योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य पूर्वार्धम्)/सर्गः १०१


एकाधिकशततमः सर्गः १०१
श्रीवसिष्ठ उवाच ।
इति कुम्भवचो राजा भावयंस्तदकृत्रिमम् ।
स्वयमात्मपदे तस्मिन्क्षणं परिणतोऽभवत् ।। १
बभूवामीलितमनोलोचनः शान्तवाङ्मुनिः ।
शिलातलादिवोत्कीर्णो निस्पन्दावयवाकृतिः ।। २
ततो मुहूर्तमात्रेण प्रबुद्धं स्फुरितेक्षणम् ।
तमुवाच महाबाहो चूडाला कुम्भरूपिणी ।। ३
कुम्भ उवाच ।
कच्चिदस्मिन्पदे स्फारे शुद्धे विततनिर्मले ।
सुतल्पे निर्विकल्पानां सुखं विश्रान्तवानसि ।। ४
कच्चिदन्तः प्रबुद्धोसि कच्चिद्भ्रान्तिस्त्वयोज्झिता ।
कच्चिज्ज्ञेयं परिज्ञातं दृष्टं द्रष्टव्यमेव वा ।। ५
शिखिध्वज उवाच ।
भगवंस्त्वत्प्रसादेन महाविभवभूमिका ।
महती पदवी दृष्टा सर्वस्योर्ध्वं स्थिता मया ।। ६
सतां विदितवेद्यानामहो बत महात्मनाम् ।
अपूर्वैकामृतमयः सङ्गः सारफलप्रदः ।। ७
जन्मनापि मया लब्धं यन्नाम न महामृतम् ।
तदद्य त्वत्समासङ्गात्तेनैवासादितं स्वयम् ।। ८
अनन्तमाद्यममृतं चैतत्कमललोचन ।
कथं नासादितमभूत्पूर्वमात्मपदं मया ।। ९
कुम्भ उवाच ।
मनस्युपशमं याते त्यक्तभोगैषणे स्थिते ।
कषायपाके निर्वृत्ते सर्वेन्द्रियगणस्य च ।। १०
यान्ति चेतसि विश्रान्तिं विमला देशिकोक्तयः ।
यथा सितांशुके शुद्धे बिन्दवः कुङ्कुमाम्भसः ।। ११
कषायाणामनन्तानां संभृतानां शरीरकैः ।
स्ववासनास्वरूपाणामद्य पाकस्तवोदितः ।। १२
देहान्मलानि सर्वाणि कालेन कमलेक्षण ।
साधो वृक्षात्फलानीव पाकेन विगलन्त्यधः ।। १३
वासनात्मसु यातेषु मलेषु विमलं सखे ।
यद्वक्ति गुरुरन्तस्तद्विशतीषुर्यथा विसे ।। १४
कषायपाके संपन्ने त्वं मयाद्य विबोधितः ।
तेनाद्यैव तवाज्ञानक्षयो जातो महामते ।। १५
अद्य पक्वकषायस्त्वमद्यैव ज्ञानसंकथाम् ।
अद्येह सोपदेशस्त्वमद्यैवासि प्रबुद्धवान् ।। १६
शुभाशुभानां सर्वेषां कर्मणामद्य संक्षयः ।
सत्सङ्गव्यपदेशेन तव निष्पत्तिमागतः ।। १७
यावदस्य दिनस्यैष पूर्वभागो महीपते ।
तावच्चेतोहंममेति तवाज्ञानं बभूव ह ।। १८
इदानीं मद्वचोबोधाच्चेतसि क्षयमागते ।
हृदयात्संपरित्यक्ते संप्रबुद्धोऽसि भूपते ।। १९
हृदि यावन्मनःसत्ता तावदज्ञानसस्थितिः ।
चित्ते चित्ततया त्यक्ते ज्ञानस्याभ्युदयो भवेत् ।। २०
द्वित्वैकत्वदृशौ चित्तं तदेवाज्ञानमुच्यते ।
एतयोर्यो लयो दृष्टेस्तज्ज्ञानं सा परा गतिः ।। २१
