम्।

-1-2-63- तिष्यपुनर्वस्वोर्नक्षत्रद्वन्द्वे बहुवचनस्य द्विवचनं नित्यम् ।
तिष्य एकः पुनर्वसू द्वौ। तेषां नक्षत्रद्वन्द्वे बहुवचने प्राप्ते द्विवचनं विधीयते। उदितौ तिष्यपुनर्वसू। अर्थग्रहणात् सिद्ध्यपुनर्वसू। बहुवचनस्य किम् ? इदं तिष्यपुनर्वसु। एतदेव ज्ञापकं सर्वो द्वन्द्वो विभाषैकवद् भवतीति। उक्तः संख्यातिदेशः।
<027>
-1-2-64- सरूपाणामेकशेष एकविभक्तौ ।
तुल्यरूपाणामेकोऽवशिष्यते। वृक्षश्च वृक्षश्च वृक्षौ। वृक्षश्च वृक्षश्च वृक्षश्च वृक्षाः।
सरूपसमुदायाद्धि विभक्तिर्या विधीयते।
एक स्तत्रार्थवान् सिद्धः समुदायस्य वाचकः।। 1 ।।
रूपग्रहणादर्थभेदेऽपि भवति। व्रीहिश्च माषः। मानञ्च माषः। मूर्खश्च माषः। माषाः। "पादा रश्म्यङ्घ्रितुर्यांशाः।" एकविभक्तौ किम् ? विप्राभ्यां कृतं विप्राभ्यां देहि।
(क) समानार्थानाञ्च भिन्नरूपाणां क्वचिदेकशेषो वक्तव्यः । वक्रदण्डश्च कुटिलदण्डश्च वक्रदण्डौ कुटिलदण्डौ वा।

-1-2-65- वृद्धो यूना तल्लक्षणश्चेदेव विशेषः ।
यूना सह वचने वृद्धः शिष्यते। युवा निवर्त्तते। वृद्धयुवप्रत्ययलक्षण एव चेद्विशेषः। गार्ग्यश्च गार्ग्यायणश्च गार्ग्यौ। नेह। गार्ग्यवात्स्यायनौ। अपत्यमन्तर्हितं वृद्धमुच्यते।

-1-2-66- स्री पुंवच्च ।
यूना सह वचने वृद्धा स्त्री शिष्यते पुंवच्च स्त्र्यर्थः स्यात्। गार्गी च गार्ग्यायणश्च गार्ग्यौ। दाक्षी च दाक्षायणश्च दाक्षी। वात्सी च वात्स्यायनश्च वात्स्यौ। नेह। गार्गीवात्स्यायनौ। दाक्षीवात्स्यायनौ।

-1-2-67-पुमान् स्त्रिया ।
स्त्रिया सहोक्तौ पुमाञ् शिष्यते। देवश्च देवी च देवौ। असुरौ। <028> ब्राह्मणौ। कुक्कुटौ। मयूरौ। गौरयं गौरियमेतौ गावौ। शिवश्च शिवा च शिवौ। "कथयति शिवयोः शरीरयोगम्"। तल्लक्षणश्चेदित्येव। कुक्कुटमयूर्यौ।

-1-2-68- भ्रातृपुत्रौ स्वसृदुहितृभ्याम् ।
स्वस्रा भ्राता दुहित्रा पुत्रश्च शिष्यते। भ्राता च स्वसा च भ्रातरौ। पुत्रश्च दुहिता च पुत्रौ।

-1-2-69- नपूंसकमनपुंसकेनैकवच्चास्यान्यतरस्याम् ।
अनपुंसकैश्च सहोक्तौ नपुंसकं शिष्यते। एकवच्चास्य वा स्याल्लिङ्गलक्षण एव चेद्विशेषः। शुक्लः प्रावारः शुक्ला शाटी शुक्लं वस्त्रं तदिदं शुक्लं तानीमानि शुक्लानि वा। अनपुंसकेन किम् ? शुक्लञ्च शुक्लञ्च शुक्लञ्च शुक्लानि। एकवन्न भवति।

-1-2-70- पिता मात्रा ।

-1-2-71- श्वशुर: श्वश्र्वाः ।
मातृश्वश्रूभ्यां सहोक्तौ पितृश्वशुरौ वा शिष्येते। "जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ"। मातापितरौ च।
श्वशुरौ श्वश्रूश्वशुरौ च।

-1-2-72- त्यदादीनि सर्वैर्नित्यम् ।
सर्वैरिति त्यदादिभिरन्यैश्च सहोक्तौ त्यदादीनि शिष्यन्ते। स च देवदत्तश्च तौ। यश्च विप्रश्च यौ।
त्यदादीनाञ्च यद् यत् परं तत् तच्छिष्यत इत्येके। स च यश्च यौ। यश्च कश्च कौ। स च त्वञ्च युवाम्। स च त्वं चाहञ्च वयम्।

-1-2-73- ग्राम्यपशुसंघेष्वतरुणेषु स्त्री ।
ग्राम्याणामतरुणपशूनां सङ्घेषु सहोक्तौ स्त्री शिष्यते। गाव इमाः। अजा इमाः। संघेषु किम् ? एतौ गावौ। अतरुणेषु किम् ? वत्सा इमे। अनेकशफेष्वभिधानान्नेह। अश्वा इमे। गर्दभा इमे।
इति महामहोपाध्यायश्रीपुरुषोत्तमदेवकृतायां भाषावृत्तौ
प्रथमाध्यायस्य द्वितीयः पादः ।। 1।2 ।।
।।समाप्तश्च कुटादिपादः ।।