योगवासिष्ठः/प्रकरणम् ५ (उपशमप्रकरणम्)/सर्गः ४७


सप्तचत्वारिंशः सर्गः ४७

श्रीवसिष्ठ उवाच ।
मुहूर्तद्वितयेनाथ गाधिराधिभवभ्रमात् ।
प्रशशासाकुलीभावो वेलावर्त इवाम्बुधेः ।। १
मनोनिर्माणसंमोहात्तस्मात्स विरराम ह ।
कल्पान्तसमये ब्रह्मा जगद्विरचनादिव ।। २
बोधमाप शनैः शान्तः स्वमेवोन्निद्रधीरिव ।
क्षीबतायां प्रशान्तायां यथा परिणताशयः ।। ३
अयं सोऽहमिदं कार्यमिदं नेति ददर्श ह ।
निशाव्यपगमे लोको यथा क्षीणे तमःपटे ।। ४
स्मृतस्वरूपोऽथ पदमुद्दध्रे स जलान्तरात् ।
शिशिरान्ते प्रवृत्तास्यं सरोजमिव माधवः ।। ५
एतद्वारिककुबूव्योमवतीं वसुमतीमिमाम् ।
अन्यामिव पुनः पश्यन्विस्मयं परमं ययौ ।। ६
कोऽहं किमिव पश्यामि किमकार्षमहं किल ।
एवं विचारयंश्चित्रं सभ्रूभङ्गमभूत्क्षणम् ।। ७
श्रान्तस्तत्क्षणमात्रेण संभ्रमं दृष्टवानहम् ।
इति विज्ञाय सलिलादुदस्थादुदयार्कवत् ।। ८
चिन्तयामास च तटे क्व सा माता क्व सा प्रिया ।
यदाहं मृतिमायातो मध्ये मातृमहेलयोः ।। ९
बालस्य मातापितरौ नष्टौ किल ममामतेः ।
वातनीतस्य पत्रस्य वल्लीवृक्षमिवासिना ।। १०
अविवाहोऽस्मि जानामि न स्वरूपमपि स्त्रियः ।
दुष्टायाः क्षोभकारिण्या मदिराया इव द्विजः ।। ११
अतिदूरतरीभूताः स्वदेशस्य स्वबान्धवाः ।
के नाम मम येषां ते मध्ये जीवं त्यजाम्यहम् ।। १२
तस्मादेतत्समुद्भूतमहं किं नाम दृष्टवान् ।
विविधारम्भसंरम्भं गन्धर्वनगरं यथा ।। १३
तदास्तामेतदेषा हि बन्धुमध्ये मृतस्थितिः ।
मायामोहे मनागस्मिन्न सत्यमुपलभ्यते ।। १४
नित्यमेवमनन्तासु भ्रान्तिदृष्टिषु देहिनाम् ।
चेतो भ्रमति शार्दूलो वनराजिष्विवोन्मदः ।। १५
अवधार्येति तं चित्ते मोहं गाधिर्निनाय सः ।
दिनानि कतिचित्तस्मिन्स्वक एवाश्रमे तदा ।। १६
एकदा गाधिमगमत्कश्चित्तत्र प्रियोऽतिथिः ।
ब्रह्माणमिव दुर्वासाः स विशश्राम सश्रमः ।। १७
परमां तुष्टिमानीतः फलपुष्परसाशनैः ।
सोऽतिथिर्गाधिना तेन वसन्तेनेव पादपः ।। १८
मिथो वन्दितसंध्यौ तौ कृतजाप्यावुभावपि ।
क्रमाच्छयनमासाद्य तस्थतुर्मृदुपल्लवम् ।। १९
ततः प्रावर्तते शान्ता तयोस्तापसयोः कथा ।
स्वव्यापारोचिता पुष्पश्रीरिवर्तुत्वमाशयोः ।। २०
तं पप्रच्छातिथिं गाधिः प्रसङ्गपतितं वचः ।
किं ब्रह्मन्सुकृशाङ्गस्त्वं किमिति श्रमवानसि ।। २१
अतिथिरुवाच ।
ममातिकार्श्यश्रमयोर्भगवन् श्रृणु कारणम् ।
कथयामि तथाभूतं वयं नासत्यवादिनः ।। २२
अस्त्यस्मिन्वसुधापीठे उत्तराशानिकुञ्जके ।
