← षोडशोऽध्यायः यज्ञाधिकारः
सप्तदशोऽध्यायः
[[लेखकः :|]]
अष्टादशोऽध्यायः →


यज्ञाधिकारः।
अथ सप्तदसोऽध्यायः
------------
विमानविधिः।

अथा तःकौतुकातुकादीनां लक्षणं वक्ष्यतेऽधुना
दारुः शिला च ताम्र ञ्च रजतं स्वर्णमेव च 1
रत्नानि चार्चाद्रव्याणि फलेष्वेकैकमुत्तमम्
शिलया दारुणा रत्नैरौत्सवार्चं न कारयेत्। 2
ध्रुवे स्थिते स्थितं प्रोक्तमासीने त्वासनं बुधाः
शयने स्थानकं वाऽथ आसीनं वाऽथ कौतुकम्। 3
उत्सवं स्नापनं पश्चाद्बलिबेरं विशेषतः
सर्वत्र स्थानकं कुर्याद्देवीभ्या ञ्च यथा तथा 4
औत्सवे स्थानके देवे देव्यावासीन एव वा
औत्सवे च विशेषेण (कौतुकं देवमर्चयेत्। ग।)कौतुके देववच्चरेत् 5
अवतारेषु सर्वेषु तत्त द्रूप ञ्च कौतुकम्
मत्स्यकूर्मौ विनाऽन्यत्र कारयेद्विधिना बुधः 6
औत्सवं त्ववतारेषु स्थितं कुर्याच्चतुर्भुजम्
कारयेद्रामकृष्टौ वा तत्तद्रूपं द्रुवस्य यत् (समयदि) 7
विष्णुं वा ऽप्यवातरेषु कारयेदौत्सवं बुधः
आवाहनेषु पूजायां ध्रुवनाम्ना सपर्चयेत्। 8
अन्यथा नार्चयेद्विद्विन् स्नापनोत्सवकौतुकान्
त्रेताग्निरिवकर्तुस्त देकैकं तत्समं विदुः 9
तस्मात्तत्तद्ध्रुवेणैव ध्यात्वा सम्यक्समर्चयेत्
शरीरे प्राण एकत्वात् तथान्यान्यं समाचरेत् ? 10
शङ्गारार्धं (च तद्विष्णोः रूपमत्रापि चेष्टते।)तयोत्सत्र रूपमात्रमपीष्यते
तस्मात्तदवतारेषु चार्चयेदन्ययोरपि 11
यद्द्रव्येण च देवेशं तद्द्रव्येण च शास्त्रवित्
देव्यादीन् कारयेत्पीठं प्रभामन्य ञ्च तेन वै 12
तद्रूपं वर्गभाग ञ्च कृत्वैकांशं तदुत्तमम्‍
आद्य ? भागं त्रिधाकृत्य एकांशं मध्यमं तथा। 13
तद्द्विभागं त्रिधाकृत्य एकांशं कन्यसं बुधाः
तत्पङ्त्क्यंशं ध्रुवं कुर्यात्तालं स्यादम्बरांशकम्। 14
तालं तद्भानुभाग ञ्च कृत्वैकांशं तदङ्गुलम्
(दशाङ्गुलेन।) तदङ्गुलेन रुद्रादिद्विद्व्यङ्गुल विवर्धनात् 15
सप्तविंशतितुङ्गानि कौतुकादौ विशेषतः
अन्यमानेन वा कुर्यादङ्गुलिच्छेदनं विना 16
अन्ययोर्योग्यमनैश्च स्नापनोत्सवयोरपि


शुभाशुभं तदायाद्यैर्मतिमान् सम्परीक्षयेत् 17
आयादिलक्षणम्।
अग्निना वर्दयेत्तुङ्गमायं स्याद्वसुभिर्हृतम्
आश्रमेण ? गुणीकृत्य व्ययं नागैर्हृतं पुनः 18
चतुर्भुर्गुणितं सूत्रैर्ह्रसं ? तच्छेषमंशकम्
त्रिगुणाकृत्य तन्नागैर्हृतं तद्योनिरुच्यते। 19
वसुभिर्गुणितं कृत्वा क्षयेत्तद्वसुभिर्दिनम्
तन्नन्दैर्गुणितं वारै र्हृतं वारं तथा तिथिः 20
आयाधिक्यं व्यं क्षीणं सर्वसंपच्छु भावहम्।
व्ययाधिक्योऽप्यनर्थः स्यात्समं स्यादिति केचन 21
तस्करो भुक्तिशक्ती च वित्तं चावनिपालकम्
क्लीबं भीतिर्दरिद्र ञ्च प्रोष्यं नन्दांसङ्कं विदुः 22
दरिद्रं तस्करं षण्डं प्रोष्यं त्यक्त्वा शुभावहम्
ध्वजो धूमश्च सिंहश्च श्वा वृषो गर्दभस्तथा। 23
गजश्च वायसश्चेति अष्टधा योनयः क्रमात्
पूर्वं पूर्वं शुभं प्रोक्तमशुभं त्वपरं तथा। 24
ध्वजे च वृषभे सिंहे महासिद्धिकरो भवेत्
कर्तुर्दिनं समारभ्य प्रतिमाया दिनान्तकम्। 25
गणयेद्विपररीतं वा (भूताग्निन्तान्तु भं विना )विपतप्रत्यक् नैधनाः
(शनिच्छाङ्गारमादित्य शुभयोगायदीभवेत्।) नार्क्यर्काङ्गारवाराश्च शुभयोगं हरेद्यदि?
अन्यथा नाचरेत्सर्वं शुभार्थं शुभमाचरेत् 26
----------------
पीठं तत्कातुकादीनां वक्ष्यामि च यथाभलम्। 27
अग्निवेदप्रतिष्ठाश्च रसधात्वष्टनन्दभिः
(तत्) एकांशमूर्ध्वपट्टं स्याद्भिन्नं वा भिन्नमेव वा। 28
तस्य चार्धष्टहीनं स्याद्दलमूर्ध्वोदयं बुधाः
अधः पद्मस्म विस्तारात् पीठं पञ्चांशहीनकम्। 29
(मूलं स्यात्।) उदयं तस्य विस्तारमुदयाद्द्विगुण न्तु वा
अध्यर्धं (चैक।) पादहीनं वा शेषं युक्त्यैव कारयेत्। 30
उपपीठं यदि स्याच्चेद्द्वादशांशं विभज्य च
एकंशं पादुकं तस्य द्व्यंशं पद्मकमेव हि। 31
(पद्मेकांशमेकांशं) कम्पमेकांशकं पश्चातत्र्यंशकं कण्ठमेव च
कम्पमेकांशकं पद्मं द्व्यंशं चोपरिपट्टिका। 32
आसनस्य तु पीटं तद्भेरस्याग्न्यंशकांशकम्
(यथोक्तम्।)वस्वंशमधिकं वाऽथ हीनं वा उदयं बुधाः 33
उदयाद्द्विगुणं दीर्घं त्रिगुणं वेति केचन
पार्श्वयोश्च प्राभाधारं युक्ता सुदृढमाचरेत्। 34
प्रभां मानाधिकारोक्तं कारयेत्प्रतिमार्हकम्


इति श्री वैखानसे भगवच्छास्त्रे (उत्तरतन्त्रे) भृगुप्रोक्तायां
संहितायां यज्ञाधिकारे
(कौतुकादिलक्षण विधिर्नाम षोढशोऽध्यायः।ग।) सप्तदशोऽध्यायः।
----------------------