लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)/अध्यायः ००१

लक्ष्मीनारायणसंहिता - लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)
अध्यायः १
[[लेखकः :|]]
अध्यायः २ →

अनादिश्रीकृष्णनारायणाय नमः

श्रीगणेशाय नमः

ॐ श्रीलक्ष्मीनारायणसंहिता

तृतीयः द्वापरयुगसन्तानः

श्रीनारायणीश्रीरुवाच-
ओं नमः श्रीपरब्रह्माऽक्षरातीताय चक्रिणे ।
परेशाय ध्वजशूलधनुश्चिह्नाय शार्ङ्गिणे ।। १ ।।
सर्वकान्ताय कान्ताय सर्वान्तर्यामिणे नमः ।
मुक्तबन्धाय हृद्याय नमः सर्वावतारिणे ।। २ ।।
यस्मात् सर्वमिदं जातं येन पुष्टिं प्रयाति च ।
यत्र स्थितं भवेदन्ते तस्मै कान्ताय ते नमः ।। ३ ।।
यस्मात् सर्वे ह्यवताराः श्रीकृष्णाद्या भवन्त्यपि ।
कालो माया यदंशाश्च तस्मै कान्ताय ते नमः ।। ४ ।।
याऽह वै सुखदालक्ष्मीः विश्वेश्वरसुता तव ।
प्रिया भूत्वाऽभवं नारायणीश्रीस्ते नमो नमः ।। ५ ।।
अनन्ताः कन्यका जाता नारायण्यो हरेः प्रियाः ।
अनादिश्रीकृष्णनारायणाय ते नमो नमः ।। ६ ।।
लक्ष्मीकान्ताय कान्ताय राधाकान्ताय ते नमः ।
माणिक्यावाहिने रमापतये ते नमो नमः ।। ७ ।।
श्रीशायते पद्मावतीपतये च नमो नमः ।
ब्रह्मप्रियाशनाद्यानां पतये ते नमो नमः ।। ८ ।।
षष्ठी या मनसा देवी तद्धवाय च ते नमः ।
दीपावलीनां पतये तलाजापतये नमः ।। ९ ।।
कामधेनुप्रगोपायाऽऽर्जन्तीनां पतये नमः ।
क्रोधनेशाय च धरापुत्रीणां पतये नमः ।। 3.1.१ ०।।
सूचीकान्ताय च वनदेवीजेशाय ते नमः ।
दामनीपतये कंकतालिकेशाय ते नमः ।। ११ ।।
पितृकन्याप्रकान्ताय जनपितृसुतेशिने ।
पितृदासीश्वरायाऽपि बालकृष्णाय ते नमः ।। १२।।
रासातलीनां कान्ताय वासन्तिकेश ते नमः ।
सालमालीयनारीणामीश्वराय च ते नमः ।। १३।।
स्वस्तिकीनागकन्यानां पतये ते नमो नमः ।
नागिनीनां च पतये परमेशाय ते नमः ।। १४।।
शावदीनोप्रकान्ताय परेशाय च ते नमः ।
ऐन्द्रजालिककान्तानां पतये ते नमो नमः ।। १५।।
विद्यानाथाय च सरस्वतीशाय च ते नमः ।
लाक्ष्मणीशाय देवाय नाडिकेशाय ते नमः ।। १६।।
गान्धर्वीणां च पतये जुम्मसेम्लीश ते नमः ।
सान्तपनीवरायाऽपि सौरतीपतये नमः ।। १७।।
महाबालेश्वरीशाय चैलबीलेश ते नमः ।
दाक्षजावंगरीशाय चौष्णीशाय च ते नमः ।। १ ८।।
प्राचीनीनां पतये ते पिशंगीपतये नमः ।
सान्ताणरीश्वर कृष्ण शैबीनां पतये नमः ।। १९।।
थार्कूटस्थीप्रमदेश वीरजारीश ते नमः ।
शाक्त्यक्षीप्रमदानाथ पिशाचीश्वर ते नमः ।।3.1.२०।।
