लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)/अध्यायः ०३४

← अध्यायः ३३ लक्ष्मीनारायणसंहिता - लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)
अध्यायः ३४
[[लेखकः :|]]
अध्यायः ३५ →

श्रीपुरुषोत्तम उवाच-
शृणु नारायणीश्रि! त्वं प्राकट्यं मम चेतरत् ।
ब्रह्मणो राजते वर्षे त्रिचत्वारिंशके पुरा ।। १ ।।
कल्पे द्वाषष्टियुक्सप्तशते मनौ त्रयोदशे ।
भक्तो विष्णोर्नैष्ठिकश्चाऽभवन्नाम्ना निरञ्जनः ।। २ ।।
विप्रो द्रुमनिवासश्च मूलपत्रफलाशनः ।
सत्यधर्मपरो नित्यं हरेर्मे जपतत्परः ।। ३ ।।
प्राणायामपरश्चापि सिद्धासनपरायणः ।
प्रत्याहारपरश्चापि धारणाध्यानतत्परः ।। ४ ।।
कायेन मनसा वाचाऽऽत्मना विष्णुपरायणः ।
संयमी ब्रह्मविद्वाँश्च रागद्वेषादिवर्जितः ।। ५ ।।
शुद्धस्फाटिकवद्भास्वान् व्योमवन्निर्मलान्तरः ।
सत्संगस्नेहपूर्णश्च सतां सेवापरायणः ।। ६ ।।
ब्रह्मदृष्टिर्ब्रह्मयत्नो ब्रह्मवत् सिद्धिशेवधिः ।
यथा ब्रह्मा यथा विष्णुर्यथा शंभुस्तथा ह्यहम् ।। ७ ।।
उपासनाबलात् सर्वैश्वर्याब्धिः समजायत ।
नैकरूपधरश्चापि परकायप्रवेशवान् ।। ८ ।।
देवेश्वरादिलोकेषु चाऽव्याहतगतिस्तथा ।
समाधिसिद्धिमान् भक्तो मम भक्तिपरायणः ।। ९ ।।
स त्वेकदा स्थितो वृक्षमूलेऽविचारयद् यथा ।
विष्णुं चतुर्भुजं त्वद्य पृच्छामि हृदयस्थितम् ।। 3.34.१० ।।
नारायणस्य वै दिव्यं दर्शनं कीदृशं त्विति ।
विचार्येत्थं प्रगे स्नात्वा पूजायां निषसाद सः ।। ११ ।।
विष्णुं चतुर्भुजं न्यस्याऽऽर्चयत् सर्वोपचारकैः ।
ततः समाधिमासाद्याऽऽह्वयद् विष्णुं पुरःस्थितम् ।। १ २।।
दिव्यरूपं च विष्णुं स पप्रच्छ विनयान्वितः ।
नारायणस्य वै दिव्यं दर्शनं कीदृशं त्विति ।। १३ ।।
विष्णुः प्राहाऽहमस्म्येव नारायणः प्रपश्य माम् ।
चतुर्भुजः श्रीनिवासः शंखचक्रगदाऽब्जवान् ।। १४।।
निरञ्जनश्च तं प्राह भवान्नारायणोऽपरः ।
परनारायणो नास्ति परं दर्शय मे त्विह ।। १ ५।।
विष्णुः श्रुत्वाऽभवत्तत्र सहस्रभुजवाँस्तदा ।
सहस्रविष्णुसदृशस्तेजसा वयसा गुणैः ।। १६ ।।
प्राह निरञ्जनं पश्य नारायणं हि मत्परम् ।
मादृशा विष्णवश्चास्मादुत्पद्यन्ते दिने दिने ।। १७।।
वर्षे वर्षे सहस्राणि विलीयन्ते पुनः पुनः ।
श्रुत्वा दृष्ट्वा च सम्पूज्य नत्वा प्राह निरञ्जनः ।। १८।।
यद्यप्ययं सहस्राक्षः सहस्रभुजवान् प्रभुः ।
परनारायणश्चास्ति तथाप्यस्मात्परोऽपरः ।। १ ९।।
नारायणो भवत्येव यस्य मे दर्शनं प्रियम् ।
भक्ताभिलाषां संवीक्ष्य ज्ञात्वा विष्णुस्ततः परम् ।।3.34.२०।।
रूपं विवर्तयामास महाविष्णवात्मकं द्रुतम् ।
महालक्ष्मीसेवितं च कोटिवैराजसदृशम् ।। २१।।
