भृगुसंहिता/एकत्रिंशोऽध्यायः

← त्रिंशोऽध्यायः भृगुसंहिता
एकत्रिंशोऽध्यायः
[[लेखकः :|]]
द्वात्रिंशोऽध्यायः →

अथैक त्रिंशोऽध्यायः.

संप्रोक्षणत्रयम्.
अथ वक्ष्यामि तत्रोक्तप्रायश्चित्तस्य संग्रहं ।
जलसंप्रोक्षणं चैव लघुसंप्रोक्षणं तथा ।। ३१.१ ।।

महासंप्रोक्षणं चेति प्रायश्चित्तं त्रिधा स्मृतं ।
निमित्ते समनुप्राप्ते ज्ञात्वा गौरवलाघवं ।। ३१.२ ।।

वक्ष्यमाणक्रारेण सद्यस्संप्रोक्षणं चरेथ् ।
संप्रोक्षणविधानस्य न कालनियमस्स्मृतः ।। ३१.३ ।।

न कुर्यान्मासनक्षत्र तिथिवाराद्यवेक्षणं ।
तस्मान्निमित्ते संप्राप्ते सद्यस्संप्रोक्षणं चरेथ् ।। ३१.४ ।।

देशकालाद्यवेक्षाया निमित्ते सति गौरवं ।
बहुबेरेषु चैकस्मिन्स्थावरे जङ्गमेऽथ वा ।। ३१.५ ।।

अर्चनायां विहीनायां कालातीते विपर्यये ।
निर्माल्यपूजने चैव निवेदितनिवेदने ।। ३१.६ ।।

एकाहेऽप्यर्चनाहीने नित्यस्नापनवर्जने ।
बलिहोमादिहीनेच नित्योत्सवविवर्जने ।। ३१.७ ।।

प्राकाराभ्यन्तरे प्राप्ते प्रमादादशुभे सति ।
अस्पृश्यागमने तत्र चण्डालाद्यैः प्रवेशने ।। ३१.८ ।।

श्वकुक्कुट वराहोष्ट्रगर्दभानां प्रवेशने ।
उदक्यया सूतिकया पाषण्डाद्यैरथापि वा ।। ३१.९ ।।

कुण्डगोलव्रतभ्रष्टतुरुष्कादिप्रवेशने ।
अन्यसूत्रिद्विजैस्स्पृष्टे मोहादज्ञानतोऽपिवा ।। ३१.१० ।।

महावातहते बिंबे संसिक्ते वर्षबिन्दुभिः ।
विण्मूत्ररुधिरस्रावे बहुजल्पे च मैथुने ।। ३१.११ ।।

एवमादिनिमित्ते तु जलसंप्रोक्षणं चरेथ् ।
नैवासंप्रोक्षिते बिंबे हरिर्वसति निश्चयः ।। ३१.१२ ।।

तस्माद्बिंबविशुद्ध्यर्थं संप्रोक्ष्यैव समर्चयेथ् ।
दोषाधिक्ये समुत्पन्ने लघुसंप्रोक्षणं चरेथ् ।। ३१.१३ ।।

राष्ट्रक्षोभे च दुर्भिक्षे तन्त्रसंकरदूषणे ।
शूद्रैर्वाथानुलोमैर्वापाषण्डैर्भ्रमितैरपि ।। ३१.१४ ।।

उदक्यया सूतिकया पतितैर्वाथ पातकैः ।
चण्डालाद्यैः प्रविष्टे च गर्भागारे विशेषतः ।। ३१.१५ ।।

सूतैर्वा कुण्डगोलाद्यैस्तथा देवलकादिभिः ।
श्वकुक्कुट वराहाद्यैः प्रविष्टे गार्दभादिभिः ।। ३१.१६ ।।

उलूकगृध्रकाकाद्यैः प्रविष्टेऽन्तर्गृहे तथा ।
तुरुष्काद्यैःप्रविष्टे वा शुक्रणोणितयोरपि ।। ३१.१७ ।।