कालिमाशीश्वर कृष्ण दीनबन्धो च ते नमः ।
औरलकैतवीशाय क्राथकीपतये नमः ।।२१।।
पृथुपुत्रीस्वामिने ते चोष्ट्रालीपतये नमः ।
हांकारीस्वामिने जयकाष्ठजेशाय ते नमः ।।२२।।
तीराणीपतये नाथ चाल्वीनारीश ते नमः ।
जीनवर्द्धिसुतेशायाऽनाथानाथाय ते नमः ।।२३।।
प्रकीर्णप्रमदेशाय परमेशाय ते नमः ।
आल्पकैतवीकान्ताय पारीशानीश ते नमः ।।२४।।।
इन्दुरायसुतेशाय मुद्राण्डीपतये नमः ।
गण्डभूपसुतेशाय लीनोर्णापतये नमः ।।२५।।
बार्हच्छारीस्वामिने ते बाललीनीश ते नमः ।
वारसिंहीस्वामिने ते रायगामीश ते नमः ।।२६।।
फैनतान्तवीकान्ताय स्तोकहोमीश ते नमः ।
काष्ठयानीस्वामिने ते कोलकीपतये नमः ।। २७।।
दैनमानीस्वामिने ते मम कान्ताय ते नमः ।
परेशाय नमो रायकिन्नटीपतये नमः ।।२८।।
रायकोटीस्वरीशाय नमस्ते परमात्मने ।
रायरणजित्पुत्रीश नमस्ते हरये नमः ।। २९।।
रायवाकक्षिकेशाय रायमारीशकेशिने ।
रायबालेश्वरीशाय रायलम्बारिकेशिने ।।3.1.३ ० ।।
नमस्ते रायनवारिकेश श्रीपरमात्मने ।
रायहूण्डेशिकेशाय रायकूपेशिकेशिने ।।३ १ ।।
कालीमण्डीस्वामिने ते वनजेलेशिकेशिने ।
पारावारपिबीशाय कोटिशेशाय ते नमः ।।३ २।।
सतीशीशाय देवाय त्रेताकर्कशिकेशिने ।
आण्डजरास्वामिने ते बाल्यराजसीस्वामिने ।।३३।।
रायसोमनीस्वामिने ते सर्वेशाय नमो नमः ।
उरुगवाक्षिकेशाय पराङ्व्रतनिकेशिने ।।३४।।
रायस्वस्त्रीश ते कृष्णनारायण प्रभो नमः ।
ऐशानपानीश कान्त राजारायीश ते नमः ।।३५।।
मंगलादिप्रकान्ताय चाजनाभीश्वराय च ।
नमः कौबेरिकेशाय माहेन्द्रीपतये नमः ।।३६ ।।
यमीनां स्वामिने कृष्ण वायवीशाय ते नमः ।
वैश्वकर्मीस्वामिने ते वार्क्षीणां पतये नमः ।। ३७।।
रौद्रीणां पतये वह्निपुत्रीणां पतये नमः ।
श्रावणीनां च पतये खानिजीशाय ते नमः ।।३८।।
सांवत्सरीस्वामिने ते गोपीनां पतये नमः ।
प्राचीनीनां स्वामिने ते पिशंगीस्वामिने नमः ।। ३९।।
राशियानीश्वर रोमायनीश्वर च ते नमः ।
पारशीपतये कृष्ण धीवरीपतये नमः ।।3.1.४०।।
किन्नरीपतये कृष्णाऽमरीणां पतये नमः ।
गौरीणां पतये परीपतये ते नमो नमः ।।४१ ।।
आब्रिक्तीस्वामिने हारितीशाय ते नमो नमः ।
पातालीपतये स्वर्गीपतये ते नमो नमः ।।४२।।
अप्सरसां दिनेशाय ब्रह्मसरोऽधिशासिने ।
गान्धर्वीणां पतये ते कुशलेशाय ते नमः ।।४३ ।।
विद्यन्मणिस्वामिने ते भौमीनां पतये नमः ।
दानवीनां पतये ते शक्तीनां पतये नमः ।।४४।।
काशिकाकन्याकानाथ धेनुपालीश ते नमः ।