तेजसा वयसैश्वर्यैर्गुणैर्विभूतिवैभवैः ।
दर्शयामास तद्रूपं चाह भक्तं प्रपश्य माम् ।।२२।।
अयुताऽयुतबाहुं चाऽयुताऽक्षिपत्कजम् ।
इदं मे परमं रूपं कोटिवैराजकारणम् ।। २३ ।।
श्रुत्वा ज्ञात्वा वीक्ष्य नत्वा प्रपूज्य च निरञ्जनः ।
प्राह विष्णुं न चाप्येतत्परमं रूपमैश्वरम् ।।२४।।
इतोऽप्यन्यद् वर्तते तद् रूपस्याऽस्याऽपि कारणम् ।
मे तद् दर्शय रूपं वै परमोर्ध्वमितोऽपि यत् ।। २५।।
श्रुत्वा भक्तस्य भावं च ज्ञात्वा विष्णुस्ततः परम् ।
विवर्तयामास रूपं तत् ततोऽपि महत्तरम् ।। २६।।
महाविष्णुकोटितुल्यं कोट्यैश्वर्याधिकं परम् ।
रूपलावण्यमाधुर्यतेजआदिभिरुद्गतम् ।।२७।।।
कोट्ययुताक्षिबाहुं कोट्ययुतपदाम्बुजम् ।
कोटिकोटिगुणोर्ध्वं च प्राह पश्य ततोऽधिकम् ।।२८।।
निरञ्जनस्तु तं वीक्ष्य नत्वा प्रपूज्य भाववान् ।
कृत्वा च दण्डवत् पुष्पाञ्जलिं दत्त्वा जगाद ह ।।२९।।
एतद्रूपं मया दृष्टं कृपया तव सद्गुरो ।
सर्वैश्वर्यभृतं सर्वेश्वराणां च नियामकम् ।।3.34.३०।।
ईश्वराणां च या सृष्टिस्तस्यास्तेषां च शासकम् ।
तृप्तोऽस्मि वीक्ष्य परमं रूपं ते परमप्रभो ।।३ १ ।।
किन्तु नात्यन्ततृप्तोऽस्मि चाग्रे धावति मे मनः ।
द्रष्टं ते परमं रूपं ततोऽपि पारमेश्वरम् ।।३२।।
श्रुत्वा दृष्ट्वा भक्तभावं विष्णुर्भूमस्वरूपकम् ।
द्रुतं विवर्तयामास ततोऽब्जाऽर्बुदनेत्रकम् ।।३३।।
अब्जाऽर्बुदादिचरणं ततो कोट्यब्जसद्गुणम् ।
कोटिभूमोत्पादकं च कोटिसंकर्षणादिकृत् ।। ३४।।
वासुदेवात्मकं दिव्यं कोटिप्रद्युम्नसेवितम् ।
कोटितेजोमहैश्वर्याऽनिरुद्धादिसमन्वितम् ।।३५।।
वासुदेवं प्रभुं वीक्ष्य संहृष्टमानसो ह्यति ।
बभूव भक्तराट् तूर्णं नेमे तं दण्डवन्मुदा ।।३६।।
तुष्टाव च हृदा पश्चाद् विष्णुं प्राह पुनः स च ।
नात्र तृप्तिं मनश्चेति प्रदर्शय ततोऽधिकम् ।।३७।।
यावत् चतुष्टयं तावत्परं रूपं न तद् भवेत् ।
एक एवाऽद्वितीयः सः परमेशः परात्परः ।।३८।।
श्रुत्वा ज्ञात्वा भक्तभावं विष्णुस्ततः पुनर्निजम् ।
लक्ष्मीनारायणरूपं दर्शयामास शोभनम् ।।३९।।
भक्तस्तं चापि नत्वैव प्रपूज्य दण्डवद् व्यधात् ।
नैतद्रूपं च तत्प्राह ततो विष्णुः पुनश्च तम् ।।3.34.४० ।।
राधाकृष्णस्वरूपं स्वं दर्शयामास वै तदा ।
नत्वाऽभ्यर्च्य स्तुतिं कृत्वा भक्तः प्राह पुनस्तथा ।।४१।।
इतोऽप्यूर्ध्वं परब्रह्म नारायणेश्वरेश्वरः ।
सर्वान्तर्यामिकः श्रीमान् परेशः पुरुषोत्तमः ।।४२।।
अनादिश्रीकृष्णनारायणः श्रीपरमेश्वरः ।
अक्षराधिपतिर्नाथो मुक्तकोट्यादिसेवितः ।।४३।।
यस्तं निरञ्जनं यावदवताराऽवतारिणम् ।
द्रष्टुमिच्छामि वै विष्णो कृपा चेन्मयि दर्शय ।।४४।।