कीरो नामातिविख्यातः श्रीमाञ्जनपदो महान् ।। २३
तत्राहमवसं मासं पूज्यमानः पुरे जनैः ।
नानात्मस्वादलोलात्मा चित्तवेतालमोहितः ।। २४
एकदैकेन तत्रोक्तं कथाप्रस्तावतः क्वचित् ।
इहाभूच्छ्वपचो राजा वर्षाण्यष्टौ द्विजेति मे ।। २५
ततो ग्रामेषु तत्पृष्टैः प्रोक्तं सकलजन्तुभिः ।
राजा बभूव श्वपचो वर्षाण्यष्टाविहेति तैः ।। २६
सोऽयमन्ते परिज्ञातः प्रविष्टो ज्वलनं जवात् ।
ततो द्विजशतानीह प्रविष्टानि हुताशनम् ।। २७
इति तेषां मुखाच्छ्रुत्वा तस्मान्निर्गत्य मण्डलात् ।
प्रयागेऽकरवं शुद्ध्यै प्रायश्चित्तमहं द्विज ।। २८
कृत्वा चान्द्रायणस्यान्ते तृतीयस्याद्य पारणम् ।
इहाहमागतस्तेन श्रान्तोस्म्यतिकृशोस्मि च ।। २९
श्रीवसिष्ठ उवाच ।
इति श्रुतवता तेन गाधिना स तदा द्विजः ।
भूयः पृष्टोऽप्येतदेव कथयामास नान्यथा ।। ३०
अथ विस्मयवान्गाधिस्तां नीत्वा तत्र शर्वरीम् ।
जगद्गेहमहादीपे रवावुदयमागते ।। ३१
कृतप्रातःस्नानविधावापृच्छय स्वातिथौ गते ।
इदं संचिन्तयामास विस्मयोद्धुरया धिया ।। ३२
यन्मया संभ्रमे दृष्टं सत्यभूतं द्विजेन तत् ।
उक्तं ममेति किं नाम स्यान्मायाशम्बरक्रमः ।। ३३
यद्बन्धुमध्ये मरणं मया तद्दृष्टमात्मनः ।
सा मायैव न संदेहः शेषं पश्यामि तस्य तम् ।। ३४
तदात्मश्वपचोदन्तं द्रष्टुं तावदखिन्नधीः ।
भूतमण्डलपर्यन्तग्रामं गच्छामि सत्वरम् ।। ३५
इति संचिन्तयन्गन्तुं मण्डलान्तरमादरात् ।
उत्तस्थौ भास्करः पार्श्वं मेरोर्द्रष्टुमिवोद्यतः ।। ३६
मनोराज्यमपि प्राज्ञा लभन्ते व्यवसायिनः ।
गाधिना स्वप्नसंदृष्टं गत्वा लब्धमखण्डितम् ।। ३७
सर्वमध्यवसायेन दुष्प्रापमपि लभ्यते ।
पश्यन्गाधिर्जगन्मायां प्रमेयीकर्तुमुद्यतः ।। ३८
विनिर्गत्याभवन्मार्गे प्रावृडोघजवेन सः ।
देशानुल्लंघयामास बहून्वाततुरङ्गवत् ।। ३९
तच्चेदृशनिजाचारं भूतमण्डलमागतः ।
करभः कण्टकार्थ्येकः कारञ्जमिव काननम् ।। ४०
तत्र संवित्स्थितेनैव संनिवेशेन वै पुनः ।
अपश्यद्भ्रामकं कंचिद्गन्धर्व इव पत्तनम् ।। ४१
ददर्श तस्य पर्यन्ते तमेव श्वपचालयम् ।
अधस्ताद्भूवनस्येव पाताले नरकव्रजम् ।। ४२
चित्तचिन्तितविस्तारं तन्निवेशमयं परम् ।
गन्धर्ववदसावात्मश्वपचत्वं च दृष्टवान् ।। ४३
तेनैव संनिवेशेन प्राग्दृष्टं श्वपचास्पदम् ।
तस्य कामपि वैराग्यपदवीमनयन्मनः ।। ४४
प्रावृडासारलुठितं भित्तिजातयवाङ्कुरम् ।
पर्यस्तच्छादनार्धाङ्कं किंचिदादृष्टतल्पकम् ।। ४५