कान्ताकान्तेश सर्वेश मम प्राणेश ते नमः ।।४५।।
नमः श्रीकंभरापुत्र सन्तुष्टाऽनुज ते नमः ।
त्वया व्याप्तमिदं सर्वं सर्वान्तर्यामिणे नमः ।।४६।।
श्रीकृष्णायविष्णवेस्वामिने मत्पतये नमः ।
लक्ष्मीशेशस्त्वमेवर्षिसत्तमस्त्वं नृपोत्तमः ।।४७।।
त्वं यज्ञस्त्वं जाठरश्च तृप्तिदस्त्वं परेश्वर ।
प्राप्य त्वां त्वर्बुदाद्याश्च नार्यो मुक्तिं गतास्त्विह ।।४८।।
मुक्ताश्च मुक्तिमापन्ना नरा जाताः परार्धगाः ।
त्वां भजित्वा स्वः प्रयान्ति जनं सत्यं प्रयान्ति च ।।४९।।
त्वां भजित्वा च वैकुण्ठं वैराजक्ष्मां प्रयान्ति च ।
त्वां भजित्वाऽमृतलोकं गोलोकं च प्रयान्ति वै ।
अक्षरं परमं धाम त्वां भजित्वा प्रयान्ति हि ।।3.1.५०।।
भवता भगवन् सर्वं समाधौ दर्शितं हि नः ।
मे तदारभ्य जिज्ञासा वर्तते कालगोचरा ।।५१।।
आत्यन्तिके लये मुक्तमण्डलेषु विराजसे ।
प्राकृते पुनरारब्धे सर्गे कालेन नोदिते ।।५२।।
प्रधानपुरुषे जाते महाविष्णौ तथोद्गते ।
वैराजे च ततो जाते तथा जाते च वेधसि ।।५३ ।।
इदानींपरिपर्यन्तं कालः कियान् गतो वद ।
ज्ञातव्यं चाप्यधिकं चेद् विद्येत वद मे हरे ।।५४।।
यद्यहं ज्ञानपात्रं चेद् वद मे प्राणरक्षक ।
पृथ्व्यामिदानीं कालोऽपि कियानस्तीति मे वद ।।५५।।
पुरुषोत्तम एवाऽसि सर्वज्ञः साक्षगोचरः ।
त्वां विनाऽन्यो न वै शक्तो वक्तं भवेन्नरायण ।।५६।।
श्रीपुरुषोत्तम उवाच-
शृणु नारायणीश्रि त्वं कालसंख्यानमादरात् ।
वक्तुमशक्यमन्येन ज्ञातुं चाऽशक्यमित्यपि ।।५७।।
यदा नासीन्महामाया सृष्टिरूपा गुणत्रया ।
लीना मदिच्छारूपा सा यदासीदक्षरे पदे ।।५८।।
यदा नासीन्महाकालः पुरुषस्तत्प्रयोजनः ।
लीनश्चासीन्मदैश्वर्यरूपो मुक्तः स चाऽक्षरे ।।५९।।
तदाऽक्षरं परं धाम ममैवाऽसीन्न चेतरत् ।
ब्रह्मसृष्टिः केवला सा नैश्वरी जीवनी कुतः ।।3.1.६०।।
महाप्रलय एवाऽसौ बोध्यस्त्वया नरायणि! ।
मया चेक्षा कृता ह्येको बहु स्यां माययान्वितः ।।६ १ ।।
तदा त्विच्छास्वरूपा सा माया प्रकाशमागता ।
दिव्या मुक्तानिका शक्तिर्मम सा तु गुणात्मिका ।।६२।।
कालाख्यः पुरुषश्चापि मया प्रकाशितस्ततः ।
ममैश्वर्यस्वरूपः स मुक्तो तयाऽन्वयं गतः ।।६३।।
युगलं तत्तु प्रकृतिपुरुषौ मदपत्यकौ ।
जातौ ताभ्यां मया त्वाज्ञा दत्ता सृष्ट्यर्थमेव ह ।।६४।।
ताभ्यां च जातमात्राभ्यां सृष्ट्यारंभः कृतः प्रगे ।
एकं सुयुगलं सृष्टं प्रधानपुरुषात्मकम् ।।६५।।
तेन सृष्टिः कृता महाविष्णुकोट्यर्बुदात्मिका ।
