लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः १९३

← अध्यायः १९२ लक्ष्मीनारायणसंहिता - खण्डः २ (त्रेतायुगसन्तानः)
अध्यायः १९३
[[लेखकः :|]]
अध्यायः १९४ →

श्रीकृष्ण उवाच-
शृणु राधे ततो राजाऽवतरन्तं विमानतः ।
भगवन्तं बालकृष्णं पुष्पहारं गले ददौ ।। १ ।।
रत्नहारं ददौ कण्ठे करे गुच्छं तु पुष्पजम् ।
राज्ञी साक्षतचन्द्रं च कौंकुमं प्रचकार ह ।। २ ।।
कुमारिकाः कृष्णपादौ प्रक्षाल्याऽमृतमापपुः ।
राज्ञः कुटुम्बं चामात्याः प्रधानाद्याः प्रजास्तथा ।। ३ ।।
श्रीहरेः स्वागतं चक्रुः पूजाभिस्तत्र सादरम् ।
जलपानं च हरये राजा ददौ सुगन्धिमत् ।। ४ ।।
अन्यानपि जनान् सर्वान् जलपानमकारयत् ।
हरिं राजा गजयाने सौवर्णे सन्न्यषादयत् ।। ५ ।।
कुटुम्बं गजयानेषु महर्षीन् वृषवाजिभिः ।
वाहितेषु रम्यपट्टीगन्त्रीषु स न्यषादयत् ।। ६ ।।
ब्रह्मप्रियास्तु दिव्यासु पट्टगन्त्रीषु भूपतिः ।
न्यषादयत्ततो राजा हस्तियाने त्वरूरुहत् ।। ७ ।।
वालीनायां नगर्यां ससैन्यो राजा हरिं प्रभुम् ।
अभ्रामयद् राजमार्गेणान्यरथ्यादिचत्वरे ।। ८ ।।
अग्रे डंककनादो वै याति चोष्ट्रस्य पृष्ठके ।
ततो वाजिवरो याति सध्वजो वाहकान्वितः ।। ९ ।।
ततो हस्ती महान् याति दुन्दुभिध्वानबोधनः ।
शृंगारितास्तु ते वाहाः शोभन्ते देवता यथा ।। 2.193.१ ०।।
ततो याति रथो दिव्यः पुत्तलीचक्रशोभितः ।
पुष्पहारादिदानार्थं प्रजायै कृष्णपूजने ।। ११ ।।
ततः स्वर्णमयी गन्त्री विशाला यन्त्रवाहिता ।
यत्र झांझपखाजादिमण्डली कीर्तनार्थिनी ।। १ २।।
यत्र ध्वानकराश्चाश्ववाराः सकुन्तसद्ध्वजाः ।
ततो याति महान् हस्ती यत्र राजकुमारकाः ।। १ ३।।
ततो यान्ति चोष्ट्रगन्त्र्यो यत्र प्रधानजाः प्रजाः ।
ततो यान्ति सिंहवेषा वादित्रनादिनो जनाः ।। १४।।
ततो व्याघ्रप्रवेशाश्च विगुलादिनिनादिनः ।
अथ सप्तगजा यान्ति ब्रह्मर्षिवाहनास्तदा ।। १५।।
ततोऽश्ववारयुगलाः स्वर्णवेषाश्च शस्त्रिणः ।
वाद्ययुक्तगणा यान्ति दुन्दुभ्यानकधारिणः ।। १६।।
पटहध्रास्ततो यान्ति पट्टघाश्च ततः परम् ।
ततो गणा यथा शंभोः शतशो भृत्यपार्षदाः ।। १७।।
ततो भृत्या राजगन्त्रीवर्यासु वै सहस्रशः ।
ततो वाद्यानि चान्यानि मिष्टमधुरसद्रवैः ।। १८।।
बोधयन्ति जनान् पश्चाद् यान्ति ब्रह्मप्रिया इमाः ।
ततो गन्त्रीषु सर्वासु गौर्यः शृंगारिता ययुः ।। १ ९।।
ततः कुटुम्बं कृष्णस्य गजेषु याति शोभितम् ।
