लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः १२९

← अध्यायः १२८ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः १२९
[[लेखकः :|]]
अध्यायः १३० →

श्रीनारायण उवाच-
शृणु कान्त! ततः शंभुः पार्वतीं प्राह शोभनम् ।
क्षीरसागरसंस्थानं वैकुण्ठं वै चतुर्थकम् ।। १ ।।
दिवौकसां रक्षणार्थं दुग्धाब्धौ परमेश्वरः ।
सदा शान्तिपरो देवो निद्रया योगसंज्ञया ।। २ ।।
स्वात्मन्यवस्थितो नीलाम्बुजवर्णो हरिः स्वयम् ।
वर्ततेऽभ्यन्तरतले दिव्युवासाय निर्मिते ।। ५ ।।
वैकुण्ठे विस्तृते मत्स्यकूर्माऽऽविर्भावराजिते ।
दुग्धाब्धौ मेदिनीपीठे नारायणस्य तेजसा ।। ४ ।।
सुदर्शनेन चक्रेण स्तम्भिते क्षीरसुस्तरे ।
जातानि भूतलान्यत्र दुग्धधवलभूमिकाः ।। ५ ।।
दुग्धानामेव पक्वानां प्राकाराणां चतुष्टयम् ।
वितानप्रस्तरं दिव्यं दुग्धानामेव निर्मितम् ।। ६ ।।
भित्तयो गोपुराः सौधाः प्रासादा वनराजयः ।
मार्गोपमार्गाः पन्थानो वृक्षवल्लीवनानि च ।। ७ ।।
मणयो भूषणान्यत्र वासांसि भोजनानि च ।
पेयानि शयनान्येव यानानि वाहनानि च ।। ८ ।।
दुग्धोत्पन्नानि सर्वाणि नारायणसमीहया ।
प्रदीपा मणयस्तत्र फलानि क्षीरजानि च ।। ९ ।।
पुष्पस्रक्चन्दनादीनि गन्धद्रव्याणि यानि च ।
कज्जलादीनि सौभाग्यद्रव्याणि दुग्धजानि वै ।। 1.129.१० ।।
लक्षयोजनविस्तारो मण्डपो दुग्धनिर्मितः ।
दुग्धस्फटिकमाणिक्यमणिरत्नादिनिर्मितः ।। ११ ।।
धवलो ब्रह्मतेजोवत् दिव्यौ ब्रह्मविभूतिवत् ।
महावैकुण्ठवत् सौख्य शान्तिदो ब्रह्मलोकवत् ।। १ २।।
तत्रानेके रंगसौधा भक्तानां वासहेतवे ।
भवन्ति श्रीहरेः कामनया दिव्या सुऋद्धयः ।। १ ३।।
 न न्यूनं किंचिदत्रास्ति भोग्यकरणसाधनम् ।
तन्मध्ये तु सहस्रास्यः शेषोऽनन्तो व्यवस्थितः ।। १४।।
धवलः कोमलः स्निग्ध उष्णः शय्याधिकारवान् ।
शरीरवलयैस्तत्र कृतशय्यो हरेः कृते ।। १५।।
फणाभिश्च सहस्रेण कृतच्छत्रो हरेः कृते ।
पुच्छेन कृतसोपानस्तत्राऽऽरोढुं हरेः कृते ।। १६ ।।
फणास्थमणिभिस्तत्र कृतदीपो हरेः कृते ।
तस्मिन्ननन्तपर्यंके शेतेऽसौ कमलापतिः ।। १७।।
नूत्नयुवा श्यामलश्च पीताम्बरधरो हरिः ।
सकेशमुकुटमूर्धा हारकौस्तुभराजितः ।। १८ ।।
यज्ञोपवीतपुंड्राऽब्जजलभूचक्रहेतिमान् ।
सगदः सगरुडश्च वनमालाविराजितः ।। १ ९।।