विष्णुर्निरञ्जनं प्राह मेऽधिकारो न तत्र वै ।
तद्रूपं केऽपि शक्ता नो धर्तुं तस्याऽवतारिणः ।।।४५।।।
अवतारा ईश्वरा वा सगुणा निर्गुणा अपि ।
अंशा विभूतयश्चापि कलाऽऽवेशा महेश्वराः ।।४६ ।।
विभवाश्चापि वा व्यूहा धर्तुं शक्ताः कदापि न ।
अवतारी स्वयं धर्तुं शक्तो रूपाणि तानि वै ।।४७।।
तस्मान्नाऽहं समर्थोऽस्मि प्रदर्शयितुमेव तम् ।
यदि त्वं वीक्षितुं तं चेद् समिच्छसि निरञ्जन! ।।४८।।
मदन्तर्यामिणं तं त्वं पूजयस्व परेश्वरम् ।
अनादिश्रीकृष्णनारायणं श्रीपुरुषोत्तमम् ।।४९।।
यस्त्वदात्मा स एवाऽपि ममात्मा हृदये स्थितः ।
अक्षरे परमे धाम्नि स एवाऽत्मा सदा स्थितः ।।3.34.५०।।
परब्रह्म स्वयं तुष्टस्तव ध्यानेन सेवया ।
तीव्रयोपासनयाऽपि स्नेहभक्त्याऽतिमात्रया ।।५ १ ।।
स्वयं दृष्टिपथं चात्राऽऽगमिष्यति कृपावशः ।
भज तं श्रीपतिं सर्वपतिं ह्येकं परेश्वरम् ।।।५ २।।
सर्वमुक्तपतिं सर्वशक्तिपतिं रमापतिम् ।
माणिकीवाहिनं तं सं भज द्रक्ष्यसि केशवम् ।।५३ ।।
द्विभुजं सर्वशोभाढ्यं सर्वान्तर्यामिणं च तम् ।
इत्युक्त्वा सहसा विष्णुस्तिरोऽभवत् ततः परम् ।।५४।।
निरञ्जनो व्यधाद् ध्यानं मम सर्वावतारिणः ।
धारणां च व्यधाच्चापि ध्यानं पुनर्व्यधात्तथा ।।५५।।
समाधिं च ततो लेभे मयि श्रीपुरुषोत्तमे ।
अक्षरे परमे धाम्नि समाययौ समाधिना ।।५६।।
ददर्श मम रूपं च त्वया साकं परात्परम् ।
दिव्यं मुक्तजुषं सर्वावतारादिविलक्षणम् ।।५७।।
एकमेवाऽद्वितीयं तत् सर्वोदग्रं परात्मकम् ।
यत्र सर्वावताराश्च सर्वधामानि यानि च ।।५८।।
सर्वेश्वराश्च तल्लोकाः सृष्टयश्च समस्तिकाः ।
निरञ्जनो ददर्शैव मूलं रूपं ददर्श च ।।५९।।
प्रार्थयामास भक्तो मां गन्तुं लोके निजे सह ।
आत्यन्तिकविमुक्त्यर्थं जीवानां गोचरो भव ।।3.34.६ ०।।
भक्तवश्योऽप्यहं तस्मै तथास्त्वेवं तदाऽवदम् ।
त्वया साकं श्रिया चाऽहं भक्तेन सह भूतले ।।६ १।।
समाययौ तदा लक्ष्मि! साक्षाच्छ्रीपुरुषोत्तमः ।
भक्तेच्छापूरकश्चाऽहं भूलोके मानवोऽभवम् ।।६२।।
निरञ्जनस्य वै गेहे प्राकट्यं मे ह्यजायत ।
त्वं तदा पार्श्ववासस्य तापसस्य द्विजस्य च ।।६३।।
नाम्ना निष्किञ्चनस्यापि पुत्री व्यजायथाः प्रिये ।
स च कालेनाऽऽर्पयन्मे ज्ञात्वा मामवतारिणम् ।।६४।।
अनादिश्रीकृष्णनारायणं श्रीपुरुषोत्तमम् ।
परब्रह्माऽक्षरातीतं परमेशं सनातनम् ।।६५।।
ततश्चाहमनादिश्रीनैरञ्जनिनरायणः ।
ख्यातिमाप्तस्त्वया साकं नैष्किञ्चनीश्रिया प्रिये ।।६६।।
मन्वन्तरं न्यवसं च मोचयन् मानवान् श्रितान् ।
स्मर लक्ष्मि! तदा मां त्वां प्राकट्यं स्मर शोभनम् ।।६७।।