तत ईषानदेवश्च गजपृष्ठे विराजते ।।2.193.२० ।।
ततो राज्ञी राजमाता स्वर्णगन्त्र्यां विराजते ।
ततः कुमारकाः सर्वे कुमारिकास्ततः परम् ।।२ १ ।।
गजयन्त्रीषु राजन्ते ततो राजा सुशोभितः ।
बललीनो महाराजः श्रीकृष्णेन तु सत्कृतः ।।२२।।
हस्तियाने बालकृष्णसन्निधौ राजते पुरः ।
धृतछत्रः पार्श्वभागे चामरध्रौ प्रतिष्ठतः ।। २३ ।।
पृष्ठे महाश्ववाराश्च गजवाराः प्रयान्ति च ।
ततो गौर्यः स्वर्णवेषाः प्रयान्ति मंगलस्वराः ।।२४।।
मस्तके कृतकलशाः फलपत्रजलान्विताः ।
यान्ति गीतिपराः सर्वा रक्षकाश्च ततः परम् ।। २५ ।।
यन्त्रध्वानकराश्चापि चान्ते प्रयान्ति वै तदा ।
गौर्यः प्रजाप्रियाश्चापि प्रयान्ति संघशस्तदा ।।२६।।
राजमार्गाः संकुलितास्तदाऽऽसन् मानवैरति ।
चत्वराश्चन्द्रशालाश्चालयाः सौधाः प्रतर्दिकाः ।। २७।।
वितर्द्यः संगमा रथ्यायोगाः पार्श्वपदसृतिः ।
वल्लभ्यश्चांगणान्यगाराणि गोपुरभूमिकाः ।।२८।।
वृक्षशाखा दुर्गभागा भित्तिका गृहवेषकाः ।
कोणाः कफोणाश्चोत्ताना मध्यभारा नलाजलाः ।।२९।।।
उच्छ्रया जीर्णभागाश्च गण्डोर्ध्वा गृहभूमयः ।
उद्याना मार्गभागाश्च पार्श्वप्राकारवृत्तिकाः ।। 2.193.३० ।।
सर्वं संकुलितं चासीन्मानवैर्दर्शनार्थिभिः ।
नगरी कोटिमानुष्यैर्मर्दिता दर्शनार्थकैः ।। ३१ ।।
स्वर्गस्येन्द्रावतीनाम्नी यथाऽशोभत सा पुरी ।
चत्वराः पुष्पस्तबकैः कृत्रिमोद्यानकीकृताः ।। ३ २।।
रथ्याद्वाराणि च शृंगारितानि गोपुरादिभिः ।
हट्टांगणानि सर्वाणि शोभितानि च तोरणैः ।।३ ३।।
मार्गपार्श्वप्रभागाश्च शोभिताः कदलीवनैः ।
अगाराणि रङ्गवल्लीस्वस्तिकाद्यैः कृतानि च ।। ३४।।
मार्गोपर्यन्तरीक्षं शोभितं पताकिकाध्वजैः ।
वावटाभिस्तोरणैश्च संशोभिताः सुभूमिकाः ।। ३९।।
कलशैः श्रीफलैश्चापि द्वारशाखाः सुशोभिताः ।
कन्याभिर्गौरवर्णाभिः शोभिता वल्लभीभुवः ।। ३६।।
शोभितानि गवाक्षाणि मृगाक्षीणां मुखाब्जकैः ।
सौधा धवलवर्णाश्च वावटाभिः सुशोभिताः ।। २७।।
शिखराणि घूम्मटानि स्तूपानि वेधकानि च ।
घटीशृंगाणि सर्वाणि शोभितानि शुभध्वजैः ।।३८।।
जयशब्दैर्वाद्यशब्दैर्यन्त्रीध्वानैः सुगीतिभिः ।
गर्जिता दशदिक्ष्वेषा पुरी वाल्गनिकाऽभवत् ।।३९।।
गोपुरे रक्षिभिः कृष्णः पूजितश्च प्रधानकैः ।
अग्रे सैन्यैः पूजितश्च राजकीयैर्जनैस्ततः ।।2.193.४० ।।
श्रेष्ठिभिः सत्कुलैश्चाप्यापणिभिः स्थानिभिस्तथा ।
पूजितः सर्ववर्गैश्च योषिद्भिश्च नरैस्तथा ।।४१।।