लक्ष्मीमर्दितचरणः कटकांगदभूषितः ।
स्फुरद्रक्तारविन्दाभहस्तांघ्रितलशोभितः ।। 1.129.२ ० ।।
रशनापादुकोर्मिकाशृंखलाभूषणान्वितः ।
खड्गचर्मशार्ङ्गशक्तिनाराचपरिघान्वितः ।। २१ ।।
हरिचन्दनकुंकुमकस्तूर्युत्तमपूजितः ।
कल्पमन्दारबकुलपारिजातादिपुष्पवान् ।। २२ ।।
समोन्नतसुनासांसजानुभालविराजितः ।
किंकिणीजालनुपूरधृतांऽघ्रिनखकान्तिमान् ।। २३ ।।
अशोकपुष्परक्तौष्ठः पूर्णचन्द्रनिभाननः ।
मौक्तिकदन्तसंशोभस्मितवक्त्रमनोहरः ।। २४।।
आरूढयौवनाऽऽपूरः शरण्यः शरणार्थिनाम् ।
परिश्रान्त इव शेते विरामे इव सर्वदा ।।२५ ।।
दैत्यैः सह सुयुद्धानि कृत्वा शेते पुनःपुनः ।
सदृशी तस्य लक्ष्मीस्तु रूपशीलगुणादिभिः ।। २६।।
स्वर्णसदृशसद्रूपा तप्तकांचनभूषणा ।
सेवाया सर्वदा तत्र शय्यायां सह वर्तते ।। २७।।
विशालाक्षो मृगाक्षी सा तरुणी तनुमध्यमा ।
रूपलावण्यमाधुर्यकान्तिशीलगुणान्विता ।। २८ ।।
दुग्धफेनप्रभाशाटीकंचुकीनक्तशोभिता ।
मन्दारकेतकीजातीपुष्पाञ्चितशिरोरुहा ।। २९ ।।
तैलसुगन्धिचिपिटसूचीकबरीधम्मिला ।
कस्तूरीकृततिलका रत्नतन्तीसुशोभिता ।। 1.129.३० ।।
नानामौक्तिकरत्नाढ्यकर्णभूषणभूषिता ।
पक्वबिम्बप्रवालादिरक्तभासाधरान्विता ।। ३१ ।।
कट्यालम्बिनीलवक्त्रस्निग्धकेशैरलंकृता ।
स्वल्पोन्नतदृढपीनगण्डश्रोणिपयोधरा ।। ३२।।
इषदुन्नतसूज्ज्वलमृदुलोककपोलका ।
चतुर्हस्तैः राजमाना प्रेमापगाप्रवाहिणी ।।३३ ।।
उद्बाहुभ्यां धृतवती हेमपद्मयुगं शुभम् ।
इतराभ्यां क्वचित्प्रेम्णा समाश्लिष्य पतिं स्थिता ।। ३४।।
वर्तते नित्यसेवायां लक्ष्मीर्देवी हरेः प्रिया ।
तथाऽन्यास्तुल्यरूपाश्च नर्मदा तपती तथा ।। ३५।।
तुंगभद्रा च कावेरी गंगा गोदावरी तथा ।
सिन्धुः फल्गुर्गण्डकी च ताम्रपर्णी सरस्वती ।। ३६।।
करतोया कर्मनाशा साभ्रमती च गोमती ।
ओजस्वती भद्रावती सरयूः स्वर्णरक्षिका ।।३७।।
इन्द्रद्युम्नं पुष्करं च नारायणसरस्तथा ।
अश्वपट्टसरश्चैवाऽखातान्यन्यानि यानि वै ।।३८ ।।
मानसं च सरो रामसरः कृष्णसरस्तथा ।
मत्स्यसरस्तथा शोणो ब्रह्मपुत्रश्च गर्गरः ।।३९ ।।
एवं नदाश्च नद्यश्च सरांसि सागरास्तथा ।
क्रौंचमैनाकहीमाद्रिविन्ध्यमन्दररैवताः ।।1.129.४० ।।
पर्वताः पृथिवी देवी वरुणोऽन्ये च वैष्णवाः ।
मार्कण्डेयो बलिर्बाणोश्वत्थामहनुमद्वराः ।।४१ ।।