विण्मूत्रादेर्विसर्गे वा गर्भागारेर्धमण्डपे ।
त्षहादूर्ध्वं विहीने तु पूजने दीपवर्जने ।। ३१.१८ ।।

एक रात्रमतिक्रम्य देवेग्रामान्तरस्थिते ।
आग्निदाहेऽशनीपाते गर्भागारेर्ऽधमण्डपे ।। ३१.१९ ।।

अन्यसूत्षर्चिते बिंबेस्पृष्टे वा बुद्धिपूर्वकं ।
अन्यैरनुक्तैर्देषैश्च लघुसंप्रोक्षणं चरेथ् ।। ३१.२० ।।

महानिमित्ते संप्राप्ते महासंप्रोक्षणं चरेथ् ।
द्वादशाहात्समारभ्य वत्सरान्तं विधानतः ।। ३१.२१ ।।

हीनायामर्चनायां च नित्ये नैमित्तिके तथा ।
क्रियाहीने विपर्यासे हीने मासोत्सवादिके ।। ३१.२२ ।।

नित्यस्नपनहीनेऽपि मात्रादानविहीनके ।
बलिहोमादिहीने च संप्राप्ते शास्त्रसंकरे ।। ३१.२३ ।।

एवमादिषु हीनेषु वत्सरान्तं प्रमादतः ।
पर्षदां परिवाराणामाश्रितालयसेविनां ।। ३१.२४ ।।

ध्वजारोहणपूर्वं तु कृते कालोत्सवादिके ।
विप्रादिमरणे प्राप्ते देवागारे विशेषतः ।। ३१.२५ ।।

गर्दभाश्वलुलायोष्ट्रश्वसूकरमुखे मृते ।
गजादिमृगनाशे च देवागारे प्रमादतः ।। ३१.२६ ।।

चण्डालाद्यन्त्यजातीनां मरणे वा विशेषतः ।
शूद्रैर्वाथानुलोमैर्वा पाषण्डैः पतितादिभिः ।। ३१.२७ ।।

संस्पृष्टे वैष्णवे बिंबे तुरुष्काद्यैर्मलिम्लुचैः ।
स्पृष्टे चण्डालकाद्यैर्वा महापातकदूषितैः ।। ३१.२८ ।।

विमानेऽशनिपाते वा महोल्का पतनेऽपि वा ।
लोहितो पलवर्षे च वांसुवर्षे विशेषतः ।। ३१.२९ ।।

भूकंपाच्चलिते बिंबे वल्मीकस्य समुद्भवे ।
शिथिलिभवने वापि चाष्टबन्धे विशेषतः ।। ३१.३० ।।

जीर्णे स्तंभादिपतने देवागारेन वीकृते ।
अग्निस्पर्शे च बेरस्य मनुष्यप्रसवे तथा ।। ३१.३१ ।।

सुथाकर्मणि सर्वत्र गर्भगेहादिके पुनः ।
बिंबेषु गर्भगेहे वा कृमिकीटादिदर्शने ।। ३१.३२ ।।

हसने रोदने चैव भाषणे च विशेषतः ।
स्वेदशोणितयोर्वापि दर्शने वर्णसंक्षये ।। ३१.३३ ।।

विमाने मण्डपे वाथ यत्र कुत्रापि वा हरेः ।
देवागारे समुत्पन्ने दोषेष्वेतेषु वा पृथक् ।। ३१.३४ ।।

दुर्भिक्षे राष्ट्रसंक्षोभे दुर्निमित्तेषु चैव हि ।
दुस्स्वप्ने भूमिकंपे वा परराजाद्युपद्रवे ।। ३१.३५ ।।

भूगुप्ते चोद्धृते बिंबे चिरमन्यालये स्थिते ।
अतिक्रम्य त्रिरात्रं तु देवे ग्रामान्तरे स्थिते ।। ३१.३६ ।।

कुण्डगोलकसूताद्यैर्दीक्षितैरर्चने कृते ।
अनुक्तानि च कर्वाणि दुरितान्यद्भुतानि च ।। ३१.३७ ।।