प्रबुद्धोऽसि विमुक्तोऽसि त्यक्तं चित्तं त्वया नृप ।
सदसत्तामयत्वं हि त्वया त्यक्तमसत्पदम् ।। २२
वीतशोको निरायासो निःसङ्गोऽनन्य आत्मवान् ।
महोदयो मुनिर्मौनी स्वरूपे तिष्ठ निर्मले ।। २३
शिखिध्वज उवाच ।
एवं हि भगवन् जन्तोर्मूर्खस्यैवास्ति चित्तभूः ।
प्रबुद्धस्य न तज्ज्ञस्य चित्तं नाम किल प्रभो ।। २४
जीवन्मुक्तास्तदेते हि विहरन्ति कथं वद ।
अविद्यमानमनसो युष्मदाद्यास्तथा नराः ।। २५
इति मे कथयाशेषमन्यैः स्ववचनांशुभिः ।
हार्दं तमो मे निपुणमेवंप्रायैः प्रमार्जय ।। २६
कुम्भ उवाच ।
यथा वदसि तत्त्वज्ञ तत्तथैव हि नान्यथा ।
चित्तं हि जीवन्मुक्तानां नास्त्यङ्कुर इवाश्मनाम् ।।२७
पुनर्जननयोग्या या वासना घनवासना ।
सा प्रोक्ता चित्तशब्देन न सा तज्ज्ञस्य विद्यते ।। २८
यया वासनया तज्ज्ञा विहरन्तीह कर्मसु ।
तां त्वं सत्त्वाभिधां विद्धि पुनर्जननवर्जिताम् ।। २९
जीवन्मुक्ता महात्मानः सत्त्वस्थाः संयतेन्द्रियाः ।
विहरन्ति गतासङ्गं न चित्तस्थाः कदाचन ।। ३०
मूढं चित्तं चित्तमाहुः प्रबुद्धं सत्त्वमुच्यते ।
अप्रबुद्धा हि चित्तस्थाः सत्त्वस्थास्तु महाधियः ।। ३१
भूयः प्रजायते चित्तं सत्त्वं भूयो न जायते ।
अप्रबुद्धस्य बन्धोस्ति न प्रबुद्धस्य भूपते ।। ३२
सत्ववानसि संजातो महात्यागी स्थितो भवान् ।
अशेषेण त्वया चित्तं त्यक्तमद्येति वेद्म्यहम् ।। ३३
समस्तवासनोन्मुक्तो राजन्नद्यैव राजसे ।
आकाशसाम्यमायातं मन्ये तव मुने मनः ।। ३४
शमं प्राप्तोऽसि परमं सिद्धः समसमस्थितिः ।
अयं हि स महात्यागः सर्वं यत्तत्समुज्झितम् ।। ३५
स्वर्गापवर्गवित्तादि तपोदानफलाद्यपि ।
प्रबुद्धमेधया साधो धिया परमबोधया ।। ३६

तपो नाम कियन्मात्रदुःखक्षयकरं भवेत् ।
क्षयातिशयनिर्मुक्तं यत्सुखं समतामयम् ।। ३७
तत्सत्तद्वस्तु तत्किंचिन्न तु स्वर्गादि भङ्गुरम् ।
भावाभावैरुपारूढं स्थिताधिगतवेदनम्।। ३८
स्वर्गो नाम किमानन्दः सोपि संदेहसंस्थितः ।
अप्राप्तस्वात्मसंसिद्धेः क्रियाकाण्डः शुभो भवेत् ।। ३९
येन नासादितं हेम रीतिं किं स परित्यजेत् ।
चूडालादिसमासङ्गाद्भवेज्ज्ञत्वं सुखेन ते ।। ४०
तत्किमर्थमनर्थेऽस्मिन्निमग्नस्त्वं तपोमये ।
आश्रमादिविकल्पांशसाध्यस्याद्य कुकर्मणः ।। ४१
आद्यन्तावस्य सुमते मध्य एव सुखं स्म भो ।
यतस्ते समयो जातो यस्मिन्परिणमन्ति च ।। ४२
तपोरूपा विकल्पांशास्तत्र बद्धपदो भव ।