उपदाभिः फलाद्यैश्च कणाद्यैर्भूषणादिभिः ।
अम्बरैः कम्बलाद्यैश्च हारैः स्रग्भिः सुवर्णजैः ।।४२।।
अक्षतैः कुंकुमैश्चापि रत्नहीरकहारकैः ।
पुष्पैश्च वर्धितः कृष्णनारायणोऽतिभावतः ।।४३।।
एवं भ्रमित्वा नगरीं राजसौधं समाययौ ।
राजा संपूजयामास कोटिरत्नार्पणैर्हरिम् ।।४४।।
रात्रौ पूजां व्रतस्यैवैकादश्यां प्रचकार ह ।
जागरणं सभायां च धर्मादेशयुतं हरिः ।।४५।।
प्रचकारोत्सवयुक्तं कृष्णकीर्तनसंयुतम् ।
राधिके च महीमानाश्चक्रुर्विश्रान्तिमादरात् ।।४६ ।।
हरिश्चोपादिदेशैव सर्वान् जागरणस्थितान् ।
जाग्रत्येव नरे व्रतस्थिते निद्रोत्थदूषणम् ।।४७।।
व्रतघ्नं नोपसंयाति चैतज्जागरणे फलम् ।
व्रतं पूर्णं भवेच्चापि तमोभावो निरुद्ध्यते ।।४८।।
प्रसह्यापि भवेद् भक्तिर्हरौ सन्तोषकारिणी ।
श्रीहरौ तोषिते सर्वं सफलं मानवं जनु ।।४९।।
तदर्थं वै व्रतं लोके कर्तव्यं सावधानिना ।
उदये या तिथिस्त्वास्ते सैकादशी व्रतर्थिनी ।।2.193.५०।।।
सूर्यस्योदयनं मत्वा कार्या त्वेकादशी सदा ।
मम जन्माष्टमी प्रातर्जन्मन्यष्टमिकोदये ।।५१ !।
ऊर्जे कृष्णे सदा ग्राह्या शरत्पूर्णोत्तराऽऽगता ।
एवं चान्याश्च तिथयो ग्राह्या सूर्योदये स्थिताः ।।५२।।।
नक्षत्रं वासरं वाप्यालम्ब्य सेत्स्यन्ति मानवाः ।
तन्न मुख्यं मतं मे वै तिथिर्मे ह्युदये मतम् ।।५३।।
व्रतं तत्रैव कर्तव्यं यद्व्रते यत्र या तिथिः ।
तिथेः क्वापि क्षयो नास्ति क्षीणा चन्द्रोदये मता ।।।५४।।
चन्द्रोदये च वा सूर्योदयेऽस्तित्वं तिथेर्ध्रुवम् ।
रात्रावुत्सवकार्ये तु तिथिश्चन्द्रोदया मता ।।५५।।
दिने तूत्सवकार्ये तु सूर्योदया मता तिथिः ।
एवं व्रतानि कार्याणि मद्बलात्तानि सर्वथा ।।५६।।
पुण्यदानि पूर्णकानि भवन्ति नात्र संशयः ।
मोहिनी ब्रह्मजा वेधा मत्सम्बन्धे न हानिदा ।।५७।।
इति ममाज्ञां ज्ञात्वैव व्रतानि चोत्तमानि वै ।
कर्तव्यानि सदा भक्तैर्मदाज्ञा फलदायिनी ।।५८।।
यत्काले यस्य देवादेरुत्सवो जन्म वा लयः ।
तत्क्षणे या तिथिश्चास्ते सा व्रते शोभना सदा ।।५९।।
सूर्योदयस्तथा चन्द्रोदयो वा तारकोदयः ।
गौणस्तत्रैव मन्तव्यः क्षणं मुख्यं दिवानिशम् ।।2.193.६० ।।
एतद् विहाय मनुजाः करिष्यन्ति व्रतानि चेत् ।
भिन्नमतानि तत्रैव भविष्यन्ति न संशयः ।।६ १ ।।
व्रतच्छेदकराण्येव भविष्यन्ति तु तानि वै ।
तस्मात् क्षणः सदा ग्राह्यो व्रते सर्वविधोत्सवे ।।६२।।
