योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य पूर्वार्धम्)/सर्गः ०२९

← सर्गः २८ योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य पूर्वार्धम्)
सर्गः ०२९
अज्ञातलेखकः
सर्गः ३० →

श्रीवाल्मीकिरुवाच ।
इत्याकर्णयति स्वस्थसमचेतसि राघवे ।
विश्रान्ते स्वात्मनि स्वैरं परमानन्दमागते ।। २
तत्रस्थेषु च सर्वेषु तेषूपशमशालिषु ।
राघवस्यात्मविश्रान्तेः स्थित्यर्थं वचनामृतम् ।। २
विरराम मुनेर्वारि सस्येष्वम्बुधरादिव ।
अथ याते मुहूर्तार्धे राघवे प्रतिबोधिते ।। ३
पुनराह तमेवार्थं वसिष्ठो वदतां वरः ।
श्रीवसिष्ठ उवाच ।
राम सम्यक्प्रबुद्धोऽसि स्वात्मानमसि लब्धवान्।।४
एवमेवावलम्ब्यार्थं तिष्ठ नेह पदं कृथाः ।
इदं संसारचक्रं हि नाभौ संकल्पमात्रके ।। ५
संरोधितायां वहनाद्रघुनन्दन रुद्ध्यते ।
क्षोभितायां मनोनाभ्यामिदं संसारचक्रकम् ।। ६
प्रयत्नाद्रोधितमपि प्रवहत्येव वेगतः ।
परं पौरुषमास्थाय बलं प्रज्ञां च युक्तितः ।। ७
नाभिं संसारचक्रस्य चित्तमेव निरोधयेत् ।
प्रज्ञासौजन्ययुक्तेन शास्त्रसंवलितेन च ।। ८
पौरुषेण न यत्प्राप्तं न तत्क्वचन लभ्यते ।
दैवैकपरतां त्यक्त्वा बालबोधोपकल्पिताम् ।। ९
निजं प्रयत्नमाश्रित्य चित्तमादौ निरोधयेत् ।
आविरिञ्चात्प्रवृत्तेन भ्रमेणाज्ञानरूपिणा ।। १०
असदेव सदाभासमिदमालक्ष्यतेऽनघ ।
अज्ञानभ्रमविस्तारमात्रकाकृतयोऽनघ ।। ११
इमे देहा भ्रमन्तीह सर्वधर्मात्समुत्थिताः ।
संकल्पः पुनरस्त्वेव देहस्यार्थे कदाचन ।। १२
सुखदुःखविचारित्वं न कार्यं राम धीमता ।
दुःखम्लानमुखः क्लेदी प्रसन्नात्क्लेदवर्जितात् ।। १३
अपि चित्रनराद्देहनरस्तुच्छतरः स्मृतः ।
आधिव्याधिपरिम्लाने स्वयं क्लेदिनि नाशिनि ।। १४
न तथा स्थिरता देहे चित्रपुंसो यथा किल ।
विनाशितो हि चित्रस्थो देहो नश्यति नान्यथा ।।१५
अवश्यनाशो मांसात्मा स्वयं देहो विनश्यति ।
पालितः सुस्थिरां शोभामादत्ते चित्रमानवः ।। १६
देहस्तु पालितोऽप्युच्चैर्नश्यत्येव न वर्धते ।
तेन श्रेष्ठश्चित्रदेहो नायं संकल्पदेहकः ।। १७
ये गुणाश्चित्रदेहे हि न ते संकल्पदेहके ।
चित्रदेहादपि जडाद्योऽयं तुच्छतरः किल ।। १८
तस्मिन्मांसमये देहे कैवास्था भवतोऽनघ ।
दीर्घसंकल्पदेहोऽयं तस्मिन्नास्था महामते ।। १९
स्वप्नसंकल्पजाद्देहादपि तुच्छतरो ह्ययम् ।
अल्पसंकल्पजो दीर्घैः सुखदुःखैर्न गृह्यते ।। २०