चिद्व्योम्नोनभसोत्यच्छात्सर्वेभावाः समुत्थिताः।।४३
तथैव परिदृश्यन्ते तत्रैव विलयं गताः ।
इदं कार्यमिदं नेति संकल्पा ब्रह्मबिन्दवः ।। ४४
वन्ध्यं शिखिध्वज त्यक्त्वा पूर्णमेव समाश्रय ।
इष्टं मे प्रार्थयस्वेति यथैव प्रार्थ्यते सखे ।। ४५
स्त्रिया तथैव स कथं दयितः प्रार्थ्यते स्वयम् ।
संकल्परचितानेतान्भावानापतभासुरान् ।। ४६
गृह्णन्ति न महात्मानः प्राज्ञा जलरवीनिव ।
स्वर्गमोक्षादिफलदं यत्किंचित्सर्वमेव तत् ।। ४७
त्यक्त्वा समसमाभासो योऽस्यसावेव वै भव ।
सत्त्वं सत्त्वेन नाशेन नाश्यं हि विगतस्पृहः ।। ४८
पदार्थौघमिमं गृह्णंस्तिष्ठास्पन्दितचित्तभूः ।
अपरिस्पन्दचित्तस्य संसृतिर्नेह धावति ।। ४९
पौरुषप्रभवा साधो विपत्तिर्हि मतौ यथा ।
यानि यानीह दुःखानि प्रस्फुरन्ति जगत्त्रये ।। ५०
चेतश्चापलजान्येव तानि तानि महीपते ।
स्थिरं शान्तं गतस्पन्दं यस्य चित्तमचापलम् ।
सदैव स महानन्दी साम्राज्यस्य स भाजनम् ।। ५१
अथ चेतसि तत्त्वज्ञ स्पन्दास्पन्दौ त्वमेकताम् ।
नीत्वा तिष्ठ यथाकाममैक्यमागत्य शाश्वतम् ।। ५२
शिखिध्वज उवाच ।
कथमैक्यं विभो यातः स्पन्दास्पन्दाविमावुभौ ।
सर्वसंशयविच्छेदकारिन्नेतद्वदाशु मे ।। ५३
कुम्भ उवाच ।
एकं वस्तु जगत्सर्वं चिन्मात्रं वारिवाम्बुधि ।
तदेव स्पन्दते धीभिः शुद्धवारिव वीचिभिः ।। ५४
ब्रह्म चिन्मात्रममलं सत्त्वमित्यादिनामकम् ।
यद्गीतं तदिदं मूढाः पश्यन्त्यङ्ग जगत्तया ।। ५५
चित्स्पन्द एव सर्वस्वं सर्गे तस्माद्धि संसृतिः ।
परिस्पन्दो हि विन्ध्यादिशब्दस्पन्दसमं परम् ।। ५६
चितः स एव चेत्स्पन्दस्तथाऽस्पन्दश्च भावितः ।
एकरूपतया नाम तत्रेदममलं शिवम् ।। ५७
सर्गश्चित्स्पन्दमात्रात्मा सम्यग्दृष्टौ विलीयते ।
उदेत्यसम्यग्दृष्टीनां रज्ज्वां सर्पभ्रमो यथा ।। ५८
सस्पन्दा चित्तदभिधा निःस्पन्दा त्वियमातता ।
तुर्यातीतपदारूढा वाचा वक्तुं न पार्यते ।। ५९
शास्त्रसज्जनसंपर्कसंतताभ्यासयोगतः ।
कालेनामलतां याते चेतसीन्दाविवोदिता ।। ६०
एतत्केवलमाभातं स्वानुभूतिभिराततम् ।
कथ्यते स्वानुभूतेषु स्वयं स्वं रूपमात्मना ।। ६१
प्राप्तोऽसि सारं स्वमनादिमध्य-
मत्रैव तिष्ठ स्वपदे निविष्टः ।
नो रूपनिर्भेदमहाचिदात्मा
जातोऽसि साधो खलु वीतशोकः ।। ६२
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० निर्वाणप्रकरणे पू० चू० शिखिध्वजबोधनं नामैकाधिकशततमः सर्गः ।। १०१ ।।