तेन धर्मो वर्धते वै नान्यथा तु कदाचन ।
श्रद्धया वर्धते पुण्यं कालयुक्तं विशेषतः ।।६३ ।।
पात्रयुक्तं ततोऽप्यति वर्धते पात्रसद्बलात् ।
पात्रं चाहं परब्रह्म सेवनीयो व्रतं महत् ।।६४।।
मातापित्रोर्गुरोश्चापि शुश्रूषा व्रतमुत्तमम् ।
आचार्यसाधुशुश्रूषा व्रतं पुण्यप्रदं महत् ।।६५।।
जनसेवाः प्रपाः कूपाः शयनानि शुभानि च ।
दानानि कारयेद् भक्त्या व्रतं पुण्यप्रदं हि तत् ।।६६।।
अहिंसा सत्यमक्रोधो वृत्तिदानं प्रपालनम् ।
वृद्धानां सेवनं पुत्रदाराणां भरणं व्रतम् ।।६७।।
दक्षिणा यज्ञकार्येषु दातव्या भूतिमिच्छता ।
पाकयज्ञाः प्रकर्तव्याः कणयज्ञाश्च भूतिदाः ।।६८।।
अर्हान् पूजयतो नित्यं संविभागेन सर्वथा ।
व्रतं तस्य भवेत्तद्वै स्वर्गदं नात्र संशयः ।।६९।।
ज्ञातिसम्बन्धिमित्राणामापदुद्धर्तुरत्र तु ।
पुण्यं स्वर्गप्रद्ं स्याद्वै व्रतमेतत्परं सदा ।।2.193.७०।।
सर्वसत्कारकर्तुस्तु स्वर्गं ध्रुवं न संशयः ।
पितृयज्ञं भूतयज्ञं चातिथेः पूजनादिकम् ।।७१ ।।
देवयज्ञं कुर्वतस्तु स्वर्गं ध्रुवं न संशयः ।
दीक्षाया ग्रहणं चापि शिष्टानां पूजनं सदा ।।७२।।
देवानां स्मरणं चापि शरणागतरक्षणम् ।
अकौटिल्येन वृत्तिश्च व्रतं ब्रह्म दिवः प्रदम् ।।७३।।
सर्वभूतेषु दयया प्रवृत्तस्य तु देहिनः ।
परित्राणपरस्याऽत्र व्रतं स्वर्गप्रदं भवेत् ।।७४।।
आगतानां स्वागतादिकर्तुर्योग्यक्रियावताम् ।
पूजयितुर्विनम्रस्य व्रतं स्वर्गप्रदं भवेत् ।।७५।।
कुटुम्बस्य वशे स्थातुः साधूनां वचनेऽपि च ।
शास्त्राणां वचने स्थातुर्व्रतं मोक्षप्रदं भवेत् ।।७६।।
आश्रमे यत्र कुत्रापि तद्वृषेऽवस्थितस्य तु ।
व्रतं धर्ममयं स्वर्ग्यं भवत्येव न संशयः ।।७७।।
स्थानमानं कुलमानं वयोमानं गुणार्हणम् ।
कुर्वन् वर्तेत लोके यस्तस्य नाकं सुनिश्चितम् ।।७८।।
देशधर्मान् ज्ञातिधर्मान् प्रजाधर्मान् विलोक्य च ।
तत्तथा वर्तते यश्च व्रतं तस्येदमुत्तमम् ।।७९।।
गृहस्थोऽपि न वै लुब्धः स्मृद्धौ च विषये धने ।
देहे वा दैहिके वाऽपि व्रतं साधुसमं भवेत् ।।2.193.८० ।।
धर्मारामा धर्मपरा धर्मसाहाय्यदा जनाः ।
धर्मावासा भवन्त्येव गार्हस्थ्येऽपि हि साधवः ।।८ १ ।।
आत्मोपमश्च यो लोके भूतेषु वर्तते सदा ।
परदुःखहरो देही प्रत्येह लभते सुखम् ।।८२।।
धर्मोदया धर्मवीर्या धर्मपालाध्वरक्षकाः ।
त्यागधर्माश्रिताः शीघ्रं तरन्त्येव भवाम्बुधिम् ।।८३।।
यदा दुत्स्थोऽस्य संकल्पो निवृत्तो मूलतो भवेत् ।