दृष्ट्वातु यजमानश्च ये तत्परिसरे जनाः ।
ग्रामस्थिता चनाश्चैव राजा राष्ट्रं च यत्नतः ।। ३१.३८ ।।

ज्ञात्वा शास्त्रोक्तविधिना दोषजं भक्तितः फलं ।
महासंप्रोक्षणं कुर्यान्महादोषापनुत्तये ।। ३१.३९ ।।

महदोषेषु सर्वत्र महाशान्तिर्विथीयते ।
पूर्वं स्थापितबिंबस्य न साधारणहेतुना ।। ३१.४० ।।

स्यात्पुनस्थ्सापनं तस्मान्महासंप्रोक्षणं चरेथ् ।
महासंप्रोक्षणविधेर्नूतनस्थापनस्य च ।। ३१.४१ ।।

स्वल्पो भेद इति प्रोक्तमृषिभिः काश्यपादिभिः ।
जलसंप्रोक्षणविधिं प्रवक्ष्यामि तपोधनाः ।। ३१.४२ ।।

यजमानाभ्यनुज्ञातो गुरुस्स्नात्वा विधानतः ।
आलयाभिमुखे वापि दक्षिणे वा मनोरमे ।। ३१.४३ ।।

स्थण्डिले सैकते शुद्धे पुण्याहाग्निमुखात्वरं ।
वास्तुहोमावसाने च दोषदुष्टं तु यत्स्थलं ।। ३१.४४ ।।

पर्यग्निपञ्चगव्याभ्यां संस्क्रत्य विधिना बुधः ।
बिंबं पुरुषसूक्तेन कलशैरभिषिच्य च ।। ३१.४५ ।।

षट्द्रोणधान्य राशौ तु पञ्चकुंभान्निधाय च ।
वस्त्रयुग्नेन संवेष्ट्य प्रतिमास्तेषु निक्षिपेथ् ।। ३१.४६ ।।

नालिकेराम्रपत्राद्यैरलङ्कृत्य पृथक्घटान् ।
पञ्चसूक्तं जपित्वैव पञ्चशान्तिभिरेव च ।। ३१.४७ ।।

पञ्चमूर्तिभिरावाह्य समभ्यर्च्याष्टविग्रहैः ।
पश्चादग्निं परिस्तीर्य पञ्चसूक्तं हुनेत्सुधीः र् ।। ३१.४८ ।।

इङ्कारादींश्च जुहुयादष्टाशीतिमतः परं ।
पञ्चवारुणमन्त्रैश्च महाव्याहृतिभिस्सह ।। ३१.४९ ।।

पश्चादग्निं विसृज्यैव गुरवे दक्षिणां ददेथ् ।
निष्काहीनसुवर्णं च वस्त्राभरणकुण्डलान् ।। ३१.५० ।।

पश्चात्कुंभजलेनैव प्रोक्षयित्वा समन्त्रकं ।
प्रभूतं च निवेद्यैव नित्यार्चनमथाचरेथ् ।। ३१.५१ ।।

अनेन विधिना दोषा नश्यत्येव न संशयः ।
तद्बिंबे देवसान्निध्यं भवेदित्याह चाङ्गिराः ।। ३१.५२ ।।

एतावानेव संप्रोक्तो जलसंप्रोक्षणक्रमः ।
लघुसंप्रोक्षणं कुर्याद्यजमानेन वै गुरुः ।। ३१.५३ ।।

यथार्हं पूजितः पूर्वमारंभदिवसादधः ।
त्षहे वा द्वियहे वापि कृत्वा चैवाङ्कुरार्पणं ।। ३१.५४ ।।

औपासनाग्नौ श्वोभूते वास्तुहोमं विधाय च ।
पर्यग्नि पञ्चगव्याभ्यां शोधयित्वा समन्ततः ।। ३१.५५ ।।