दीर्घसंकल्पजश्चायं दीर्घदुःखेन दुःखितः ।
देहो हि संकल्पमयो नायमस्ति न वास्ति नः ।। २१
किं व्यर्थमेतदर्थं हि मूढोऽयं क्लेशभाजनम् ।
यथा चित्रमये पुंसि क्षते क्षीणे न तत्क्षतिः ।। २२
तथा संकल्पपुरुषे क्षते क्षीणे न तत्क्षतिः ।
यथा मनोराज्यमये क्षते क्षीणे न तत्क्षतिः ।। २३
यथा द्वितीये शशिनि क्षते क्षीणे न तत्क्षतिः ।
यथा स्वप्नसमारम्भे क्षते क्षीणे न तत्क्षतिः ।। २४
यथा नद्यातपजले क्षते क्षीणे न तत्क्षतिः ।
संकल्पमात्ररचिते प्रकृत्यैव च नाशिनि ।। २५
तथा शरीरयन्त्रेऽस्मिन्क्षते क्षीणे न तत्क्षतिः ।
दीर्घस्वप्नमये ह्यस्मिंश्चित्तसंकल्पकल्पिते ।। २६
भूषिते दूषिते देहे न हि किंचिच्चितः क्षतम् ।
न चिदन्तमुपायाति नात्मा चलति राघव ।। २७
न ब्रह्म विकृतिं याति किंवा देहक्षये क्षतम् ।
भ्रमच्चक्रोपरिष्ठो हि पूर्वचक्रोपचक्रवत् ।। २८
यथा पश्यति दिक्चक्रं भ्रमदत्यन्तमोहितः ।
अकस्मादेव रुढेन मिथ्याज्ञानेन वल्गता ।। २९
तत्रस्थेन तथैवेदं दृश्यते देहचक्रकम् ।
भ्रमितं च भ्रमदूपं पतद्रूपं प्रपातितम् ।। ३०
हतं च हन्यमानं च दृश्यते देहचक्रकम् ।
धीरतामलमालम्ब्य घनभ्रममिमं त्यजेत् ।। ३१
संकल्पेन कृतो देहो मिथ्याज्ञानेन सन्नसन् ।
असत्येन कृतं यस्मान्न तत्सत्यं कदाचन ।। ३२
असदभ्युत्थितो देहो रज्ज्वामिव भुजंगधीः ।
असत्यामेव सत्यां च करोत्यपि जगत्क्रियाम् ।। ३३
जडेन राम क्रियते यन्न तत्कृतमुच्यते ।
कुर्वन्नपि तदा देहो न कर्ता क्वचिदेव हि ।। ३४
निरीहो हि जडो देहो नात्मनोऽस्याभिवाञ्छितम् ।
कर्ता न कश्चिदेवातो द्रष्टा केवलमस्य सः ।। ३५
यथा दीपो निवातस्थः स्वात्मन्येवावतिष्ठते ।
साक्षिवत्सर्वभावेषु तथा तिष्ठेज्जगत्स्थितौ ।। ३६
यथा दिवसकर्माणि भास्करः स्वस्थ एव सन् ।
करोत्येवमिमां राम कुरु पार्थिवसंस्थितिम् ।। ३७
अस्मिन्नसन्मये देहगृहे शून्ये समुत्थिते ।
सत्तामुपगते मिथ्याबालकल्पितयक्षवत् ।। ३८
कुतोऽप्यागत्य निःसारः सर्वसज्जनवर्जितः ।
अहंकारः कुवेतालः प्रविष्टश्चित्तनामकः ।। ३९
अस्य मा भृत्यतां गच्छ त्वमहंकारदुर्मतेः ।
अस्य भृत्यतया राम निरयः प्राप्यते फलम् ।। ४०
स्वसंकल्पविलासेन देहगेहे दुराकृतिः ।
उन्मत्तचित्तवेतालः परिवल्गति लीलया ।। ४१
शून्यं देहगृहं प्राप्य चित्तयक्षेण तत्कृतम् ।
भीता येन महान्तोऽपि समाधिनियताः स्थिताः।।४२
चित्तवेतालमुद्वास्य स्वशरीरकमन्दिरात् ।