अन्येऽवतारास्तत्रापि कल्पेऽभवन् मम प्रिये! ।
सर्वान् जानाम्यहं नान्ये जानन्ति तान्नरायणि ।।६८।।
असंख्यजीवा मोक्षे वै तदा सम्प्रेषिता मया ।
त्वया चासंख्यजीवाश्च साध्व्यश्चापि विमोचिताः ।।६९।।
पठनाच्छ्रवणाच्चास्य स्मरणाद्धारणादपि ।
भुक्तिर्मुक्तिर्भवेच्चापि यथेष्टानन्दवान् भवेत् ।।3.34.७०।।
अग्रहा नाम ते माता मम माताऽऽशुतोषिणी ।
प्राप्य पुत्रीं श्रियं पुत्रं परमेशं हरिं प्रभुम् ।।७१।।
मेनाते जन्मसाफल्यं मुक्तान्यौ ते ह्युभे सदा ।
आचार्याण्यौ तु ते जाते लोकानां मातरावुभे ।।७२।।
यशस्विन्यौ मोक्षदात्र्यौ सर्वपूज्ये पराऽऽस्पदे ।
वंशौ तौ सर्वदा पूज्यौ बभूवतुस्तदा प्रिये ।।७३।।
अथेतरच्च लक्ष्मि! त्वं शृणु प्राकट्यमेव मे ।
वेधसो वत्सरे चतुश्चत्वारिंशे कपालके ।।७४।।
नवनवत्यूर्ध्वनवशते कल्पेऽद्वये मनौ ।
पतिव्रता मम भक्ता नाम्ना पुण्यवती सती ।।७५।।
विप्राणी देवपुष्पस्य विप्रस्याऽभूद् विवाहिता ।
शीलपरा धर्मपरा देवपूजापरायणा ।।७६।।
पतिसेवापरा चापि सत्यधर्मपरायणा ।
तीर्थकर्त्री व्रतकर्त्री ध्यानयोगपरायणा ।।७७।।
विप्रोऽपि धार्मिकश्चासीत् साधुसेवापरायणः ।
युगलं निरपत्यं वै वार्धक्याऽभिभवाऽन्वितम् ।।७८।।
अजायत सुतो नैव सुता नापि व्यजायत ।
सती पुत्रेषणाखिन्ना भाग्यं शुशोच वै मुहुः ।।७९।।
एकदा भाग्यकर्तारं वेधसं सा शशाप ह ।
जडो भव प्रजाहीनो यथा चावां तथा भव ।।3.34.८०।।
द्रुतं तदा सत्यलोके वेधसो हस्ततस्तदा ।
निर्माणदण्डोऽप्यपतत् कुलालस्य कराद् यथा ।।८ १ ।।
संसारचक्रं न्यपतत् कीलकात् पार्श्वभूतले ।
ब्रह्माण्डघटपिण्डश्च विशीर्णो वेगशातितः ।।८२।।।
तन्तुर्दूरं तथाऽऽक्षिप्तं क्षिप्तान्युपकराण्यपि ।
ब्रह्मा तु जडतां प्राप्तः शववन्मूर्छितोऽभवत् ।।८३।।
घटशाला सकम्पा च व्यजायत विमर्दनात् ।
कृतान्यन्यानि चाण्डानि भग्नानि चक्रतोऽभवन् ।।८४।।
हाहाकारो महान् जातो घटशालाभितस्तदा ।
ब्रह्मा स्रष्टा मृतश्चेति मृतप्रायो हि मूर्छितः ।।८५।।
कारणं किं न वै विद्मो जगुः कार्यकरास्तथा ।
सावित्र्याद्याश्चाययुर्वै रुरुदुर्वीक्ष्य मूर्छितम् ।।८६।।
सिद्धा महर्षयश्चाप्याययुस्तत्र प्रजेश्वराः ।
ब्रह्मपुत्राः कार्यकराः शालायां समुपाययुः ।।८७।।
दिक्पालाश्चाययुः सर्वे ब्रह्माणश्चापरेऽपि च ।
शापजडं तथा वीक्ष्य वीक्ष्य सृष्टिविहीनकम् ।।८८।।
विलापं बहुधा चक्रुस्ते सर्वे तत्र संहताः ।
अथ ये ये ब्रह्मपुत्रो ब्रह्मपुत्र्यस्तथा च याः ।।८९।।
ब्रह्मणश्चानपत्यत्वशापेनापि समावृताः ।
मृत्यवे समजायन्त रुग्णाश्च मूर्छिता द्रुतम् ।। 3.34.९० ।।
यथा द्वौ पुत्रहीनौ तौ पुत्रीहीनौ तथा यथा ।