अभिषिच्य च देवेशमष्टोत्तरशतैर्घुटैः ।
शोथयित्वा विधानेन वस्तुवास्तुपरिच्छदान् ।। ३१.५६ ।।

पश्चात्पद्माग्निमासाद्य कृताघारं विधानतः ।
कुंभपूजां ततः कुर्यात्सम्यक्ध्यानयुतो गुरुः ।। ३१.५७ ।।

द्वात्रिंशत्प्रस्थसंपूर्णान्कुंभानाहृत्य शोभनान् ।
तन्तुना वेष्टयित्वा तु तोयैरापूर्य मन्त्रत ।। ३१.५८ ।।

षड्भारधान्यरोशौ तु वेद्यां सप्तदश क्रमाथ् ।
वस्त्रयुग्मेन संवेष्ट्य प्रतिमास्तेषु निक्षिपेथ् ।। ३१.५९ ।।

निष्कत्रयकृतांस्तत्र नव रत्नानि यत्नतः ।
रत्नालाभे सुवर्णं वा प्रत्येकं निक्षिपेद्घटे ।। ३१.६० ।।

गन्धपुष्पैस्समभ्यर्च्य नालिकेराम्रपल्लवैः ।
आयुधैःपञ्चभिस्तद्वत्तोरणैरष्टमङ्गलैः ।। ३१.६१ ।।

अलङ्कृत्य गुरुर्धीमान्त्पृष्ट्वा कूर्चेन तान्घटान् ।
पञ्चसूक्तं पञ्चशान्तिं ततो द्वादशसूक्तकं ।। ३१.६२ ।।

सारस्वतादिसूक्तं च दिक्सूक्तं पञ्चवारुणं ।
स्वस्तिसूक्तं जपित्वैव तथैवौषधिसूक्तकं ।। ३१.६३ ।।

नवमूर्तिभिरावाह्य देवीभ्यां सह पार्षदैः ।
द्वात्रिंशद्विग्रहैस्सम्यगभ्यर्च्य तु निवेदयेथ् ।। ३१.६४ ।।

पैण्डरीकाग्निमासाद्य परिषिच्य च पावकं ।
पञ्चसूक्तेन जुहुयाद्व्यापकत्रयमन्त्रतः ।। ३१.६५ ।।

अष्टोत्तरशतं तद्वदष्टाविंशतिरेव वा ।
रिङ्कारादींश्च जुहुयादष्टाशीतिमतः परं ।। ३१.६६ ।।

धातादिं मूलहोमं च पञ्चवारुणमेव च ।
हुत्वा कूश्माण्डहोमं च पञ्चवारुणमेव च ।। ३१.६७ ।।

पङ्कजैर्बिल्वपत्रैर्वा विष्णुगायत्रिया ततः ।
अष्टोत्तरशतं हुत्वा पश्चादग्निं विसर्चयेथ् ।। ३१.६८ ।।

पश्चाद्गुरुः पूजितस्सन्वस्त्राभरणकुण्डलैः ।
कुंभमादाय शिरसो ग्राममालयमेव वा ।। ३१.६९ ।।

प्रदक्षिणं परीत्याथ देवदेवस्य सन्निधौ ।
कूर्चेनादाय तत्तोयं प्रोक्षयेत्पञ्चमूर्तिभिः ।। ३१.७० ।।

"शुची वो हव्यऽऽ मन्त्रेण प्रोक्षयेत्सर्वमन्दिरं ।
उपचारैस्समभ्यर्च्य "क्षमऽऽस्वेति प्रणम्य च ।। ३१.७१ ।।

महाहविः प्रभूतं वा देवेशाय निवेदयेथ् ।
ब्राह्मणानां सहस्रं च भोजयेद्गुरुणा सह ।। ३१.७२ ।।

गुरवे दक्षिणां दद्यात्सुवर्णं पञ्चनिष्ककं ।
प्रदद्याद्भूमिमिष्टां च प्रोन्मिषत्सस्यमालिनीं ।। ३१.७३ ।।