देही सत्त्वगतिं प्राप्तस्ततो ब्रह्म समश्नुते ।।८४।।
तस्मात् सर्वेऽपि संकल्पा न्यसनीया मयि प्रभौ ।
आत्मा निवेदनीयश्च दास्ये मोक्षं तु धाम मे ।।८५।।
इत्युक्त्वा विररामाऽसौ बालकृष्णः परेश्वरः ।
राजा पुपूज देवं च लक्ष्मीनारायणं तथा ।।८६।।
सतीशानं महेशं सपुपूज परमादरात्। ।
प्रातः स्नानादिकं कृत्वा पूजनादि विधाय च ।।८७।।
राजा प्रकारयामास मिष्टान्नाद्यैश्च पारणाम् ।
श्रीहरिः पारणां कृत्वा विश्रान्तिं चाप यावता ।।८८।।
तावद् राज्ञी श्रीरतीशा पूजोपकरणान्विता ।
चत्वारिंशत्कन्यकाभिर्गौरीभिः सह चाययौ ।।८९।।
पुपूज परमात्मानं पादामृतं पपौ ततः ।
चत्वारिंशत्कन्यकाश्च हरेः पाणिं प्रजगृहुः ।। 2.193.९०।।
तदा वाद्यान्यवाद्यन्त राजाज्ञया च गीतयः ।
अगायन्त च गौरीभिरुत्सवो नृत्यसंयुतः ।।९ १ ।।
अजायत नृपश्च स्वं कृतकृत्यममन्यत ।
उपदा यौतकं चापि राजा ददौ तु शार्ङ्गिणे ।।९२।।
रत्नहारान् स्वर्णभूषाः कम्बलाम्बरभूतिकाः ।
हरिः प्राप्य च तत्सर्वं नृपाज्ञया द्रुतं तदा ।।९३ ।।
गन्तुं सज्जोऽभवच्छीघ्रं राजाऽभोजयदच्युतम् ।
महीमानान् समग्राँश्चाऽभोजयत्पायसादिकम् ।।९४।।
सैन्यं ततोऽभवत्सज्जं प्रस्थाने मानदं तदा ।
अवादयच्च तूर्याणि चक्रे जयनिनादनम् ।।९५ ।।
विमानानि तदा सर्वाण्येवाऽभवन् विहायसि ।
आरुरोह महाराजः पूजितः प्रजयाऽभितः ।।९६ ।।
आरुरुहुस्तथा सर्वे पालनादर्षिबोधिताः ।
वरसिंहनृपेणापि निमन्त्रिताश्च ते तदा ।।९७।।
गतिमन्तोऽभवन् व्योम्नि शृण्वन्तो वै जयध्वनीन् ।
हरेर्विमानमगमद् वरसिंहस्य राष्ट्रकम् ।।९८।।
राजा पूर्वं वरसिंहोऽवाततारर्षिसंयुतः ।
स्वागतार्थं हरेः सैन्यं सज्जं चास्थापयत्पुरः ।।९९।।
विष्णुतुल्यानदीतीरे वाशीलानगरीतटे ।
हरेर्विमानमालोक्य सैन्यं स्वागतमाचरत् ।। 2.193.१०० ।।
विचित्रवाद्यध्वनिभिर्यन्त्रगर्जनया तथा ।
गीतिकाभिश्च गौरीणां व्योम नादमयं ह्यभूत् ।। १०१ ।।
राजदर्शितमार्गेण विमानं भुवमागतम् ।
हरेश्चान्यानि च विमानानि चाप्यागतानि वै ।। १०२।।
विमानोपरि पुष्पाणां वृष्टिः प्रजाकृताऽभवत् ।
राधिके जनता चाभूद् विह्वला दर्शनाय च ।। १ ०३।।
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने वालीनानगर्यां श्रीहरेर्धमणं पूजनं जागरणं व्रतोपदेशनं द्वादश्यां पारणं ततो वाशीलानगरीं प्रति गमनमित्यादिनिरूपणनामा त्रिनवत्यधिकशततमोऽध्यायः ।। १९३ ।।