संसारशून्यनगरे न बिभेति कदाचन ।। ४३
चित्तभूताभिभूतेऽस्मिन्ये शरीरगृहे रताः ।
चित्रमद्यापि ते कस्माद्धटिता आत्मवत्स्थिताः ।। ४४
ग्रस्ते चित्तपिशाचेन देहसद्मनि ये मृताः ।
पिशाचस्येव या बुद्धिर्नापिशाचस्य राघव ।। ४१
अहंकारबृहद्यक्षगृहे दग्धशरीरके ।
विहरन्नास्थया साधो न तु वै तत्किल स्थिरम् ।। ४६
अहंकारानुचरतां त्यक्त्वा विततया धिया ।
अहंकारास्मृतिं प्राप्य स्वात्मैवाश्ववलम्ब्यताम् ।।४७
अहंकारपिशाचेन ग्रस्ता ये निरयैषिणः ।
तेषां मोहमदान्धानां न मित्राणि न बान्धवाः ।। ४८
अहंकारोपहतया बुद्ध्या या क्रियते क्रिया ।
विषवल्ल्या इव फलं तस्याः स्यान्मरणात्मकम् ।। ४९
विवेकधैर्यहीनेन स्वाहंकारमहोत्सवः ।
मूर्खेणालम्बितो येन नष्टमेवाशु विद्धि तम् ।। ५०
अहंकारपिशाचेन वराका ये वशीकृताः ।
त एते नरकाग्नीनां राघवेन्धनतां गताः ।। ५१
अहंकारोरगो यस्य परिस्फूर्जति कोटरे ।
स्वदेहपादपोऽधीरैरचिरेण निपात्यते ।। ५२
अहंकारपिशाचोऽस्मिन्देहे तिष्ठतु यातु वा ।
त्वमेनमालोकय मा मनसा महतां वर ।। ५३
अवधूतो ह्यवज्ञातश्चेतसैव तिरस्कृतः ।
अहंकारपिशाचस्ते नेह किंचित्करिष्यति ।। ५४
देहालये स्फुरत्यस्मिन् राम चित्तपिशाचके ।
अस्यानन्तविलासस्य किमिवागतमात्मनः ।। ५५
चित्तयक्षाभिभूतानां याः पुंसां विततापदः ।
शक्यन्ते परिसंख्यातुं न ता वर्षशतैरपि ।। ५६
हा हा मृतोऽस्मि दग्धोऽस्मीत्येता वै दुःखवृत्तयः ।
अहंकारपिशाचस्य शक्तयोऽन्यस्य नानघ ।। ५७
सर्वगोऽपि यथाकाशः संबन्धो नेह केनचित् ।
सर्वगोऽपि तथैवात्मा नाहंकारेण संगतः ।। ५८
यत्करोति यदादत्ते देहयन्त्रमिदं चलम् ।
वातरज्जुयुतं राम तदहंकारचेष्टितम् ।। ५९
वृक्षोत्पत्तौ यथा हेतुरकर्त्रपि किलाम्बरम् ।
आत्मसंस्थस्तथेहात्मा चित्तचेष्टासु कारणम् ।। ६०
आत्मसंनिधिमात्रेण स्फुरत्यात्तवपुर्मनः ।
दीपसंनिधिमात्रेण कुड्यरूपमिवामलम् ।। ६१
अपि विश्लिष्टयो राम नित्यमेवात्मचित्तयोः ।
द्यावापृथिव्योरिव कः संबन्धः प्रकटान्धयोः ।। ६२
चपलस्पन्दनेराभिरात्मशक्तिभिरावृतम् ।
चित्तमात्मेति मौर्ख्येण दृश्यते रघुनन्दन ।। ६३
आत्मा प्रकाशरूपो हि नित्यः सर्वगतो विभुः ।
चित्तं शठमहंकारं विद्धि हार्दं बृहत्तमः ।। ६४
आत्मासि वस्तुतस्त्वं हि सर्वज्ञो न मनो भृशम् ।
दूरे कुरु मनोमोहं किमेतेनाभिसंगतः ।। ६५
पिशाचोऽपि मनो राम शून्यदेहगृहे स्थितः ।