दशदानं ततः कृत्वा नित्यार्चनमथाचरेथ् ।
एवं यः कुरुते भक्त्या लघुसंप्रोक्षणं हरेः ।। ३१.७४ ।।

विष्णुसान्निध्यमाप्नोति दोषशान्तिश्च जायते ।
राजराष्ट्राभिवृद्धिश्च जगत्पुष्टिकरं भवेथ् ।। ३१.७५ ।।

लघुसंप्रोक्षणविधिर्मया प्रख्यापितः किल ।
काश्यपाद्यैश्च मुनिभिरेवमेव प्रचोदितः ।। ३१.७६ ।।

महासंप्रोक्षण विधौ विशेषो वक्ष्यते मया ।
जलाधिवासरहितं नेत्रोन्मीलनवर्जनं ।। ३१.७७ ।।

प्रतिष्ठोक्तविधानेन सर्वं पूर्ववदाचरेथ् ।
नेत्रयोस्तेजने तद्वद्दृष्टिदोषे विशेषतः ।। ३१.७८ ।।

जलाधिवासनं कुर्यादक्ष्णोरुन्मीलनं पुनः ।
महाशान्तिविधानस्य विशेषोऽत्र प्रकीर्तितः ।। ३१.७९ ।।

जङ्गमप्रतिमास्सर्वा अधिवासपुरस्सरं ।
प्रोक्षयित्वा विधानेन देवं पूर्ववदर्चयेथ् ।। ३१.८० ।।

महानिमित्ते संप्राप्ते यजमानार्थितो गुरुः ।
प्रतिष्ठोक्तदिने विद्वानृत्विग्भिर्लक्षणान्वितैः ।। ३१.८१ ।।

वस्त्रैराभरणैश्चापि पूर्वोक्तमिव भूषितः ।
प्रोक्षणादिवसात्सूर्वमङ्कुरार्पणमाचरेथ् ।। ३१.८२ ।।

द्रव्याण्यपि सुसंभृत्य यागशालां प्रविश्य च ।
कदलीपूगमालाद्यैः पताकाद्यैरलङ्कृतां ।। ३१.८३ ।।

तन्मध्येकल्पयेद्वेदिं शयनार्थं विधानतः ।
तस्यास्तु पूर्वदिग्भागे कुंभवेदिं सलक्षणं ।। ३१.८४ ।।

परितश्चाग्निकुण्डांश्च पैण्डरीकं च कारयेथ् ।
देवालयं च संशोध्य मृष्टसिक्तोपलेपनैः ।। ३१.८५ ।।

आचार्यस्सुप्रसन्नात्मा यजमानार्थितो मुहुः ।
स्नात्वास्नानविधानेन गायत्रीं च सहस्रशः ।। ३१.८६ ।।

जप्त्वा द्वादशसूक्तानि पुण्याहमपि वाचयेथ् ।
वास्तुहोमं ततः कृत्वा कुण्डे त्वौपासने गुरुः ।। ३१.८७ ।।

पर्यग्नि पञ्चगव्याभ्यां संशोध्यैव च सर्वतः ।
गार्हपत्यादिकुण्डेषु क्रमादाघारमाचरेथ् ।। ३१.८८ ।।

पक्वबिंबसमाकारघटानां पञ्चविंशतिं ।
तन्तुना त्रिवृता वेष्ट्य शोधयित्वा सुधूपितान् ।। ३१.८९ ।।

आदाय मन्त्रवद्दिव्यं जलमाहृत्य यत्नतः ।
पूताभिरद्भिरापूर्य नालिकेराम्रपल्लवैः ।। ३१.९० ।।

अलङ्कृत्य तथा कूर्चैर्गन्धपुष्पाक्षतादिभिः ।
यवैर्वाह्रीहिभिर्वाथ वेद्यां द्वादशभारकैः ।। ३१.९१ ।।

आस्तीर्य तेषु संस्थाप्य पृथग्वस्त्रेण वेष्टयेथ् ।
सौवर्णप्रतिमास्तत्र पञ्चनिष्ककृताः पृथक् ।। ३१.९२ ।।