दारिद्र्यं तद्दृढमिव दौर्भाग्यमिव कुड्यमत् ।
भ्रष्टाङ्गमिव दौरात्म्यं दौःस्थित्यमिव खण्डितम् ।। ४६
गाधिर्दन्तावदलितैर्गवाश्वमहिषास्थिभिः ।
धवलैर्व्याप्तपर्यन्तं साक्ष्यं कर्तुमिव स्थितैः ।। ४७
भुक्तं पीतं पुरा तेन येषु खर्परकेषु वै ।
तैरस्पन्दाभ्रसलिलैः पानपूर्णैरिवावृतम् ।। ४८
ताभिरेवान्त्रतन्त्रीभिः संशुष्काभिलतावृतैः ।
तृष्णाभिरिव दीर्घाभिः परितः परिवेष्टितम् ।। ४९
चिरमालोकयामास स तदात्मगृहं जवात् ।
प्राक्तनं शुष्कशवतां यातं देहमिवात्मवान् ।। ५०
अतिविस्मयमातस्थौ ग्रामकं समुपाययौ ।
उल्लंघ्य म्लेच्छनगरमार्यदेशमिवाध्वगः ।। ५१
तत्रापृच्छज्जनं साधो कच्चित्स्मरति भो भवान् ।
प्राग्वृत्तमस्य ग्रामस्य पर्यन्ते श्वपचक्रमम् ।। ५२
सर्व एव हि धीमन्तश्चिरवृत्तमपि स्फुटम् ।
करस्थमिव पश्यन्ति मयेति सुजनाच्छ्रुतम् ।। ५३
अत्र श्वपचमेकान्ते वासिनं वृद्धमुत्तमम् ।
स्मरस्येनं किमुत भो दुःखानामिव देहकम् ।। ५४
यदि जानासि भोः साधो तन्मे कथय तत्त्वतः ।
पान्थ संशयविच्छेदे महत्पुण्यफलं स्मृतम् ।। ५५
भूयो भूय इति ग्राम्याः पृष्टा गाधिद्विजन्मना ।
अनल्पस्मयसंरम्भमार्तेनेव चिकित्सकाः ।। ५६
ग्राम्या ऊचुः ।
यथा कथयसि ब्रह्मंस्तत्तथा न तदन्यथा ।
कटंजनामा श्वपच इहाभूद्दारुणाकृतिः ।। ५७
पुत्रपौत्रसुहृद्भृत्यबन्धुस्वजनपेटकम् ।
यस्यातिविस्तीर्णमभूत्पत्रवृन्दं तरोरिव ।। ५८
यस्य वृद्धस्य तत्सर्वं कलत्रं मृत्युराच्छिनत् ।
अद्रेः पुष्पफलोपेतं दावो वनमिवानलः ।। ५९
यस्ततो देशमुत्सृज्य ययौ कीरपुरान्तरम् ।
वर्षाण्यष्टावनुद्वेगं तत्र राजा बभूव सः ।। ६०
यस्तत्रार्थं परिज्ञाय जनैर्दूरे निराकृतः ।
यथा राशिरनर्थस्य यथा ग्रामे विषद्रुमः ।। ६१
ततो जनेऽग्निं प्रविशत्यात्मना यो हुताशनम् ।
आर्यतामार्यसंसर्गादागतः प्रविवेश ह ।। ६२
किं त्वमेव प्रयत्नेन श्वपचं पृच्छसि प्रभो ।
किं ते बन्धुरसौ कच्चिदभवस्त्वं स्वतोऽथवा ।। ६३
एवं कथयतो ग्राम्यान्गाधिः पृच्छन्पुनःपुनः ।
सर्वेषु तत्र प्रान्तेषु मासमेकमुवास सः ।। ६४
यथा तेनानुभूतं तच्छवापचं तत्तथैव तैः ।
ग्रामीणैस्तस्य कथितं सर्वैरेवावखण्डितम् ।। ६५
अव्याहतं सकलभूतमुखादथैत-
दाकर्ण्य सम्यगवलोक्य यथानुभूतम् ।
गाधिः शशाङ्कमलवद्हृदयेऽधिरूढं
गूढाकृतिः परमविस्मयमाजगाम ।। ६६
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषूपशमप्रकरणे गाधिवृत्तान्ते प्रत्यक्षावलोकनं नाम सप्तचत्वारिंशः सर्गः ४७