प्रधानपुरुषः सोऽयं सायं च व्यशनत्ततः ।।६६।।
रात्र्यन्ते च प्रगे कालप्रकृतिभ्यां पुनर्नवम् ।
युगलं सृष्टमेवाऽन्यत् प्रधानपुरुषात्मकम् ।।६७।।
सृष्टिं कृत्वा च सायं तद्विनष्टं पुनरेव ह ।
दिवसोऽयं महाकालकल्पः संप्रोच्यतेऽक्षरे ।।६८।।
सहस्रं तु महाकालकल्पानां वर्षमेककम् ।
प्रकृतेश्चापि कालस्य विद्यते तत्र सर्वथा ।।६९।।
एतादृशानि वर्षाणि पञ्चाशद् विगतानि वै ।
प्रकृतिपुरुषस्यैवैकपञ्चाशत्तु वत्सरम् ।।3.1.७०।।
वर्ततेऽद्याऽद्यदिवसं तावत्यः सृष्टयो गताः ।
ते पञ्चाशत्सहस्राणि प्रधानपुरुषा मृताः ।।७१ ।।
एकपञ्चाशत्सहस्राऽऽद्यः प्रधानपुरुषोऽस्ति वै ।
शृणु चाग्रेऽपि कालं वै नारायणीश्रि सर्जनम् ।।७२।।
अयं प्रधानपुरुषः प्रातरेव नवं नवम् ।
महाविष्णुं जनयति वैराजीसृष्टिकारकम् ।।७३।।
महाविष्णुः स वै सायं नश्यत्येव दिनान्तके ।
एवं सहस्रदिवसात्मकं वर्षं प्रधानकृत्। ।।७४।।
प्रधानपुरुषस्याऽस्य वै पञ्चाशत्समा गताः ।
तत् पञ्चाशत्सहस्राणि ते महाविष्णवो मृताः ।।७५।।
एकपञ्चाशत्तमेऽब्दे चाद्यस्य दिवसस्य वै ।
एकपञ्चाशत्सहस्राऽऽद्यो महाविष्णू राजते ।।७६।।
शृणु चाग्रेऽपि कालं वै नारायणीश्रि! सर्जनम् ।
महाविष्णुश्चाऽयमत्र प्रातरेव नवं नवम् ।।७७।।
वैराजं जनयत्येव वैधसीसृष्टिकारणम् ।
वैराजश्च स वै सायं नश्यत्येव दिनान्तके ।।७८।।
एवं सहस्रदिवसात्मकं वर्षं प्रविद्यते ।
महाविष्णोर्मम पितुर्गोपालकृष्णकस्य वै ।।७९।।
महाविष्णोश्चास्य तत्र वै पञ्चाशत्समा गताः ।
वै पञ्चाशत्सहस्राणि वैराजास्तत्सुता मृताः ।।3.1.८०।।
एकपञ्चाशत्तमेऽब्दे चाद्यस्य दिवसस्य वै ।
एकपञ्चाशत्सहस्राद्यो वैराजो विराजते ।।८ १।।
शृणु चाग्रेऽपि कालं वै नारायणीश्रि! सर्जनम् ।
वैराजश्चाऽप्ययमत्र प्रातरेव नवं नवम् ।।८२।।
ब्रह्माणं जनयत्येव विष्णुरुद्रसमन्वितम् ।
स ब्रह्माऽपि सदा सायं नश्यत्येव दिनान्तके ।।८३।।
एवं सहस्रदिवसात्मकं वर्षं विराट्कृतम् ।
अस्य वैराजपुंसश्च पंचाशद्वै समा गताः ।।८४।।
ते पञ्चाशत्सहस्राणि ब्रह्माणस्तत्सुता मृताः ।
एकपञ्चाशत्तमेऽब्दे चाद्यस्य दिवसस्य वै ।।८५।।
एकपंचाशत्सहस्राद्यो वेधाश्च विराजते ।
शृणु चाग्रेऽपि कालं वै नारायणीश्रि! सर्जनम् ।।८६।।
वेधाश्चाप्ययमेवाऽत्र प्रातरेव नवं नवम् ।
आस्वर्गान्तं सृजत्येव सुरर्षिमानवादिकम् ।।८७।।
आस्वर्गान्तं च सायं वै नित्यं नश्यति तत्तथा ।