गजकूर्मादिरूपाणि नवरत्नादि च क्षिपेथ् ।
ध्यानमार्गेण कुंभेषु मध्यमादिषु चक्रमाथ् ।। ३१.९३ ।।

नवमूर्तिक्रमेणैव मन्त्रेणावाहयेद्गुरुः ।
वेद्यधस्थेषु कुंभेषु चें दादीनष्टदिक्पतीन् ।। ३१.९४ ।।

आवाह्य गन्धपुष्पाद्यैस्समभ्यर्च्य निवेदयेथ् ।
सहस्रकलशैस्स्नाप्य स्नपनोक्तप्रकारतः ।। ३१.९५ ।।

सौवर्णं कौतुकं बद्ध्वा प्रतिष्ठोक्तविधानतः ।
शय्यावेदिं समभ्युक्ष्य पञ्चतल्पान्प्राकल्प्यच ।। ३१.९६ ।।

शालिव्रीहियवैश्चापि षड्भारैश्च पृथक्पृथक् ।
तदर्धैस्तण्डुलैश्चाथ तदर्धैश्च तिलैस्तथा ।। ३१.९७ ।।

उपर्युपरि चास्तीर्य चर्मजादीन्समास्तरेथ् ।
शयने शाययेद्वेद्यामौत्सवं बिंबमुक्तवथ् ।। ३१.९८ ।।

कूर्चाधिवासं कुर्वीत ध्रुवमात्रं यदिक्रमाथ् ।
वेदानध्यापयेद्दिक्षु "ऋचां प्राचीऽऽरिति श्रुतिः ।। ३१.९९ ।।

गार्हपत्यादिकुण्डेषु प्रतिष्ठोक्तविधानतः ।
ऋत्विग्भिः कारयेद्धोमं तत्तद्दैवत्यपूर्वकं ।। ३१.१०० ।।

गुरुस्सभ्याग्निमासाद्य परिषिच्य च पावकं ।
पञ्चसूक्तं क्रमेणैव महाव्याहृतिपूर्वकं ।। ३१.१०१ ।।

व्यापकत्रयमन्त्रं च विष्णुगायत्रिया पुनः ।
अषोत्तरशतं हुत्वा व्याहृत्या च तथैव च ।। ३१.१०२ ।।

ततोऽब्जाग्निं समासाद्य पञ्चसूक्तैस्सहैव तु ।
धातादिमूलहोमं च पञ्चवारुणसंयुतं ।। ३१.१०३ ।।

महाशान्त्युक्तमन्त्रांश्च त्रिरावर्त्य हुनेत्ततः ।
कुंभवेदिं समासाद्य समभ्यर्च्याष्टविग्रहैः ।। ३१.१०४ ।।

स्पृष्ट्वा कूर्चेन तत्कुंभानृत्विग्भिस्सह वै गुरुः ।
आत्मसूक्तं जपित्वैव पञ्चसूक्तमतः परं ।। ३१.१०५ ।।

स्वस्तिसूक्तं च दौर्गं च रात्रिमेकाक्षरं तथा ।
अष्टदिक्पालसूक्तानि पञ्चशान्तिमतः परं ।। ३१.१०६ ।।

"आपो हिरण्यवर्णाऽऽभ्यां पावमानीभिरेव च ।
जप्त्वा द्वादशसूक्तं च ततस्सभ्यानले क्रमाथ् ।। ३१.१०७ ।।

हौत्रप्रशसनं कुर्यात्सर्वं होत्तु पूर्ववथ् ।
चतुर्मूर्तिक्रमेणैव सहस्राहुतिना सह ।। ३१.१०८ ।।

"यद्देवाऽऽद्यैश्च कूश्माण्डैस्सर्वदैवत्यमन्त्रकैः ।
हुत्वातु दोषशान्त्यर्थं लोजैस्तद्वत्तिलैरपि ।। ३१.१०९ ।।