भावयत्येष दुष्टात्मा मौनमुत्तम संस्पृशन् ।। ६६
भवप्रदमकल्याणं धैर्यसर्वस्वहारिणम् ।
मनःपिशाचमुत्सृज्य योऽसि स त्वं स्थिरो भव ।। ६७
चित्तयक्षदृढाक्रान्तं न शास्त्राणि न बान्धवाः ।
शक्नुवन्ति परित्रातुं गुरवो न च मानवम् ।। ६८
संशान्तचित्तवेतालं गुरुशास्त्रार्थबान्धवाः ।
शक्नुवन्ति समुद्धर्तुं स्वल्पपङ्कान्मृगं यथा ।। ६९
अस्मिञ्जगच्छून्यपुरे सर्वमेव प्रदूषितम् ।
देहगेहं प्रमत्तेन चित्तयक्षेण वल्गता ।। ७०
चित्तवेतालवलिता समस्ता देहखण्डजा ।
इयं जगदरण्यानी शून्या कस्य न भीतये ।। ७१
जगन्नगर्यामस्यां तु शान्तचित्तपिशाचकम् ।
देहगेहं कतिपयैः सेव्यते सद्भिरेव यत् ।। ७२
इह संश्रूयते या या दिक् सैव रघुनन्दन ।
प्रमत्तमोहवेतालैः पूर्णा देहश्मशानकैः ।। ७३
अस्यां जगदरण्यान्यां मुह्यन्तं मुग्धबालवत् ।
स्वयमाराध्य धैर्याशमात्मनात्मानमुद्धरेत् ।। ७४
जगज्जरदरण्येऽस्मिंश्चरद्भूतमृगव्रजे ।
धृतिं तृणरसै राम मा गच्छ मृगपोतवत् ।। ५
अस्मिन्महीतलारण्ये चरन्ति मृगपोतकाः ।
त्वमज्ञानगजं भुक्त्वा सैंहीं वृत्तिमुपाश्रय ।। ७६
अन्ये नरमृगा मुग्धा जम्बूद्वीपे स्वजङ्गले ।
विहरन्ति यथा राम तथा मा विहरानघ ।। ७७
अत्यल्पकालशिशिरे कर्दमालेपदायिनि ।
न मङ्क्तव्यं बन्धुरूपे महिषेणेव पल्वले ।। ७८
भोगाभोगा बहिष्कार्या आर्यस्यानुसरेत्पदम् ।
प्रविचार्य महार्थं स्वमेकमात्मानमाश्रयेत् ।। ७९
अपवित्रस्य तुच्छस्य दुर्भगस्य दुराकृतेः ।
देहस्यार्थं न मङ्क्तव्यं चिन्ताचण्डी सुदारुणा ।। ८०
अन्येन रचितो देहो यक्षेणान्येन संश्रितः ।
दुःखमन्यस्य भोक्तान्यश्चित्रेयं मौर्ख्यचक्रिका ।। ८१
यथैकरूपा घनता दृषदोऽस्त्यात्मनस्तथा ।
सत्तामात्रैकसामान्यादितरस्याप्यसंभवात् ।। ८२
यथोपलस्य घनता मानसादि तथात्मनः ।
सत्तामात्रादभिन्नत्वादभावादस्य संस्थितेः ।। ८३
यथोपलस्योपलता घटस्य घटता यथा ।
सत्तामात्रादभिन्नैव मानसादि तथात्मनः ।। ८४
अत्रेमामपरां दृष्टिं महामोहविनाशिनीम् ।
शृणु या कथिता पूर्वं मम कैलासकन्दरे ।। ८५
संसारदुःखशान्त्यर्थं देवेनार्धेन्दुमौलिना ।
अस्तीन्दुकरसंभारभासुरः पारगो दिवः ।। ८६
कैलासो नाम शैलेन्द्रो गौरीरमणमन्दिरम् ।
तत्रास्ते भगवान्देवो हरश्चन्द्रकलाधरः ।। ८७
तं पूजयन्महादेवं तस्मिन्नेव गिरौ पुरा ।
कदाचिदवसं गङ्गातटे विरचिताश्रमः ।। ८८
तपोर्थं तापसाचारे चिराय रचितस्थितिः ।