निमिर्बिभीषणः पर्शुरामो व्यासो मनुस्तथा ।
सत्यव्रतश्च नन्दश्च गयश्च तल इत्यपि ।।।४२।।
एते चान्येऽपि देवाद्या दिव्या नारायणाश्रिताः ।
वर्तन्ते दिव्यवपुषः क्षीरसागरमण्डपे ।।४२।।।
दुग्धाब्धौ निर्मिते तत्र वैकुण्ठे वर्तते प्रभुः ।
दैतेयैर्वध्यमानैर्हि ब्रह्मरुद्रादिभिः सुरैः ।।४४।।
संस्तूयमानो देवेशो गरुडेन विराजितः ।
दैत्यांश्च राक्षसान् हत्वा पुनरेत्याऽत्र तिष्ठति ।।४५।।
शेषाख्यशयने शेते दासदासीप्रसेवितः ।
इत्येवं पार्वति देवि! सर्वं ते विनिवेदितम् ।।४६।।
वृत्तयश्चेन्द्रियाणां तु जायन्ते कुण्ठिता यदा ।
यदा तदा तत्रैव वैकुण्ठं बोद्धव्यं मोक्षमिच्छता ।।४७।।
धन्याऽसि कृतकृत्याऽसि भक्तासि पुरुषोत्तमे ।
इत्येवं बहुधा व्याप्तं जानासि व्यूहवैभवम् ।।४८।।
अहं भजामि देवेशि! तं श्रीनारायणं हरिम् ।
मया तुभ्यं प्रमोक्षार्थं साधनं शरणागतिः ।।४९।।
समन्त्रा च समुद्रा च सकण्ठी सोर्ध्वपुंड्रका ।
साऽभिधा कथिता पाल्या यया मुक्तिर्भवेदिति ।।1.129.५० ।।
ज्ञानाद्ध्यानाच्च तपसो योगाद्यज्ञाद्विरामतः ।
जपाच्छ्रवात्तथा न स्याद्यथा मुक्तिस्तदर्पणात् ।।५ १ ।।
तद्वदात्मनिवेदित्वं गृहाण त्वं मम प्रिये ।
तेन मुक्तिध्रुवा भाव्या ब्राह्मीश्रीहर्यनुग्रहान् ।।।५२।।
एवं शंभुर्ददौ दीक्षां स्वीयपत्न्यै तु वैष्णवीम् ।
तत आरभ्य सा नित्यं लक्ष्मीनारायणस्य वै ।।५३।।
पूजा कृत्वाऽर्पणं कृत्वा गृह्णात्यन्नं जलं च वा ।
ततस्तौ वैष्णवौ भक्तौ पार्वतीपरमेश्वरौ ।।५४।।
ममैवाराधनपरौ मदर्थात्मनिवेदिनौ ।
ममैवानुचरौ शिष्यौ मदात्मानौ मम प्रियौ ।।।५५।।
श्रीलक्ष्मीरुवाच-
यदि तौ वैष्णवौ देवौ त्वय्येवात्मनिवेदिनौ ।
कथ भस्मत्रिपुंड्ररुद्राक्षान्दधाति शंकरः ।।५६।।
सोयं मे संशयो जातस्तन्निषूदय सत्यते ।
न ज्ञाता विष्णुतां जह्याद् भवेदन्यत्तु कारणम् ।।५७।।
इत्याश्रुत्य हरिर्लक्ष्मीमुवाच तत्कथानकम् ।
कथं भस्मत्रिपुंड्रादि बाह्ये दधाति शंकरः ।।५८।।
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने क्षीरसागरे चतुर्थवैकुण्ठवसानमण्डपदिव्यभोगशेषतल्पलक्ष्मीनद-
नदीपर्वतादिचिरंजीविवैष्णवभक्तादिवैष्णवशंभुकृतभस्मत्रिपुंड्रादिधारणशंकाप्रदर्शननामैकोनत्रिंशटधिकशततमोऽध्यायः ।। १२९ ।।