सापूपैर्विष्णुगायत्षा हुत्वाकुण्डेषु पूर्ववथ् ।
अष्टोत्तरशतं तद्वदष्टाविंशतिरेव वा ।। ३१.११० ।।

परिषेगं ततः कृत्वा पैण्डरीके विशेषतः ।
पद्मैर्वा बिल्वपत्रैर्वा विष्णुगायत्रिया ततः ।। ३१.१११ ।।

अषोत्तरसहस्रं तु घृतेनाप्लुत्य वै हुनेथ् ।
पारमात्मिकमन्त्रैश्च रिङ्काराद्यैश्च यत्नतः ।। ३१.११२ ।।

अष्टाशीतिं ततो हुत्वा महाव्याहृतिपूर्वकं ।
हुत्वा तद्दोषनाशाय राजराष्ट्राभिवृद्धये ।। ३१.११३ ।।

सभ्याग्निं पौण्डरीकाग्निं हित्वान्येष्वन्तहोमकं ।। ३१.११४ ।।

नृत्तगीतादिवाद्यैश्च रात्रिशेषं नयेद्गुरुः ।
प्रातस्स्नात्वा विधानेन कलशैस्स्नपनं चरेथ् ।। ३१.११५ ।।

पञ्चसूक्तैश्च संस्नाप्य पञ्चशान्तिसमन्वितं ।
पश्चाद्देवमलङ्कृत्य सुवस्त्राभरणादिकैः ।। ३१.११६ ।।

गन्धपुष्पैस्सुगन्धैश्च यापन्नेत्रमनःप्रियं ।
मुहूर्ते समनुप्राप्ते कुंभमादाय देशिकः ।। ३१.११७ ।।

स्वस्तिसूक्तं जपन्ग्राममालयं वा प्रदक्षिणं ।
कृत्वा देवाग्रतः कुंभं ध्यान्यपीठे निवेशयेथ् ।। ३१.११८ ।।

यजमानेन शक्त्यावै गुरुस्संपूजितस्तदा ।
कूर्यादनन्तरोक्तांश्च संस्कारान्भगवत्प्रियान् ।। ३१.११९ ।।

वस्त्रेराभरणैश्शुभ्रैः कुण्डलैश्च विशेषतः ।
यजमानस्सुसंपूज्य पशुभूम्यादिभिर्गुरुं ।। ३१.१२० ।।

गुरवे दक्षिणां दद्यान्निष्काणामेकविंशतिं ।
ऋत्विग्भ्यश्च तथा दद्यात्सुप्रीतो भगवान्हरिः ।। ३१.१२१ ।।

गुरुः पश्चात्समावाह्य समभ्यर्च्याष्टविग्रहैः ।
महाहविर्नि वेद्यैन पायसापूपसंयुतं ।। ३१.१२२ ।।

साज्यं सव्यञ्जनं दत्वा मुखवासं निवेदयेथ् ।
पुष्पाञ्जलिं ततो दत्वा "क्षयऽऽ स्वेति प्रणम्य च ।। ३१.१२३ ।।

सहस्रं ब्राह्मणानां च भोजयेच्छान्तिहेतवे ।
दशदानं विशेषेण देवप्रीतिकं भवेथ् ।। ३१.१२४ ।।

एवमाद्वादशाब्दात्तु प्रतिष्ठामाचरेत्ततः ।
पुनस्थ्सापनसंस्कारात्प्रायश्चित्तं न हीतरथ् ।। ३१.१२५ ।।

तस्मात्सर्वप्रयत्नेन शास्त्रोक्तं सर्वमाचरेथ् ।
एवं यःकुरुते भक्त्या विष्णोस्संप्रोक्षणत्रयं ।। ३१.१२६ ।।

प्रतिष्ठाफलमासाद्य वैष्णवं लोकमाप्नुयाथ् ।। ३१.१२७ ।।


इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां प्रकीर्णाधिकारे एकत्रिंशोऽध्यायः.