सिद्धसंघातवलितः कृतशास्त्रार्थसंग्रहः ।। ८९
पुष्पार्थं स्यूतपुटिकः पुस्तकव्यूहसंग्रही ।
एवंगुणविशिष्टस्य कैलासवनकुञ्जके ।। ९०
तपः प्रचरतो राम मम कालोऽत्यवर्तत ।
अथैकदा कदाचित्तु बहुलस्याष्टमे दिने ।। ९१
गते श्रावणपक्षस्य रात्र्यग्रे क्षयमागते ।
दिक्षु संशान्तरूपासु काष्ठमौनस्थितास्विव ।। ९२
खड्गच्छेद्यान्धकारेषु कुञ्जेषु गहनेषु च ।
एतस्मिन्नन्तरे तत्र यामार्धे प्रथमे गते ।। ९३
समाधिं तनुतां नीत्वा स्थितोहं बाह्यमग्नदृक् ।
अपश्यं कानने तेजो झटित्येव समुत्थितम् ।। ९४
शुभ्राभ्रशतसंकाशं चन्द्रबिम्बगणोपमम् ।
प्रकटीकृतदिक्कुञ्ज तदालोक्य मया स्मयात् ।। ९५
अन्तःप्रकाशशालिन्या बहिर्दृष्ट्यावलोकितम् ।
यावत्पश्यामि तं सानुं प्राप्तश्चन्द्रकलाधरः ।। ९६
गौरीकरार्पितकरो नन्दिप्रोत्सारिताग्रगः ।
शिष्यान्संबोध्य तत्रस्थान्गृहीत्वार्घ्यं सुसंयतः ।। ९७
अगमं सुमनास्तस्य दृष्टिपूतमहं पुरः ।
तत्र पुष्पाञ्जलिं दत्त्वा दूरादेव त्रिलोचनः ।। ९८
दत्तार्घ्येण मया देवः संप्रणम्याभिवन्दितः ।
ततश्चन्द्रप्रभासख्या ऋज्व्या शीतलया तया ।। ९९
दृशा सर्वार्तिहारिण्या चिरमस्म्यास्पदीकृतः ।
पुष्पसानूपविष्टाय तस्मै त्रैलोक्यसाक्षिणे ।।१
अर्घ्यं पुष्पं तथा पाद्यमभ्युपेत्यार्पितं मया ।
मन्दारपुष्पाञ्जलयो विकीर्णा बहवः पुरः ।। १०१
नानाविधेर्नमस्कारैः स्तोत्रैश्चाभ्यर्चितः शिवः ।
ततो भगवती गौरी तादृश्यैव सपर्यया ।। १०२
संपूजिता सखीयुक्ता गणमण्डलिका तथा ।
पूजान्ते पूर्णशीतांशुरश्मिशीतलया गिरा ।। १०३
तत्रोपविष्टं प्रोवाच मामर्धेन्दुकलाधरः ।
ब्रह्मन्प्रशमशालिन्यः प्राप्तविश्रान्तयः पदे ।। १०४
कच्चित्कल्याणकारिण्यः संविदस्ते स्थिताः परे ।
कच्चित्तपस्ते निर्विघ्नं कल्याणमनुवर्तते ।। १०५
कच्चित्प्राप्यमनुप्राप्तं कच्चिच्छाम्यन्ति भीतयः ।
एवंवादिनि देवेशे सर्वलोकैककारिणि ।। १०६
गिरानुनयशालिन्या मयोक्तं रघुनन्दन ।
त्र्यक्षानुस्मृतिकल्याणवतामिह महेश्वर ।। १०७
न किंचिदपि दुष्प्रापं न च काश्चन भीतयः ।
त्वदनुस्मरणानन्दपरिघूर्णितचेतसाम् ।। १०८
न ते सन्ति जगत्कोशे प्रणमन्ति न ये पुनः ।
ते देशास्ते जनपदास्ता दिशस्ते च पर्वताः ।। १०९
त्वदनुस्मरणैकान्तधियो यत्र स्थिता जनाः ।
फलं भूतस्य पुण्यस्य वर्तमानस्य सेचनम् ।। ११०
तनोति चैष्यतो बीजं त्वदनुस्मरणं प्रभो ।