तथा ब्रह्माऽपि पुत्र्यादिहीनो सावित्रिका तथा ।।९ १ ।।
पुत्रपुत्र्यादिहीना च भवितुं दैवयोजिता ।
निजपुत्रान्निजपुत्रीर्ददर्श जडरोगिणः ।।९२।।
मुमूर्षून् सहसा तत्र यतः शापो भयंकरः ।
द्वयोरेवावशेषार्थं शापः सत्याः प्रवर्तितः ।।९३।।
तदा सर्वैः स्मृतो विष्णुः शंभुर्विराट् नरायणः ।
सर्वे क्षणादाययुश्च शापरोधनहेतवे ।।९४।।
मिलित्वा कारणं मार्गयित्वा ययुर्द्रुतं सतीम् ।
पुण्यवतीं प्रति क्ष्मायां सान्त्वयामासुरेव ताम् ।।९५।।
सा प्रपूज्य भगवतः सर्वान् प्राह हृदि स्थितम् ।
भाग्यं मम कथं पुत्रपुत्रीहीनं कृतं यतः ।।९६।।
नाऽहं शापं प्रदत्तं निवर्तयिष्ये सुरेश्वराः ।
यथागता गृहं यान्त्वन्यथा शप्ता भविष्यथ ।।९७।।
ज्ञात्वा श्रुत्वा च भक्ताया वचनं बलवत्तदा ।
भीताः सर्वे सस्मरुश्च श्रीपतिं पुरुषोत्तमम् ।।९८।।
तैः स्मृतोऽहं भगवानागतस्तत्र तु पद्मजे ।
त्वया साकं ह्यनादिश्रीकृष्णनारायणो हरिः ।।९९।।
पुण्यवती प्रभुं वीक्ष्य लज्जानम्रा बभूव ह ।
इष्टदेवं परमेशं वीक्ष्य मच्छरणं गता ।। 3.34.१० ०।।
पपात पादयोस्तूर्णं पत्या सह च मे च ते ।
मयोक्ता सान्त्विता सा तु ययाचे युगलं तदा ।। १०१ ।।
पुत्रं मां च तथा पुत्रवधूं त्वां च ततः परम् ।
वेधसश्च भवेच्छापनिवृत्तिर्भाग्यरोहणात् ।। १०२।।
तथाऽस्त्विति मया प्रोक्ता सा जगाद च वेधसः ।
जडत्वं यातु चावाभ्यां तुल्यता चापि माऽस्तु च ।। १०३ ।।
सप्रजत्वं बहुपुत्रपुत्रीमत्वं भवत्वपि ।
इत्युक्तमात्रे तूर्णं सा घटशाला सुचेतना ।। १ ०४।।
ब्रह्मा च ब्रह्मणश्चाप्यपत्यानि चेतनानि वै ।
जिजीविषवोऽजायन्त सतीवाक्यप्रणोदिताः ।। १ ०५।।
अहं तस्याः सुतो जातस्तत्रैव परमेश्वरः ।
अनादिश्रीपुण्यनारायणः श्रीपुरुषोत्तमः ।। १ ०६।।
त्वं च कल्याणिकानाम्न्या भक्ताया मम पुत्रिका ।
अभवश्चाग्निहोत्रस्य द्विजस्याऽपत्यरूपिणी ।। १ ०७।।
तेन मह्यं प्रदत्ता त्वं विधिना मद्विवाहिता ।
अभवस्त्वं तदा लक्ष्मि! कल्याणीश्रीरितिश्रुता ।। १ ०८।।
स्मर सर्वं जनुस्ते मे सर्वसौभाग्यकारकम् ।
पठनाच्छ्रवणाच्चापि स्मरणाद् भुक्तिमुक्तिदम् ।। १ ०९।।
अन्ये तथाऽवतारा मे तदाऽभवन् सहस्रशः ।
भुक्तिमुक्तिप्रदाश्चापि लोकरक्षाकराः प्रिये ।। 3.34.११ ०।।
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने वेधसस्त्रिचत्वारिंशे वत्सरे भक्तार्थम् अनादिश्रीनैरञ्जनीनारायणस्य नैष्किञ्चनीश्रीसहितस्य, चतुश्चत्वारिंशे वत्सरे च ब्रह्मणः पुण्यवतीशापनिवृत्त्यर्थम् अनादिश्रीपुण्यनारायणस्य कल्याणिकाश्रीसहितस्य च प्राकट्यमित्यादिनिरूपणनामा चतुस्त्रिंशोऽध्यायः ।। ३४ ।।