एवं सहस्रदिवसात्मकं वर्षं हि वैधसम् ।।८८।।
एकं कल्पसहस्रं तद् ब्रह्मणोऽब्दः प्रकीर्तितः ।
वेधसोऽस्य गताश्चापि तत्पञ्चाशत्प्रवत्सराः ।।८९।।
तत्पञ्चाशत्सहस्राणि त्रैलोक्यानि मृतानि वै ।
एकपञ्चाशत्तमेऽब्दे त्वाद्यस्य दिवसस्य वै ।।3.1.९०।।
एकपञ्चाशत्सहस्राद्यः कल्पो वाराहसंज्ञकः ।
वर्तते दिवसः सोऽयं चाद्यं युगचतुष्टयम् ।।९ १ ।।
अयं चतुर्मुखश्चास्ते ब्रह्मा लोकपितामहः ।
ब्रह्मणो दिवसः कल्प इति नाम्ना कृतो मया ।।९२।।
वैराजस्य तु दिवसो महाकल्पः कृतो मया ।
महाविष्णोस्तु दिवसो महामहाख्यकल्पकः ।।९३।।
प्रधानपुंसो दिवसः कृतः प्राकृतकल्पकः ।
मायाकालस्य दिवसो महाकालाख्यकल्पकः ।।९४।।
तन्नाशे च महान् प्रोक्तो महाप्रलय एव ह ।
ब्रह्मा वर्षशतं चास्ते विराजोऽपि तथा निजम् ।।९५।।
महाविष्णुर्निजं वर्षशतं जीवति चेश्वरः ।
प्रधानपुरुषश्चापि निजं वर्षशतं तथा ।।९६ ।।
प्रकृतिपुरुषश्चापि निजं वर्षशतं ततः ।
तादृग्वर्षशतं महाप्रलयो वै निशात्मकः ।।९७।।
पुनः सृष्टिः पुनर्महाप्रलयश्चैवमेव ह ।
कृतं तन्त्रं मया श्रीनारायणीश्रि! प्रशाश्वतम् ।। ९८।।
पुनर्महासृष्टिरेव महाप्रलयकः पुनः ।
ब्रह्मणो दिवसे चैके मनवश्च चतुर्दश ।।९९।।
उत्पद्यन्ते विलीयन्ते का तेषां गणना प्रिये! ।
एकं कल्पसहस्रं तु ब्रह्मणोऽब्दश्च यो मतः ।। 3.1.१०० ।।
तदब्दाष्टसहस्रं तु ब्रह्मणस्तद्युगं स्मृतम् ।
एकं युगसहस्रं तु सवनं ब्रह्मणो मतम् ।। १०१ ।।
लक्षैकवारं त्रैलोक्यनाशे ब्रह्मा विनश्यति ।
लक्षैकवारं चाजस्य नाशे विराड् विनश्यति ।। १ ०२।।
लक्षवैराजनाशे च महाविष्णुर्विनश्यति ।
महाविष्णुलक्षनाशे प्रधानपुंविनाशनम् ।। १ ०३।।
प्रधानपुंलक्षनाशे प्रकृतिपुंविनाशनम् ।
इत्येवं कालगणना बोध्या त्वया नरायणि! ।। १ ०४।।
तासु तासु च सर्वासु सृष्टिष्वहं त्वया सह ।
अनादिश्रीकृष्णनारायणः श्रीपुरुषोत्तमः ।। १ ०५।।
प्रादुर्भवाम्यवतारी श्रीपतिः परमेश्वरः ।
अवतारा ह्यसंख्याता मे तत्र संभवन्त्यपि ।। १ ०६।।
अहं वेद्मि न चान्यस्तान् सर्वज्ञोऽहं न चेतरः ।
विदन्ति नाऽप्यवताराः पूर्वसृष्टिविदो हि ते ।। १ ०७।।
मा सन्देहं विधेह्यत्र मम दैर्घ्यं दुरन्तकम् ।
अधिकं पृच्छ जिज्ञास्यं कथयामि समासतः ।। १ ०८।।
इतिश्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने नारायणीश्रीकृता पुरुषोत्तमस्तुतिः सृष्टिकालगणना चेत्यादिनिरूपणनामा प्रथमोऽध्यायः ।। १ ।।