ज्ञानामृतैककलशो धृतिज्योत्स्नानिशाकरः ।। १११
अपवर्गपुरद्वारं त्वदनुस्मरणं प्रभो ।
त्वदनुस्मरणोदारचिन्तामणिमता मया ।। ११२
सर्वासामापदां मूर्ध्नि दत्तं भूतपते पदम् ।
इत्युक्त्वा सुप्रसन्नं तं भगवन्तं महेश्वरम् ।। ११३
अवोचं प्रणतो भूत्वा यद्राम तदिदं शृणु ।
भगवंस्त्वत्प्रसादेन पूर्णा मे सकला दिशः ।। ११४
किंतु पृच्छामि देवेश संदेहे तत्र निर्णयम् ।
ब्रूहि प्रसन्नया बुद्ध्या त्यक्तोद्वेगमनामयम् ।। ११५
सर्वपापक्षयकरं सर्वकल्याणवर्धनम् ।
देवार्चनविधानं तत्कीदृशं भवति प्रभो ।। ११६
ईश्वर उवाच ।
शृणु ब्रह्मविदां श्रेष्ठ देवार्चनमनुत्तमम् ।
वदामि मुच्यते येन कृतेन सकृदेव हि ।। ११७
कच्चिद्वेत्सि महाबाहो देवः कः स्यादिति द्विज ।
न देवः पुण्डरीकाक्षो न च देवस्त्रिलोचनः ।। ११८
न देवः कमलोद्भूतो न देवस्त्रिदशेश्वरः ।
न देवः पवनो नार्को नानलो न निशाकरः ।। ११९
न ब्राह्मणो नाऽवनिपो नाहं न त्वं द्विजोत्तम ।
न देवो देहरूपो हि न देवश्चित्तरूपधृक् ।। १२०
न देवः कमलारूपी नापि देवो भवेन्मतिः ।
अकृत्रिममनाद्यन्तं देवनं देव उच्यते ।। १२१
आकारादिपरिच्छिन्ने मिते वस्तुनि तत्कुतः ।
अकृत्रिममनाद्यन्तं देवनं चिच्छिवं विदुः ।। १२२
तदेव देवशब्देन कथ्यते तत्प्रपूजयेत् ।
तदेवास्ति यतः सर्वं सत्तासत्तात्मरूपधृक् ।। १२३
अज्ञातशिवतत्त्वानामाकाराद्यर्चनं कृतम् ।
योजनाध्वन्यशक्तस्य क्रोशाध्वा परिकल्प्यते ।। १२४
इयत्तादिपरिच्छिन्नं रुद्रादेः प्राप्यते फलम् ।
अकृत्रिममनाद्यन्तं फलमानन्द आत्मनः ।। १२५
अकृत्रिमफलं त्यक्त्वा यः कृत्रिमफलं व्रजेत् ।
त्यक्त्वा स मन्दारवनं कारञ्जं याति काननम् ।।१२६
बोधः साम्यं शम इति पुष्पाण्यग्राणि तत्र च ।
शिवं चिन्मात्रममलं पूज्यं पूज्यविदो विदुः ।। १२७
शमबोधादिभिः पुष्पैर्देव आत्मा यदर्च्यते ।
तत्तु देवार्चनं विद्धि नाकारार्चनमर्चनम् ।। १२८
आत्मसंवित्तिरूपं तु त्यक्त्वा देवार्चनं जनाः ।
कृत्रिमार्चासु ये सक्ताश्चिरं क्लेशं भजन्ति ते ।। १२९
ज्ञातज्ञेया हि ये सन्तो बालक्रीडोपमं च ते ।
आत्मध्यानादृते ब्रह्मन्कुर्वन्तो देवपूजनम् ।। १३०
आत्मैव देवो भगवाञ्छिवः परमकारणम् ।
ज्ञानार्चनेनाविरतं पूजनीयः स सर्वदा ।। १३१
त्वमेतच्चेतनाकाशमात्मानं जीवमव्ययम् ।
स्वभावं विद्धि न त्वन्यः पूज्यः पूजात्मपूजनम् ।।१३२
श्रीवसिष्ठ उवाच ।
चेतनाकाशमात्रात्म यथा जगदिदं प्रभो ।
यथा तच्चेतनस्यैव जीवादित्वं तदुच्यताम् ।। १३३
ईश्वर उवाच ।
चिद्व्योमैव किलास्तीह पारावारविवर्जितम् ।
सर्वत्रासंभवच्चेत्यं यत्कल्पान्तेऽवशिष्यते ।। १३४
यद्यत्स्वयं प्रकचति तस्य स्वकचनस्य तु ।
स्वयं यत्स्पन्दितं नाम तेनेदं जगदित्यलम् ।। १३५
इत्येवं स्वप्नपुरवज्जगद्भाति चिदात्मकम् ।
एवं चिद्व्योममात्रात्म जगदच्छं न भित्तिमत् ।।१३६
अत्यन्तासंभवाच्चेत्यं दृश्यं चिद्व्योममात्रकम् ।
चित्त्वात्कचति सर्गादौ यत्तज्जगदिति स्मृतम् ।। १३७
तस्मात्स्वप्नपुराकारं यदिदं भासते जगत् ।
तत्र चिद्व्योममात्रात्मन्यन्यता नाम का कुतः ।। १३८
चिन्मात्रमेव गिरयश्चिन्मात्रं जगदम्बरम् ।
चिन्मात्रमात्मा जीवश्च चिन्मात्रं भूतसंततिः ।। १३९
चिद्व्योममात्रादितरत्सर्गादौ सर्ववेदने ।
भिन्नस्वर्गे पुरे वापि किं संभवति कथ्यताम् ।।१४०
आकाशं परमाकाशं ब्रह्माकाशं जगच्चितिः ।
इति पर्यायनामानि तत्र पादपवृक्षवत् ।। १४१
एवं द्वौ स्वप्नसंकल्पमायाभिः स्वनुभूयते ।
तदा किल चिदाकाशमेव भाति जगत्तया ।। १४२
यथैतत्संविदाकाशं स्वप्ने भाति जगद्वपुः ।
तथेदं जाग्रदाख्येऽपि स्वप्ने भाति तदेव नः ।। १४३
यथा स्वप्नपुरे चित्खं वर्जयित्वेतरत्क्वचित् ।
न किंचित्संभवत्येवं जाग्रत्येवं महाचितः ।। १४४
यतो न संभवत्यन्यच्चेत्यं किंचित्ततोऽखिलम् ।
चित्तं संचेत्यमप्येतदचेत्यं सज्जगत्स्थितम् ।। १४५
परमाकाशकलनं त्रिजगत्स्वयमुत्थितम् ।
स्वप्नवद्विद्धि चिद्व्योम्नि न त्वेतद्द्वैतवत्स्थितम् ।। १४६
यथा चिद्व्योममात्रात्म स्वप्ने घटपटादिकम् ।
सर्गादावेव सर्गोऽयं तथा चिद्व्योममात्रकम् ।। १४७
शुद्धसंवित्तिमात्रत्वादृतेऽन्यत्स्वप्नपत्तने ।
यथा न विद्यते किंचित्तथास्मिन्भुवनत्रये ।। १४८
याः काश्चन दृशो ये ये भावाभावास्त्रिकालगाः ।
सदेशकालचित्तास्तत्सर्वं चिद्व्योममात्रकम् ।। १४९
स एष देवः कथितो यः परः परमार्थतः ।
यस्त्वं सोऽहमशेषं वा जगदेव च योऽखिलः ।। १५०
सर्वस्य वस्तुजातस्य जगतोऽन्यस्य ते मम ।
देहो हि चेतनाकाशे परमात्मैव नेतरत् ।। १५१
संकल्पने स्वप्नपुरे शरीरं चिद्व्योमतोऽन्यन्न यथास्ति किंचित् ।
तथेह सर्गे प्रथमैकर्सगान्मुने प्रभृत्यस्ति न रूपमन्यत् ।। १५२
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो. निर्वाणप्रकरणे पू० जगतः परमात्ममयत्ववर्णनं नामैकोनत्रिंशः सर्गः ।।२९ ।।